OUR YouTube Channels1. SampratiVartah - 2. SampratiVisvam|
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः

Thursday, June 3, 2021

 मनोगतम् [०२.२४]- ७७-उपाख्यानम् ‘मनकीबात’, प्रसा.तिथि: - ३०-मे’२०२१                                          

    [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]

                 *****

         मम प्रियाः देशवासिनः, नमस्कारः। वयं पश्यामः यत् केन प्रकारेण देशः पूर्ण-शक्त्या COVID-एकोनविशं विरुद्ध्य युध्यति। विगतेषु शत-वर्षेषु इयं हि बृहत्तमा महामारी अस्ति, तथा च अस्याः प्रवर्तमानायाः महामार्याः अवधौ भारतेन अनेकाः प्राकृतिकाः आपदः ससाहसं सम्मुखीकृताः।  अस्मिन्नवधौ ‘अम्फान्’-नामा सामुद्रिक-झञ्झावातः समापतितः, ‘निसर्ग’- इति चक्रवातः आगतः, अनेकेषु राज्येषु जलपूरः समापन्नः, कदाचित् लघवः कुत्रचिच्च बृहन्तः अनेके  भूकम्पाः दुरापन्नाः, भू-स्खलनानि च सञ्जातानि । नाति

चिरं विगतेषु दश-दिनेषु एव देशेन बृहच्चक्रवात-द्वयं सम्मुखीकृतम् । पश्चिमीये तटे ‘ताऊ-ते’-इति, पूर्वीये च समुद्रतटे ‘यास’-इति । एतच्चक्र-वातद्वयेन अनेकानि राज्यानि दुष्प्रभावितानि । देशः देशवासिनः च परिनिष्ठित-जवेन संघर्षम् अनुष्ठितवन्तः, न्यूनातिन्यूना जन-धन-हानिः सुनिश्चितीकृता । साम्प्रतं वयं सर्वेsपि इदम् अनुभवामः यत् पूर्वतन-वर्षापेक्षया अधुना वयम् अधिकतमानि जीवितानि रक्षितुं पारयामः। विपत्तेः कठिनायामस्याम् असाधारण-परिस्थितौ चक्रवात-प्रभावितानां सर्वेषामपि राज्यानां निवासिनः सम्यक्-प्रकारेण साहसं परिचायितवन्तः । संकटकालेsस्मिन् महता धैर्येण, अनुशासनेन च साम्मुख्यं कृतवन्तः । सादरमहं, सहृदयं सर्वान् अपि नागरिकान् प्रशंसे । ये जनाः अग्रेसृत्य सुरक्षा-साहाय्य-कार्येषु सहभागित्वं निर्वाहितवन्तः, तादृशानां सर्वेषामपि जनानां यावती अपि प्रशंसा स्यात्, तावती एव न्यूनास्ति । अहं तान् सर्वान् अपि वन्दे । केन्द्रं, राज्य-प्रशासनानि स्थानीय-प्रशासनानि च सर्वाण्यपि सम्भूय विपत्तिमेनां प्रतीकर्तुं संलग्नानि सन्ति । तेषां सर्वेषां जनानां कृते स्वीयां सम्वेदनां प्रकटयामि, ये हि स्वीयेभ्यः आत्मीय-जनेभ्यः वियुक्ताः सन्ति । वयं सर्वेsपि अस्मिन् दुष्करे क्षणे तैः साकं दृढतया स्थिताः स्मः, ये नाम अस्याः विपत्तेः क्षतिम् ऊढवन्तः । 

        मम प्रियाः देशवासिनः, यावत् समाह्वानम् अभवत्; भारतस्य विजयसंकल्पः अपि तावदेव सुदृढः अजायत । देशस्य सामूहिकशक्त्या अस्माकं सेवाभावेन च सम्भूय देशः प्रत्येकं झंझावातात् उद्धृतोsस्ति। विगतदिनेषु अस्माभिः दृष्टमस्ति यत्कथमस्माकं चिकित्सक-परिचारक-प्राग्रसरैः कोरोनायोद्धृभिश्च आत्मनः चिन्तामपाकृत्य अहर्निशं स्वीयदायित्वं निर्व्यूढं, साम्प्रतं चापि निभाल्यते। एतन्मध्ये नैके एतादृग्-जनाः सन्ति येषां कोरोनासंक्रमणस्य द्वितीयवीच्याः सम्मुखीकरणे महती भूमिका अवर्तत । ‘मनकीबात’-प्रसारणस्य नैकैः श्रोतृभिः नमोएप्-पत्राणां माध्यमेन एतादृशानां योद्धॄणां चर्चायै अध्यर्थितमस्ति।

