OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 18, 2017

विमाननिलयस्य समीपे स्थितं भवनं विमानस्य भ्रंशपथगतिवशात् भग्नम् अभवत्। सप्तत्रिंशत् जनाः मृताः पञ्चदशजनाः व्रणिताः।
ब्रिष्केक्> मध्येष्यायाः किर्गिस्थानस्य राजधान्यां वर्तमानस्य मनास् विमान-विमाननिलयस्य समीपे जनवासकेन्द्रे एव दुर्घटना जाता। तत्र उषिताः जनाः विमानकर्मकराः च आहत्य सप्तत्रिंशत् जनाः तैस्सह मृताः। होङ्कोङ्‌तः आगतः आसीत् विमानम्। दुर्घटनायाः कारणम् हिम-धूमपटलः इति अनुमीयते।
अफ्‌गानिस्थानस्योपरि सैनिकप्रवर्तनाय यू.एस् राष्ट्राय दत्तमासीत् एतत्‌ निस्थानम्। उपयोगानन्तरं २०१४तमे यू एस् राष्ट्रेण प्रत्यर्पित मासीत् । किर्गिस्थानस्य बृहत्तमं विमान मिस्थानं भवति एतत्। Photo -Royitors

ए टि एम् द्वारा दशसहस्रम्।
मुम्बई>ए टि एम् यन्त्रद्वारा प्रतिदिनं प्रतिनिवृत्तमानानां रूप्यकाणां संख्या दशसहस्रं यावत् वित्तकोशकार्यालयेन वर्धिता। इतःपर्यन्तं ४५०० रुप्यकाणि आसन्। ए टि एम् द्वारा निश्शुल्कव्यवहाराणां संख्या मेट्रोनगरेषु  प्रतिमासं तिस्रः, ग्रामेषु पञ्च इति नियन्त्रणम् आवश्यकमिति वित्तकोशैः वित्तमन्त्रालयं प्रति निर्दिष्टम्।


पंजाबविधानसभायै नामांकनम् 
पटियाला>कांग्रेसस्य कैप्टन अमरिंदरसिंहेन  अकालीदलस्य जे जे सिंहेन पटियाला-विधानसभासनात्  नामांकनं कृतम्। पंजाबविधानसभायै एकस्मिन् चरणे फरवरी मासस्य चतुर्थे दिनांके मतदानं भविष्यति।