OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 13, 2016

सीमायां तालिबान् आक्रमणाय साध्यतेति पाकिस्तान्।
लाहोर्>भारतस्य स्वातन्त्र्यदिनाघोषमनुबन्ध्य वाग-गन्दसिंहसीमायां तालिबानस्य आत्मघात्याक्रमणसाध्यता अस्तीति पाकिस्तानस्य तीव्रवादविरुद्धसेनायाः  जाग्रतासूचना।
    तेहरिक् इ तालिबान् फसलुल्ला नामकस्य भीकरविभागस्य द्वौ आत्मघातिसङ्घाङ्गौ प्रस्तुतप्रविश्यां निलीय प्रविष्टवन्तौ इति सेनावक्त्रा उक्तम्। आगस्त् १३- १५ दिनाङ्काभ्यन्तरे स्यात् आक्रमणमिति सूचना।



राष्ट्रे ९८३ रेलयानालयेषु निरीक्षणचित्रग्राहिण्यः स्थापयिष्यति - केन्द्रसर्वकारः।
 नवदहली > वनितायात्रिकानां सुरक्षायै राष्ट्रे ९८३ रेलयानालयेषु सिसिटिवि चित्रग्राहिण्यः स्थापयिष्यतीति केन्द्रसर्वकारेण राज्यसभायां प्रख्यापितम्। निर्भया धनपद्धतेः साहाय्येनैव पद्धतिरियं संस्थाप्यते इति केन्द्ररेलसहमन्त्री राजेन् होगेयिन् सभायाम् अवदत्। धनसाहाय्यस्य लभ्यताम् अनुसृत्य पद्धतेः व्यापनमपि उद्‌दिश्यते इत्यपि सः अवदत्।

केन्द्रसर्वकारं प्रति उच्चतरन्यायालयस्य विमर्शनम्।
 नवदहली > केन्द्रसर्वकारं प्रति उच्चतरन्यायालयस्य दण्डनव्यवहारः रूक्ष विमर्शनं च । राष्ट्रस्य वाहनापघातान् सम्बन्ध्य विशदीकरणं दातुं केन्द्रसर्वकारस्य विलम्ब एव विमर्शनस्य कारणम्I उच्चतरन्यायालयव्यवहार: ग्रामपञ्चायत् व्यवहाराः  इव न द्रष्टव्याः इति उच्चतरन्यायालयाध्यक्षेण टि एस्‌ ठाकुरमहोदयेन स्मारितम्। गतागतमन्त्रालयपक्षतः द्वयोः वर्षयोः विशदीकरणम् एतावता न लब्धम्, एतत् अङ्‌गीकर्तुं नैव शक्यते इति अध्यक्षेण सूचितम्‌।२५००० रूप्यकाणि दण्डनव्यवहाररूपेण   समर्पणीयानि इति न्यायालयेन निर्देश: दत्तः। सप्ताहत्रयाभ्यन्तरे उचितं विशदीकरणं दास्यतीति सर्वकारपक्षतः अट्टोर्णी जनरलेन उच्चतरन्यायालयं प्रति बोधितम्।

 वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः। 
 नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरं निरोधितः वर्तते। वैमानिकाभ्यां गुरुतरःकृत्य विलोपः एव कृतः इति व्योमया नामन्त्रालयः सूचितमासीत् ।

 भ्रष्टाचारविरुद्धप्रवर्तनं विद्यालयादेव आरम्भणीयम् - डो.जेक्कब् तोमसः।
कोच्ची> भ्रष्टाचारान् विरोद्धुं क्रियाविधयः विद्यालयेभ्य एव आरम्भणीय इति केरलस्य दक्षतासंस्थायाः अधिकारी डो. जेक्कब् तोमसेन प्रस्तुतम्। एरणाकुलं सेन्ट् तेरेसास् कलालये आयोजितायां "यूत् फोर् स्वच्छ् आन्ड् सच्चा भारत्" नामिकायाः सङ्गोष्ठ्याः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
केवलबोधवत्करणेन प्रयोजनं न लभते !  भ्रष्टाचाराचरणस्य मानसिकावस्था परोक्षतया अपि विद्यालयतः एव प्रारभते इति तेनोक्तम्। लक्षशः रूप्यकाणि दत्वा अध्यापकवृत्तिं प्रविष्टमानः प्रत्यक्षेषु वर्तमानेषु भ्रष्टाचारेषु निस्सहायः वर्तेत। ईदृशीं निस्संगतां निर्विकारतां च त्यक्त्वा प्रतिकरणशेषिं प्रवर्धेत इत्यस्ति विद्यालयेषु भ्रष्टाचारविरुद्धप्रवर्तनानां मुख्योद्देश्यः इत्यपि जेक्कब् तोमस्वर्येण उक्तम्।

कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयः सूचितमासीत्।
 जम्मु> काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।  नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।