       सखायः, यदा कोरोना-संक्रमणस्य  द्वितीयवीचिः समागता तदा ऑक्सीजनिति प्राणवायोरभियाचनं नैकधा अभिवर्धितम्, यद्धि अस्माकं कृते प्रचण्डाह्वानं संजातम् । चिकित्सकीय-प्राणवायोः देशस्य सुदूरक्षेत्रेषु आपूर्तिः कठिनाह्वानत्वेन समुपस्थिता । प्राणवायु-वाहिवाहनं अधिकतीव्रं चलति चेत्तदा क्षुद्रमपि स्खलनं भयावह-विस्फोटकरं भवितुमर्हति । औद्योगिक-प्राणवायोः अधिकांशोत्पादन-संयंत्राणि देशस्य पूर्वीयक्षेत्रेषु अवस्थितानि यतः अन्यराज्येषु तस्य परिवहनं कतिपयदिनानां समयम् अपेक्षते । देशं पुरतः समागताह्वानं सम्मुखीकर्तुं क्रायोजेनिक्-वाहन-चालकैः, प्राणवायुवाहि-द्रुतरेलयानैः, सैन्य-वैमानिकैश्च युद्धस्तराभियानैः सहस्रशः लक्षशः च जनानां जीवनरक्षणं विहितम् । अद्य ‘मनकीबात’-माध्यमेन वयं एतादृशा मित्रेणैकेन संभाषामहे । असावस्ति उत्तरप्रदेशस्य जौनपुरवासी श्रीमान् दिनेश-उपाध्यायः -

मोदीजी – दिनेशजी, नमस्कारः।

दिनेश-उपाध्यायः – प्रणमामि, श्रीमन्!

मोदीजी - सर्वप्रथमं आत्मनः विषये किंचित् सूचयतु ।

दिनेशः - मम नाम दिनेश-बाबूलनाथ-उपाध्यायः अस्ति । अहं ग्राम-हसनपुरम्, पत्रालयः- जमुआ, जौनपुर-जनपदस्य निवासी अस्मि ।

मोदीजी - उत्तरप्रदेशतः अस्ति?

दिनेशः – आम्, श्रीमन्!

मोदीजी – अस्तु ।

दिनेशः - परिवारे पुत्रः, पुत्रीद्वयं, पत्नी, माता, पिता च सन्ति। 

मोदीजी – भवान् किं करोति?

दिनेशः - अहं प्राणवायुवाहि-वाहनं चालयामि श्रीमन्! तरलप्राणवायु-वातेः वाहनम् ।

मोदीजी - बालानां शिक्षा सम्यक् चलति?

दिनेशः - आम् श्रीमन्! बालानां पठनं संचलति। पुत्र्यौ अपि पठतः, पुत्रश्चापि पठन्नस्ति। 

मोदीजी - साम्प्रतं ऑन्-लाइन्-पठनमपि सम्यग्भवति वा?

दिनेशः - आम् श्रीमन्! सम्यक् भवति । अस्माकं पुत्र्यौ अपि ऑन्लाइन्-माध्यमेन पठतः । अहं विगतेभ्यः पंचदशेभ्यः सप्तदशेभ्यो वा वर्षेभ्यः प्राणवायुवाहि-वाहनं चालयामि।

मोदीजी – शोभनम्। पंचदशेभ्यः सप्तदशेभ्यो वा वर्षेभ्यः केवलं प्राणवायुं वहति । तर्हि भवान् न केवलं वाहनचालकः अपितु लक्षशो जनानां प्राणरक्षकः अपि अस्ति। 

दिनेशः - श्रीमन्, अस्माकं दायित्वम् एतादृशम् एवास्ति। अस्माकं यत् आईनॉक्स-संयंत्रम्  अस्ति, तदप्यस्माकं अतीव परिरक्षणं करोति । यदा कुत्रापि गत्वा प्राणवायोरापूर्तिं कुर्मः, तदाऽतीव सन्तोषः भवति । 

मोदीजी - साम्प्रतं कोरोनाकाले भवतः उत्तरदायित्वं भृशमभिवर्धितम् ।

दिनेशः – आम्, श्रीमन्! बहुधा अभिवर्धितम् । 

मोदीजी - यदा भवान् स्वीयप्राणवायुवाहनस्य चालकासने भवति तदा मनसि कः भावः समागच्छति? पूर्वापेक्षया साम्प्रतं भिन्नानुभवः भवति वा? अतीव सम्पीडनं भवति चेत्, मानसिकाततिः प्रवर्धते? परिवारस्य चिन्ता, कोरोना-परिवेशः, जनानां पक्षतः सम्पीडनम्- एतेषु किं प्रबलं भवति?

