OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 25, 2016

संस्कृते बाल-कविता पाठोत्सवः।
 पुदुच्चेरी >पुदुच्चेरीस्थः संस्कृत -बाल -साहित्य परिषदेन संस्कृत बाल-कविता-पाठोत्त्सवः समायोज्यते । देहलिस्थस्य श्री अरविन्दाश्रमस्य परिसरे सेप्तंबर् मासस्य नवमेदिनाङ्गे सायं पञ्च वादने अनुष्ठास्यते । स्वस्य कविता श्रावयतुं तत्र सन्दर्भः लभ्यते। सर्वोवोत्तम बालकवितायाः कृते बाल साहित्य परिषदेन विशेष सम्मानः गौरवं धनं च प्रदास्यते इति परिषदस्य निदेशकेन डाँ सम्पदानन्दमिश्र महोदयेन उक्तम्। सम्पर्क सूची - sampatanandamishra@gmail.com / 09952888350

व्याकरणवर्गः संस्कृत - शिक्षकाणां कृते
संस्कृतशिक्षकाणां कृते संस्कृतभारती मध्यभारतप्रान्तेन आयोजयिष्यमाणः "द्वि-दिवसीयः व्याकरणवर्गः"
वर्गस्थानम् = राष्ट्रियसंस्कृतसंस्थानं भोपालपरिसरः, संस्कृतमार्गः वागसेवनिया, भोपालम्।
(वर्गस्यावधिः = 11-12, सितम्बर 2016)
@- वर्गेSस्मिन् व्याकरणमधीतुं ये इच्छन्ति ते कृपया संस्कृतकार्यकार्तृभिः सह सम्पर्कं ।
# - वर्गविषये इतोSप्यधिकं संज्ञानार्थं दूरभाषक्रमांकेSस्मिन् सम्पर्कं कुर्वन्तु -
श्री पवनद्विवेदी, संस्कृतभारती, महानगरसंयोजकः भोपालम्। मो. +91 7898996363