OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 9, 2016

 जि एस् टि - लोकसभायाः अनुमतिरपि लब्धा।
    नवदहली > राष्ट्रस्य करसम्प्रदाये बहुविधपरिवर्तनेभ्यः निदानं भविष्यतीति चिन्त्यमानस्य जि एस् टि नियमपत्रस्य कृते लोकसभायाः अनुमतिः लब्धा। गतसप्ताहे राज्यसभायाः अनुमतिं प्राप्तस्य जि एस् टि पत्रस्य पुरतः इदानीं राज्यानामनुमतिरेव अवशिष्यते। लोकसभायां ४२९ अङ्‌गानां सहयोग: पत्राय लब्ध:I ए ऐ डि एम् के दलेन सम्मतिदानप्रक्रिया बहिष्कृता। केन्द्रधनसचिवः अरुण् जयटली सर्वकारपक्षतः पत्रावतरणमकरोत्। काण्ग्रस् दलं पत्रम् आनुकूल्य सम्मतिदानम् अकरोत्। बहुविधचर्चायाः अनन्तरं परिवर्तनैः सहैव पत्रं लोकसभायां समर्पितम् वर्तते।

रियो ओलिम्पिक्स् - भारतस्य कृते निराशा एव।       
        रियो डि जनीरो > रियो ओलिम्पिक्स् मध्ये भारतसङ्घः निरन्तरपराजयम् अनुभूय अग्रेसरति। वरिष्ठक्रीडकस्य लियाण्टर्पेसस्य पराजयादारभ्य तृतीयदिनपर्यन्तं पराजयः एव वर्तते। ह्य: अवसिते गोलीप्रहारणमत्सरे भारतस्य अभिनवबिन्द्रस्य कृते चतुर्थं स्थानमेव लब्धम् । होकी मत्सरे पुरुष-वनिताविभागौ अपि पराजयमनुभूतौ। अपि च तरणक्रीडायां भारतसङ्‌घस्य पराजयः एव आसीत्। अधुना अप्रतीक्षिततया कायिकाभ्यासप्रदर्शने अन्तिमचक्रं प्रविष्टा दीपा कर्मार्कर् एव भारतस्य प्रतीक्षा।

केरळेषु सामूहिकविद्यालयेषु एकीकृतवस्त्रधारणम् आवश्यकम् - मुख्यसचिवः।
 तलश्शेरी  > केरळेषु सामूहिकविद्यालयेषु एकीकृतवस्त्रधारणसम्प्रदायः आवश्यकः इति मुख्यसचिव: पिणरायि विजयःI एतदर्थम् आवश्यकं व्यवहारं स्वीकर्तुं शैक्षिकविभागाय निर्देशः दीयते इत्यपि तेन सूचितम्। तलश्शेरी सेन्ट् जोसफ् उच्चतरविद्यालये भूतपूर्वछात्रै: संघटितस्य आगोलसङ्गमस्य उद्घाटनवेलायामेव मुख्यसचिवेन एतत् सूचितम्। सामूहिकोन्नमनमेव विद्याभ्यासस्थापनानां परमं लक्ष्यं भवतु इत्यपि तेन स्मारितम्।