दिनेशः - श्रीमन्, वयं कदापि न चिन्तयामः। अस्माभिः विचार्यते यद्वयं यत् कर्तव्यं निभालयामः तस्य यथासमयं सम्पादनेन यदि प्राणवायुना कोऽपि जीवनमाप्नोति तदस्माकं कृते अतीव गौरवास्पदं भवति।

मोदीजी - भवान् अत्युत्तमरीत्या स्वीयभावं प्रकाशयति। अस्तु, कथयतु - अद्यत्वे यदास्मिन् महारोगसमये जनाः भवतः कार्यं विशिष्टतया अवलोकयन्ति । इतः पूर्वं भवता एवं नैवावगतं स्यात् । साम्प्रतं अवगच्छन्ति जनाः इति कारणेनापि भवन्तं भवत्कार्यं च प्रति जनानां मन्तव्य-परिवर्तनं समागतम्?

दिनेशः – एवम्, श्रीमन्! पुरा वयं प्राणवायुवाहनचालकाः यत्र तत्र सम्मर्देषु संसक्ताः अभवाम । परमद्यत्वे प्रशासनं अस्मभ्यं बहुसहयोगं करोति । यत्रापि वयं गच्छामः तत्रास्माकमपि जिज्ञासा भवति यत् कियत् शीघ्रं वयं गन्तव्यं प्राप्य जनानां प्राणरक्षणं कुर्मः इति । अपि चेत् अस्माभिः भोजनं प्राप्यते न वा, काऽपि समस्या भवेत्; परं वयं प्राणवायुवाहनं नीत्वा चिकित्सालयं प्रापयामः पश्यामश्च यच्चिकित्सालय-संचालकाः अस्मभ्यं ‘वी’-इति विजयचिह्नं प्रदर्शयन्ति । तत्र स्वास्थ्यलाभ-कर्तॄणां रोगिणां परिवारजनाः अपि भवन्ति ।

मोदीजी - अहो! विजयचिह्नं दर्शयन्ति!

दिनेशः - आम् श्रीमन्। केचन विजयचिह्नं अन्ये च अंगुष्ठं प्रदर्शयन्ति । तदाऽतीव सन्तोषः भवति अस्माकं जीवने यदस्माभिः किमपि श्रेष्ठकार्यं सम्पादितं येन एतादृग्सेवावसरः अधिगतः ।

मोदीजी - तावत्तु सर्व-परिश्रमः विगतः भवेत् ।

दिनेशः - एवमेवं श्रीमन्!

मोदीजी - तदा गृहमागत्य बालान् सर्वं वृत्तान्तं वर्णयति भवान्?

दिनेशः - नहि श्रीमन्! बालास्तु ग्रामे निवसन्ति । अहमत्र आईनॉक्स-प्राणवायु-संयंत्रे सततं आपूर्तिं करोमि । अष्ट-नव-मासानामन्तराले गृहं गच्छामि । 

मोदीजी – यदा कदाचित् दूरभाषमाध्यमेन तु बालैः सम्भाषणं भवति वा?

दिनेशः – आम्, श्रीमन्! सततं भवति । 

मोदीजी - तर्हि तेषां मनसि अपि स्यात् यत् पितृवर्यः एतादृग्समये सावधानं भवतु ।

दिनेशः - एवं श्रीमन्, ते कथयन्ति यत् पितृवर्य! पूर्णसुरक्षया कार्यं करोतु । तेन वयं सावधानं कार्यं कुर्मः । अस्माकं मानगांव-संयंत्रमप्यस्ति । आईनॉक्स-समवायः अस्मभ्यं बहुसाहाय्यं करोति । 

मोदीजी - अस्तु दिनेशजी, मया अति सुष्ठु अनुभूतम् । भवतः संभाषणं श्रुत्वा देशोsपि अनुभविष्यति यत्कोरोनायाः संघर्षे कतिधा जनाः सम्भूय कार्यं कुर्वन्ति । भवान् नवमासपर्यन्तं स्वीयबालान् न मिलति । परिवारं न मिलति येन जनानां प्राणरक्षणं भवेत् । यदा देशः एतदाकर्णयिष्यति तदा गर्वमनुभविष्यति यद्वयं एतत्संघर्षम् अवश्यमेव जेष्यामः यतो हि दिनेश-उपाध्यायसदृशाः लक्षाधिकाः जनाः प्राणपणेन संलग्नाः सन्ति । 

