OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 23, 2017

तमिळ्नाट् राज्ये जेल्लिक्केट् नाम वृषभक्रीडा सन्दर्भे द्वाै हतौ
पुतुक्कोट्टा> तमिळ्नाट् राज्यस्य पुतुक्कोट्ट जनपदे सम्पद्यमाने वृषभ क्रीडायामेव दुर्घटनेयं जाता। अपि च मधुरायां सम्पद्यमाने जेलिक्केट्‌ अनुकूल-नियमनिर्माणस्य आवश्यकताम् उन्नीत्य क्रियमाणे अन्तोलने अपि एकः मृतः। २०१४तमे  सर्वोच्चन्यायालयेन क्रीडेयं निरस्ता। अधुना ओर्डिनन्स् द्वारा क्रीडा आयोजिता आसन्।

कौमारकलाकेलिः समाप्ता ; कनककिरीटपुरस्कारः कोष़िक्कोट् जनपदाय। 
कण्णूर्> एष्याभूखण्डस्य बृहत्तमा महत्तमा च कौमारकलास्पर्धारूपः केरलविद्यालय-कलोत्सवः- समाप्तिं प्राप। प्रथमस्थानं प्राप्यमाणेभ्यः दीयमानं ११७.५ पवन् परिमितं सुवर्णचषकं कोष़िक्कोट् जनपदेन संपादितम् । इतःपूर्वं दशवारं कोषिक्कोट् जिल्लया प्रथमस्थानं सुवर्णपुरस्कारं च समासादितमस्ति।
   ९३९ अङ्कैः कोष़िक्कोटे प्रथमस्थाने प्राप्ते कलोत्सवस्य आद्यन्तं पदानुपदं स्पर्धां प्रदर्शितवान् पालक्काट् जनपदः अङ्कत्रयस्य न्यूनत्वेन द्वितीयस्थानं प्राप्तवान्। आतिथेयः कण्णूर् जनपदः तृतीयस्थानेन तृप्तिमवाप। आगामिनि संवत्सरे तृश्शूर् जनपदः आतिथेयत्वं वक्ष्यति।