OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 16, 2017

भारतीय विद्यानिकेतनस्य विद्यालय कलोत्सवः सम्पूर्णमभवत् ।
कोट्टयं जनपदस्य किरीटप्राप्तिः।

कोट्टयम् (केरळम्) > भा. वि. नि विद्यालयस्य विद्यालयकलोत्सवः ह्यः सम्पन्नः। कोट्टयम् जनपदः किरीटाधिकारी अभवत्। अस्मिन् कलोत्सवे त्रिसहस्रं छात्राः स्पर्धासु भागभाजाः अभवन्। भारतस्य शिक्षा मण्डलेषु प्रसिद्धा सर्वकारेतर अध्ययनसंस्था भवति विद्याभारति। विद्या भारत्याः केरलविभागः भवति विद्या निकेतन् । अस्याः  त्रयोदशत्तम कलोत्ससवः आसीदियम्।

फिल्मफेयर् पुरस्काराः
द्विषष्टितमे फिल्मफेयर पुरस्कारेषु दङ्गलचलच्चित्रेण श्रेष्ठचलच्चित्र,श्रेष्ठनिर्देशक,श्रेष्ठाभिनेता चेति पुरस्काराः विजिताः । आलियाभट्टः श्रेष्ठाभिनेत्री पुरस्कारेण सभाजिता ।

 गंगासागरे समायोजितमेलके सम्भ्रमपलायनदुर्घटना 
कोल्कत्ता > पश्चिमबंगालस्य  गंगासागरे  मकरसङ्क्रांतिपर्वणि समायोजिते मेलके ससंभ्रमपलायने न्यूनान्न्यूनं षड्जनाः मृत्युमुपगताः। नेकै व्रणिताः संसूच्यन्ते  व्रणितानामुपचारः प्रचलति। राष्ट्रियापदुद्धारबलेन साहाय्योद्धारकार्याणि  सजवं प्रवर्त्यन्ते | ध्यातव्यमिदं यत् गंगासागरे मेलकस्यास्यायोजनं  प्रतिवर्षं भवति ।

69तमः सेनादिवसः आमानितः 
प्रधानमन्त्रिणा सैन्यभटाः प्रशंसिताः 
नव दिल्ली >सैन्यदिवसावसरे प्रधानमंत्रिणा नरेंद्रमोदिना सैन्यभटा: वर्धापिताः । ट्वीटसंदेशे भारतीयसेनायाः अतुल्यपराक्रमस्य महत्तां प्रशंसता मोदिना प्रोदीरितं यत् देशस्य संप्रभुताविषये   प्राकृतिक-आपत्सु च नागरिकाणां रक्षा सैन्यबलैः अनारतं समाचर्यते ।