दिनेशः - श्रीमन्, वयं कोरोनां किञ्चित् दिनं अवश्यमेव पराजेष्यामः । 

मोदीजी – दिनेशजी! भवत एषा भावना देशस्य सम्बलमस्ति। बहुधन्यवादाः दिनेशजी! स्वीयबालांश्च ममाशीर्वादं कथयतु । 

दिनेशः - अस्तु महोदय! प्रणमामि ।

मोदीजी - धन्यवादः । 

          सखायः यथा दिनेशमहोदयः कथयति स्म, वस्तुतः यदा वाहनचालकाः प्राणवायुमादाय चिकित्सालयं प्रापयन्ति तदा ईश्वरप्रेषिताः दूताः इव प्रतीयन्ते । वयम् अवगन्तुं शक्नुमः यदेतत् कार्यं कियत् दायित्वपूर्णं भवति । अस्मिन् च कियती मानसिकाततिः अपि भवति । 

        सखायः, समाह्वानस्यास्मिन् समये प्राणवायोः परिवहनं सरलीकर्तुं भारतीय-रेलविभागोऽपि सम्मुखम् आगतः । ‘ऑक्सीजन-एक्सप्रैस्’ इति प्राणवायुवाहिद्रुतरेलयानैः मार्गगामिनां प्राणवायुवाहनानां अपेक्षया तीव्रतरगत्या देशस्य प्रतिभागम् आपूर्तिः सुनिश्चितास्ति। मातरः भगिन्यश्चैतत् श्रुत्वा गर्वमनुभविष्यन्ति यदेतेषु एकं प्राणुवायुवाहिरेलयानं तु पूर्णतया महिलाभिरेव संचालितमस्ति । देशस्य प्रत्येकं नारी एतच्छ्रुत्वा गर्वम् अनुभविष्यति । इतोऽपि परं प्रत्येकं भारतवासी गर्वं करिष्यति । मया प्राणवायुवाहिद्रुतरेलयानस्य एका चालिका शिरीषा-गजनी ‘मनकीबात’-कार्यक्रमे आमन्त्रितास्ति ।

मोदीजी – शिरिषाजी, नमस्ते ।

शिरिषा – नमस्ते, महोदय! कथम् अस्ति, श्रीमन्!

मोदीजी - अहं अतिकुशली अस्मि । शिरिषाजी, मया श्रुतमस्ति यद्भवती रेलयानचालिकारूपेण कार्यं करोति । अहम् एतदपि सूचितोsस्मि यद्भवत्याः अखिलमहिलादलम्  एतत्प्राणवायुवाहि-द्रुतरेलयानं संचालयति । शिरिषाजी, भवती अतिशोभन-कार्यं करोति । कोरोनाकाले भवादृशीभिः अनेकमहिलाभिः पुरः आगत्य कोरोना-संघर्षे देशः शक्तीकृतोsस्ति। भवती नारीशक्तेः पुष्कलमुदाहरणम् अस्ति । परं देशः ज्ञातुमिच्छति, अहं चापि ज्ञातुमिच्छामि यद्भवतीभिः अस्य कृते उत्प्रेरणं कुतः अवाप्यते? 

शिरिषा - श्रीमन्, ममोत्प्रेरणं स्वीय-मातृपितृभ्यां अधिगम्यते । मम पिता शासकीयकर्मकरः अस्ति श्रीमन्! वस्तुतः मम अग्रजाद्वयमस्ति । परिवारे महिलात्रयमस्ति परमस्माकं पिता सर्वदैव कार्यसम्पादनाय प्रोत्साहयति । ममाग्रजा शासकीय-धनागारे नियुक्तास्ति, अहं च रेलविभागे नियुक्तास्मि । ममाभिभावकाः मां सदैव उत्प्रेरयन्ति । 

मोदीजी - अस्तु शिरिषाजी, भवत्या सामान्यदिनेष्वपि रेलविभागाय स्वीयसेवाः प्रदत्ताः। रेलयानं स्वाभाविकतया चालितमस्ति । परं साम्प्रतं यदा एकतः प्राणवायोः एतावदभियाचनमस्ति । भवती च यदा प्राणवायुं नीत्वा गच्छति तदा अधिकतरं गुरुत्वं दायित्वभावश्च अनुभूतौ स्याताम् । सामान्य-पण्यवहनं भिन्नकार्यमस्ति । प्राणवायुस्तु मृदुतरो भवति । एतद्विचार्य कः अनुभवः भवति स्म?

