OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 4, 2017

निर्वाचनं जाति-धर्मातीतं भवितव्यम् - सर्वोच्चन्यायालयः।
नवदिल्ली >जात्याः धर्मस्य च आधारे सम्मतिदानग्रहणं न आशास्यमिति सर्वोच्चन्यायालयस्य धर्मसंहितापीठेन आदेशः कृतः। मानवानां धर्मः ,वर्गः , जातिः ,भाषा इत्यादीनामाधारेण क्रियमाणं मतदानसङ्ग्रहणं निर्वाचनभ्रष्टाचार इति न्यायपीठेन निगदितम्। मुख्यप्राड्विवाकस्य टि एस् ठाक्कुरवर्यस्य अाध्यक्ष्ययुक्तेन सप्ताङ्गयुक्तेन शासनधर्मसंहितापीठेनैव एषः सुप्रधानः निर्णयः कृतः।
     जनप्रातिनिध्यनियमे १२३[३] विभागे सूच्यमानं "तस्य धर्मः " इत्यत्र स्थानाशिनः, प्रतिनिधेः, सम्मतिदातॄणां च जाति धर्मादयः अन्तर्भूताः इति न्यायपीठस्य भूरिपक्षनिर्णये स्पष्टीकृतम्।

भारत-वंशीयः शेख रफीक: किर्गिस्ताने "मेजर् जनरल्"।
नवदिल्ली> भारतीयमूलस्य निवासी शेख रफीक मोहम्म: नाम भारतवंशजः किर्गिस्तान देशे रक्षा विभागे "मेजर् जनरल्" इत्यस्मिन् पदे नियुक्त: अभवत्। सुचनानुसारेण कुत्रापि कस्यचित् देशस्य वैदेशिक नागरिकस्य अन्यस्मिन् देशे एतादृशरुपेण रक्षा विभागस्य उच्चपद अलंकरणस्य दुर्लभ एवञ्च प्रप्रथमम् उदाहरणमस्ति। भारतदेशस्य केरलराज्यस्य मूल निवासी रफीक: इत:पूर्वमपि किर्गिस्तान-देशस्य भूतपूर्व राष्ट्रपतिः कुर्मानबेक सेलियेविच बेकियेवस्य मुख्य सलाहकार पदे आसीत्।

पञ्चराज्यानां विधानसभेयनिर्वाचनानि
निर्वाचनायोगेन पञ्चराज्यानां विधानसभानिर्वाचनेभ्यः मतदानेभ्यः तिथयः समुद्घुष्टाः उत्तरप्रदेशे सप्तचरणेषु मणिपुरे चरणद्वये उत्तराखण्डगोवापञ्जाबराज्येषु एकस्मिन्नेव चरणे मतदानं भविष्यति |

१- उत्तरप्रदेशस्य
प्रथमचरणमतदानम् - ११/०२/२०१७
द्वितीयचरणमतदानम् -१५/०२/२०१७
 तृतीयचरणमतदानम् - १९/०२/२०१७
चतुर्थचरणमतदानम् - २३/०२/२०१७
 पञ्चमचरणमतदानम् - २७/०२/२०१७
 षष्ठचरणमतदानम् - ०४/०३/२०१७
 सप्तमान्तिम् चरणमतदानञ्च -०८/०३/२०१७
२- मणिपुरस्य
प्रथमचरणमतदानम् ०४/०३/२०१७
द्वितीयचरणमतदानम् ०८/०३/२०१७
३,४,५- उत्तराखण्ड-गोवा-पञ्जाबराज्येषु च  १५/०२/२०१७ दिनानि विनिर्धारितानि |

केरल-क्रिकेट् संघात् त्यागपत्रम्।
कोच्ची>सोमवासरे क्रिकेट संघस्य(केसीए)अध्यक्षस्य टी० सी० मात्यू इत्यस्य नेतृत्वे सर्वेsपि अधिकारिणा: स्व-स्व पदात् त्यागपत्रं दत्तवन्त:। तेषां वक्तव्यमासीत् यद् सर्वोच्च न्यायालयेन गठित लोढा समिते: अनुशंसानां केसीए मध्ये आरम्भ: भवतु एतदर्थं त्यागपत्रं दत्तवन्त:। सर्वोच्चन्यायालयस्य आदेशानुसारं ते सर्वेsपि अधिकारिणा: ये नव(९)वर्षात्मकं कार्यकालं पूरितवन्त: ते सर्वेsपि त्यागपत्रं दास्यन्ति । टी० सी० मात्यू अनुसारेण केसीए संस्थाया: वरिष्ठ-सदस्या: बी० विनोद: नूतन संघाध्यक्ष: जयेश जोर्ज: नूतन: सचिव: च भविष्यति। व्यवसायेन वाकील: टी० सी० मात्यू १९९७ त: २००५ पर्यन्तं केसीए संस्थाया: कोषाध्यक्ष-पदे तत: परं २०१४ पर्यन्तं सचिव-पदे २०१४ त: अध्यक्ष-पदे च आसीत्।

तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य एकादश-दिनाङ्कतः
कोच्ची> माङ्गल्य देवता इति प्रसिद्धा तिरुवैराणिक्कुलं नाम देशास्य श्रीपार्वती देव्याः आलयस्य संवत्सरीयः कवाटोद्घाटन-महोत्सवः ज नुवरिमासस्य एकादश दिनाङ्के आरप्स्यते। आर्द्रा महोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम् । संवत्सरे एक वारं आलय -कवाटम् उद्‌घाट्य द्वादशदिन पर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता। कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः दर्शनम् उत्तममिति प्रथा अस्ति।