OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 27, 2017

विश्वस्य सुशक्तेषु अष्टराष्ट्रेषु भारतम् षष्टस्थाने।
वाषिङ्टण् > २०१७ संवत्सरारंभे विश्वस्य अष्टराष्ट्रेषु भारतम् षष्टस्थानमावहति इति यू एस् मास पत्रिकायाः रिप्पोर्ट्। यू.एस्‌ . राष्ट्रस्य वैदेशिक नय कार्याणां अनुबन्धतया प्रकाश्यमाना इयं पत्रिका। यू एस् प्रथमस्थाने वर्तमानायां पट्टिकायां द्वितीय स्थाने चीना एव। जापान्, रष्य, जर्मनी, भारतम् इत्यस्ति क्रमः। इरान्, इस्रेल् च भारतस्य पृष्टतः च स्तः। विश्वेवे बृहत्तमं जनतन्त्रराष्ट्रं भवति भारतम्। आङ्गलेय भाषायाः ज्ञाने द्वितीय स्थाने एव, साम्पत् व्यवस्थायामपि वर्धमानं भवति  भारतम् इति च पत्रिका अभिप्रेति।

भारत-इंग्लैण्डयोः प्रथमः २०-२० द्वन्द्वः
नवदिल्भाली > भारत-इंग्लैण्डयोः मिथः गतदिने कानपुरे संवृत्ते प्रथमे विंशतिः विंशतिः क्षेपचक्रीयेक्रिकेटद्वन्द्वे इंग्लैण्डेन सप्तक्रीडकानां सुरक्षापुरस्सरं विजयोsधिगतः | विजेतृदलस्य इयोन-मोर्गनः स्पर्धापुरुषः  प्रचितः |

 मौनी-अमावस्या
इलाहबाद्>प्रदेशस्य इलाहाबादस्थे प्रयागसंगमे अद्य मौनी-अमावस्या- पर्वावसरे श्रद्धालवः पुण्यावगाहनं कुर्वन्ति | एतदर्थं प्रशासनेन दृढसुरक्षोपायाः विधीयन्ते, अष्टदश-स्नानघट्टेषु  सुरक्षाव्यवस्थायां त्रिसहस्राधिक-अारक्षिणः अर्धसैन्यबलस्य भटाश्च नियुक्ताः सन्ति | ध्यातव्यमिदं यत् अवसरोSयं धार्मिकदृष्ट्या महत्त्वपूर्णमस्ति |