शिरिषा - एतत्कार्यनिभालनेन मया सुखमनुभूतम् । प्राणवायुवाहि-रेलयानसंचालनसमये मया सुरक्षाविषये, सूचनाविषये, स्रावादिविषयेषु च सर्वं परीक्षितमासीत् । भारतीयरेलविभागः अपि अतीव संरक्षणशीलः अस्ति । प्राणवायुवाहि-रेलयानस्य संचालनाय निर्बाधपथः उपपादितः येन पंचविंशत्युत्तरैकशत-किलोमीटरमिता यात्रा सार्धैकहोरासु सम्पादिता । रेलविभागेन मया च सम्भूय एतत् दायित्वं निर्व्यूढम्।

मोदीजी – अतिशोभनम्, शिरिषाजी, अहं भवतीं वर्धापयामि । भवत्याः पितृभ्यां च विशेषतः प्रणमामि, याभ्यां तिसृभ्यः पुत्रीभ्यः एतावदुत्प्रेरणं कृतम्, अभिवर्धनम् आचरितं, प्रोत्साहनं च प्रदत्तम् । अवगच्छामि, एतादृग्भ्यां पितृभ्यां प्रणामः, भवतीभ्यश्च भगिनीभ्यः अपि प्रणामः याभिः देशस्य एतादृशी सेवा आचरिता, भावश्च प्रदर्शितः। बहुधन्यवादाः शिरिषाजी!

शिरिषा – धन्यवादः, श्रीमन्! अहं भवतः आशीर्वादं कामये ।

मोदीजी - अस्तु, परमात्मनः आशीर्वादं भवति सर्वदैव भवेत्, भवत्याः मातृपितृभ्याम् आशीर्वादः अस्तु । धन्यवादः ।

शिरिषा – धन्यवादः, श्रीमन्!

         सखायः, साम्प्रतमस्माभिः शिरिषामहोदयायाः चर्चा श्रुता । तस्यानुभवाः प्रेरयन्ति, भावुकं चापि कुर्वन्ति । वस्तुतः एतत्संघर्षः एतावन्महनीयमस्ति यत् रेलविभागेन सहैवास्माकं देशः जल-स्थल-नभोभिः त्रिभिः माध्यमैः कार्यं करोति । एकतः रिक्तानि प्राणवायुवाहनानि वायुसेनानां विमानैः प्राणवायुसंयंत्रेषु नीयन्ते । अपरतः नूतनानां प्राणवायुसंयंत्राणां निर्माणं सम्पाद्यते । सहैव, विदेशेभ्यः प्राणवायुः, प्राणवायु- सांद्रकाः प्राणवायुवाहकाश्च देशे नीयन्ते । अस्मिन्कार्ये नौसेनाः, वायुसेनाः, स्थलसेनाः डी.आर.डी.ओ.-सदृशाः संस्थाः अपि योजिताः सन्ति । अस्माकं असंख्याः वैज्ञानिकाः, औद्योगिक-विशेषज्ञाः, प्राविधिकाश्च युद्धस्तरे कार्यरताः सन्ति । एतेषां कार्यं ज्ञातुम्, अवगन्तुं च जिज्ञासा सर्वेषामपि देशवासिनां मनसि वर्तते । एतत्कृते अस्माकं वायुसेनानां ग्रुप्-कैप्टन्-पटनायकः अत्रागच्छति। 

मोदीजी - पटनायकजी! जयहिन्द ।

ग्रुप्-कैप्टन्  –  जयहिन्द, श्रीमन्!, श्रीमन्! अहं ग्रुप्-कैप्टन्  ए.के.पटनायकः अस्मि । हिंडन-वायुसेनाकेन्द्रतः संभाषे।

मोदीजी - पटनायकजी, कोरोनां विरुध्य संघर्षे भवान् महत्-दायित्वं निर्वहति । अखिलविश्वतः प्राणवायुवाहनानां आयातम्  अत्र चाऽपूरणम् । अहं ज्ञातुमिच्छामि यत् सैनिककार्यापेक्षया एतत् भिन्नप्रकारकं दायित्वं भवता निभालितम् । सामान्यतः सैनिकः मरणाय मारणाय च धावति परं भवान् तु जीवनरक्षणाय धावन्नस्ति । कथमनुभवति?

