OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 4, 2016

जि एस् टि - राज्यसभायाम् अनुमतिः लब्धा।
    नवदहली > जि एस् टि  कृते राज्यसभायाम् अनुमतिः लब्धा। राष्ट्रस्य करसम्प्रदाये महत्परिवर्तनाय सज्जं जि एस् टि  नियमपत्राय राज्यसभाङ्गानां सम्मतिदानेनैव अनुमतिः दत्ता। सभायाम् अण्णा डी एम्‌ के दलेन सम्मतिदानं बहिष्कृतम्। अन्येषां सर्वेषामपि अङ्गानां सम्मतिदानं सम्पाद्य ऐक्यकण्ठेनैव केन्द्रसर्वकारेण अनुमतिः प्राप्ता वर्तते। २०१५ तमे वर्षे लोकसभायां समर्पितं जि एस्‌ टि नियमपत्रं परिवर्तनैः सहैव राज्यसभायां समर्पितम्। अतः नियमपत्रं पुनरपि लोकसभायां समर्पणीयं वर्तते। तत्र भूरिपक्षः वर्तते इत्यतः अनुमतये केन्द्रसर्वकारस्य तावान् क्लेशः न स्यात्। ततः राज्यस्तरीयानां नियमसभानाम् अङ्गीकारः प्राप्तव्यः, ततः राष्ट्रपतेः हस्ताक्षरेण एव नियमपत्रस्य प्राबल्यं भविष्यति। प्राबल्यं सम्पादयितुम् अर्धानां राज्यानाम् अड्गीकारः आवश्यकः अस्ति।

 तिरुवनन्तपुरं-दुबाय् विमानं दग्धम् - यात्रिकाः सुरक्षिताः।
 
दुबाय् >  तिरुवनन्तपुरात् दुबाय् प्राप्तम् एमिरेट्स् विमानम् आरोहणसमये दग्धम्। दुबाय् विमाननिस्थाने एव अपघातः सञ्जातः। विमानस्य प्रवर्तनयन्त्रभागादेव अग्निबाधा आरब्धा। पश्चात् अग्निः प्रसरितः च। विमानं पूर्णतया दग्धं वर्तते। किन्तु सर्वेऽपि यात्रिकाः सुरक्षिताः एव। यात्रिकाणां यात्रासाधनानि पूर्णतया दग्धानि। विमाने २८२ यात्रिकाः आसन्। अग्निबाधया औद्योगिकरेखाः नष्टानां यात्रिकाणां कृते परिहारव्यवहारः स्वीक्रियते इति अधिकारिभिः सूचितम्। विमानचालकस्य मनस्सान्निध्येन महान् दुरन्तः निवारितः इति विदग्धैः अभिप्रेतम्।

 चैनां प्रतिरोद्धुं सीमायां १०० ब्रह्मोस् क्षेपणायुधाः।
 नवदहली > सीमायां चैनायाः सैनिककेन्द्राणि लक्ष्यीकृत्य १०० ब्रह्मोस् क्षेपणायुधाः भारतेन विन्यस्यन्ते। एतदर्थं प्रधानमन्त्रिणः अध्यक्षतायां संवृत्ते योगे निर्णयः स्वीकृतः। २.८ माच् वेगतायां गम्यमानः ब्रह्मोस् विश्वस्य सर्वोत्तमः क्षेपणायुधः भवति। ४३०० कोटि रुप्यकाणां व्ययेन निर्मीयमानस्य नूतनस्य ब्रह्मोस् ब्लोक् ३ विभागस्य सैन्यव्यूहः एव सीमायां विन्यस्यते।

 रियो ओलिम्पिक्स् - प्रथमः विजयः स्वीडन् कृते।
    रियो डी जनीरो > रियो ओलिम्पिक्स् २०१६ मध्ये प्रथमः विजयः स्वीडन् दलेन प्राप्तः। अत्लटिक्स् इतरस्पर्धासु पादकन्दुकक्रीडायामेव स्वीडन् दलस्य विजयः। वनितानां पादकन्दुकक्रीडायाः प्रथमस्पर्धायां स्वीडन्‌ दलं दक्षिणाफ्रिका दलं १-० इत्यनुपाते अपराजयत्। स्पर्धायाः द्वितीयपादे निल्ला फिषर् स्वीडन् कृते लक्ष्यं प्राप्तवती। फिफायाः उत्कर्षपट्टिकायां षष्ठे स्थाने भवति स्वीडन्।

अतिवृष्ट्या सेतुः भग्नः-विंशति जनाः अदृष्टाः!
मुम्बई- महाराष्ट्रायां महाड् प्रदेशे सावित्री नद्यां विद्यमानः सेतुः अतिवृष्ट्या भग्नः अभवत्! अतिप्रवाहे द्वे बस् याने  नैकानि कार् यानानि च पतित्वा अदृष्टानि। विंशत्यधिकाः यात्रिकाः स्रवन्ति स्म इति सूचना। द्वौ मृतदेहौ दृष्टौ।
     मुम्बई तः १७०  कि मी दूरे मुम्बई-गोव देशीयमार्गे अर्धरात्रौ एव दुर्घटना जाता। रक्षाप्रवर्तनानि आरब्धानि सन्त्यपि महती वृष्टिः प्रतिबन्धः अभवत्। स्थल- नाविक-व्योमसेनयाः साहाय्येनैव रक्षाप्रवर्तनं अग्रगामी अस्ति।