भारतम् अन्टार्टिका च एकं भूतलखण्डम् - प्रमाणं लब्धम्।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgiBytGS22g7aEa-ZgzIeNuLvBmuZ3VNMmaJK2ohTcSCEiTGLLGKsGnYCRBLQj7Ctyisp0KXpSUy_oHzD5ziGyXN1EnBQOzMBIHEeXbuQQYcuqQNlipv5qNjx6s1VbT68VQdR5LWEzukTar/s320/Antarctica-ice-sheet--Glo-010.jpg.image.784.410.jpg)
कोल्कत्ता
> शतकोटि संवत्सरात् पूर्वं भारत- उपभूखण्डम् अण्टार्टिका भूखण्डस्य
भागः आसीत् इत्यूहः सत्यमिति भूगर्भ वैज्ञानिका: सप्रमाणम् वदन्ति ।
मानवानां उत्पत्तेः पूर्वें भूमेः प्रतलचलनानानि एव भूखण्डस्य
संयोग-वियोगयोः कारणमिति अनुमानं सत्यमिति भौम -परिणाम संबन्धतया
अनुसन्धानं कृतवता भारत स्विस्सर्लन्ट् संयुक्त वैज्ञानिकानां दलेन एव
सप्रमाणं प्रकाशितम्। ओडीषा जार्खण्ड मण्डलयोः पूर्वघट्ट पर्वत-भागेषु
कृतानुसन्धानमेव प्रमाणलब्धेः कारणमिति देवाशिश् उपाध्यायः अवदत् । एषः
खर्गपुर ऐ.टी संस्थायाः भैमवैज्ञानिकः भवति।