ग्रुप्-कैप्टन्  - श्रीमन्, अस्मिन् संकटसमये वयं देशवासिभ्यः साहाय्यं कर्तुं पारयामः इत्यस्मत्कृते अति-सौभाग्यविषयः अस्ति । श्रीमन्, यानि कानि अपि दायित्वानि अस्माभिः अधिगतानि वयं सकुशलया तानि निभालयामः । अस्माकं प्रशिक्षणं साहाय्यसेवाश्च अस्मिन्नभियाने अतीव सहायिकाः सन्ति । सर्वाधिकं महत्वपूर्णं तु, अस्माभिः कार्यसन्तोषः अधिगम्यते । एतत् अत्युत्कृष्टं प्रोत्साहकं च अस्ति, येन वयं सततम् अभियानसंचालने क्षमाः जाताः । 

मोदीजी – कैप्टन्, भवता एतेषु दिनेषु ये प्रयासाः कृताः तत्सर्वं अत्यल्पकाले सम्पादिताः । कथमेतद् भवता सम्पादितम्? 

ग्रुप्-कैप्टन्  - महोदय! विगतैकमासात् वयं सततं प्राणवायुवाहनानि, तरलप्राणवायु-सांद्रकानि षट्सहस्रमितानि उड्यनचक्राणि स्वदेश-विदेशेभ्यः आनयामः । एतस्य कृते प्रायः षट्सहस्राधिकानि उड्डयन-चक्राणि सम्पादितानि यस्यान्तर्गतं अस्माभिः त्रिसहस्राधिक-होरावधिकम् उड्यनं सम्पादितम्। एतेषु आन्ताराष्ट्रिकाभियानानां संख्या शतोत्तरषष्टिमिता अवर्तत। एतत्माध्यमेन वयं प्राणवायुवाहनानां आपूर्तिम् द्वितः त्रिहोरासु कर्तुं पारयामः येषां परिवहने सामान्यतया द्वि अथवा त्रिदिनानां अवधिः अपेक्षिता भवति। आन्ताराष्ट्रिकाभियानेष्वपि वायुसेना अहर्निशं संलग्नास्ति येन यथाशीघ्रं अधिकाधिक-प्राणवायुवाहनानां आदानेन देशसेवां कर्तुं पारयाम ।

मोदीजी – कैप्टन्, भवता आन्ताराष्ट्रिक-अभियानेषु कुत्र गन्तव्यमभवत्?

ग्रुप्-कैप्टन् – श्रीमन्! अल्पसूचनायां सत्यां वयं सिंगापुर-दुबई-बेल्जियम्-जर्मनी-यू.के.-देशान् गतवन्तः । प्रत्येकं गन्तव्ये वायुसेनायाः भिन्न-विमानानि संचालितानि, एतेषु आई.एल्.-षट्सप्तति-सी-सप्तदश-सी-त्रिंशदुत्तरैकशतम् - इत्यादीनि अतीव अल्पसूचनायाम् अभियाननियोजनपुरस्सरं गतानि आसन् । एतान्यभियानानि अस्माकं प्रशिक्षण-उत्साहाभ्यां सम्पादितानि। 

मोदीजी - पश्यतु, एतत्कृते देशः गर्वमनुभवति यत् जल-स्थल-नभस्सेनाः, अस्माकं सर्वे सैनिकाः च कोरोनां विरुद्ध्य संघर्षे निरताः सन्ति । कैप्टन्-महाभाग! भवतापि महद्दायित्वम् निर्व्यूढं इति कृत्वा अहं भवद्भ्यः अपि वर्धापनं व्याहरामि।

ग्रुप्-कैप्टन् - श्रीमन्! बहुधन्यवादाः । वयं स्वीय-प्राणपणेन पूर्णप्रयासं कुर्मः । मम पुत्री ‘अदितिः’ अपि मम साकमस्ति श्रीमन्!

मोदीजी - अतिशोभनम् ।

अदितिः - नमस्ते मोदिमहोदय!

मोदिवर्यः -  नमस्ते पुत्रि! नमस्ते I अदिते! भवती कति वर्षदेशीया? 

अदितिः - अहं द्वादशवर्षीया अस्मि, अष्टमकक्ष्यायां च पठामि ।

मोदिवर्यः - तर्हि यदा पिता बहिः गच्छति, गणवेशे एव भवति।

अदितिः - आम् । तदर्थम् अहं गर्वम् अनुभवामि यद् सः एतावत् महत्त्वपूर्णं कार्यं कुर्वन् अस्ति । कोरोनासङ्क्रान्तानां सर्वेषाम् अधिकाधिकं साहाय्यं कुर्वन् अस्ति, अथ च नैकेभ्यः देशेभ्यः प्राणवायुवाहि-वाहनानि भण्डारकानि च आनयति ।   

मोदिवर्यः - परं पुत्री तु पितरं बहु स्मरति किल?

अदितिः - आम् । तम् अहं बहु स्मरामि । अद्यत्वे सः प्रायः गृहम् अपि नैव आगन्तुं शक्नोति, यतः नैकेषु अन्ताराष्ट्रिय-विमानेषु तस्य गमनं भवति, सः वाहनानि भाण्डारकाणि च उत्पादनसंयन्त्रस्थलं यावत् प्रापयति, येन कोरोना-सङ्क्रान्ताः समयावधौ प्राणवायुं प्राप्नुयुः, रक्षिताः च भवेयुः। 

मोदिवर्यः  - तर्हि पुत्रि! प्राणवायुद्वारा जनानां प्राणरक्षणकार्यं तु इदानीं प्रतिगृहं ज्ञातम् अस्ति। 

अदितिः -  आम् ।  

मोदिवर्यः - भवत्याः मित्रगणे यदा सहपाठिच्छात्राः जानन्ति यद् भवत्याः पिता प्राणवायु-प्रकल्पे सेवारतः अस्ति, तदा भवतीं प्रति अपि तच्छात्राणाम् आदरदृष्टिः स्यात्? 

अदितिः -  आम्, मम सर्वे अपि सखायः कथयन्ति यत् तव पिता एतावन्तं महत्त्वपूर्णं कार्यं करोति, तवापि गर्वानुभूतिः स्यात् । एतत् च श्रुत्वा अत्यन्तं गौरवान्विता भवामि । मम कुटुम्बिनः, मातामहः मातामही पितामही च सर्वे, पित्रे गौरवान्विताः अनुभवामः । मम माता, अथ च अन्ये अपि एते चिकित्सकाः सन्ति, तेऽपि अहर्निशं कार्यं कुर्वन्तः सन्ति । सर्वसैन्यबलानि, मम पितुः गणस्य सदस्याः सर्वसेनाः निरन्तरं कार्यरताः सन्ति । अहं विश्वसिमि यत् सर्वेषां सङ्घटित-प्रयासेन वयं कोरोनाविरुद्धं युद्धम् अवश्यं जेष्यामः । 

मोदिवर्यः – अस्माकं परम्परायां कथ्यते - यदा कन्या वदति तदा सरस्वती तस्याः जिह्वाग्रा भवति, अथ च यदि अदितिः कथयन्ती अस्ति यद् वयम् अवश्यं जेष्यामः तर्हि प्रकारान्तरेण एषा ईश्वरवाणी एव । भवतु , अदिते! सम्प्रति अध्ययनं तु अन्तर्जाले एव भवति खलु?

अदितिः - आम्, इदानीं तु सर्वाः अपि कक्षा अन्तर्जाले एव भवन्ति, सम्प्रति तु वयं गृहे अपि पूर्णतया अवधानेन तिष्ठामः, बहिः गमनं भवति तर्हि मुखनासिकावरणक-द्वयं सन्धार्य एव गच्छामः। अवधानाय  व्यक्तिगतस्वच्छतायै च सर्वनियमान् पालयामः ।  

मोदिवर्यः – भवत्याः रुचिविषयाः के के? भवत्यै किं रोचते?

अदितिः –  तरणम्, अथ च हस्तकन्दुकक्रीडा मह्यं रोचेते, परम् अधुना एते पिहिते, इदानीं कोरोनाकाले जनसञ्चरण- संरोधात् पाककलायै रुचिमती अभवम् । सम्प्रति यदा पिता अत्यधिकं कार्यं कृत्वा प्रत्यागच्छति तदा तस्मै सर्वं पक्वं निर्मितं वा केक्-कुकीज्-खाद्यं निर्मीय ददामि ।

मोदिवर्यः – साधु साधु साधु । अस्तु पुत्री! नैकदिनानाम् अनन्तरं भवती पित्रा सह वासार्थम् अवसरं प्राप्तवती । अथ च  कैप्टन्! भवतेऽपि शुभकामनाः प्रेषयामि । परं यदा अहं कैप्टन् इत्यस्मै शुभकामनाः कथयामि तर्हि न केवलं भवते, अपि तु सर्वसेनाः जल-स्थल-वायवीयाः यथा कार्यलग्नाः सन्ति, ताभ्यः सर्वसेनाभ्यः अहं नौमि । धन्यवादः भ्रातः!

ग्रुप्-कैप्टन् – धन्यवादः, श्रीमन्!                                

             मित्राणि! अस्माकम् एतैः सैनिकैः, एतैः योद्धृभिः च यत् कार्यं कृतं तदर्थं देशः एतान् नमस्करोति । एवंप्रकारेण लक्षशः जनाः अहर्निशं कार्यरताः सन्ति । यत् कार्यं ते कुर्वन्ति तत् तेषां दैनिककार्य-प्रभागः न । एतादृशी आपत् विश्वस्य उपरि शतवर्षाणाम् अनन्तरम् आगता । शताब्दस्य अनन्तरम् एतादृशं सङ्कटम् आपन्नम्, अत एव विषयेऽस्मिन् कस्यापि जनस्य अनुभवः न आसीत् । एतस्य पृष्ठतः देशसेवायाः प्रतिज्ञा एका च सङ्कल्पशक्तिः अस्ति । अनया एव देशेन तत्कार्यं कृतं यत् पूर्वं कदापि नैव जातम् ।  भवन्तः कल्पयितुं शक्नुवन्ति, सामान्यदिनेषु देशे एकस्मिन् दिवसे नवशतं मैट्रिक्-टनपरिमितं liquid medical oxygen इति चिकित्सकीय-द्रवप्राणवायोः उत्पादनं भवति स्म, यद्धि अधुना दशगुणितम् अर्थात् प्रायशः पञ्चनवतिशतं मैट्रिक्- टनपरिमितम् उत्पाद्यते । एनं प्राणवायुम् अस्माकं कोरोनायोद्धारः देशस्य सुदूरं क्षेत्राणि यावत् प्रापयन्तः सन्ति ।  

       मम प्रियाः देशवासिनः, प्राणवायोः प्रापणाय देशे एतावन्तः प्रयासाः अभवन्,  एतावन्तः जना सहयोगिनः अभवन्, नागरिकरूपेण एतानि कार्याणि प्रेरयन्ति। सङ्टितरूपेण प्रत्येकं जनेन स्वकर्तव्यं निभालितम् । बैंगलूरुतः उर्मिलामहोदया माम् उक्तवती यत् तस्याः पतिः प्रयोगशालायां प्रविधिज्ञः अस्ति, अथ च, एतदपि उक्तवती यत् कथं समाह्वान-पूर्णस्थितौ सः अनवरतं परीक्षणकार्यं करोति ।

          सखायः, कोरोना-विषाणोः परीक्षणाय आदौ देशे एका एव परीक्षणशाला आसीत्, परम् अद्यत्वे सार्द्धद्विसह्स्रतः अपि अधिकाः परीक्षणप्रयोगशालाः कार्ये सन्ति ।  आरम्भे एकस्मिन् दिवसे  कतिपय-शतं जनानाम् एव परीक्षणसामर्थ्यम् आसीत् परम् अधुना तु विंशतिलक्षजनानां परीक्षणं एकस्मिन् दिवसे भवति ।  अधुनावधिः देशे त्रयस्त्रिंशत्कोटितोप्यधिकानां प्रतिरूपाणां परीक्षणं जातम् । एतावत्-विशालं कार्यम् एतेषां सहयोगिनां कारणेन एव सम्भाव्यते । बहवः अग्रेसर-कार्यकर्तारः प्रतिरूप-सङ्ग्रहकार्ये संलग्नाः सन्ति । सङक्रान्तरोगिणां पार्श्वे गमनं, प्रतिरूपस्वीकृतिः, सर्वमिदं तु सेवाकार्यम् । आत्मरक्षणाय अतीव ऊष्णकाले अपि सततं PPEKit इति धारयन्ति । अनन्तरं एतत् प्रतिरूपं प्रयोगशालां प्राप्नोति । अत एव यदा अहं भवतां समेषां परामर्शान् प्रश्नान् च पठन् आसम्, तदा अहं निश्चितवान् यद् अस्माकम् एतेषां सहयोगिनाम् अपि उल्लेखः अवश्यं भवेत् । एतेषाम् अनुभवैः वयम् अपि नैकविषयान् ज्ञास्यामः । तर्हि आयान्तु, दिल्ल्याः एकेन ‘Lab Technician’- इत्युक्ते प्रयोगशाला-प्रविधिज्ञ-रूपेण कार्यनिरतेन अस्माकं सहयोगिना प्रकाश-काण्डपाल-वर्येण सह संवादं कुर्मः । 

मोदिवर्यः – प्रकाशमहोदय! नमस्कारः ।

प्रकाशवर्यः - नमस्कारः आदरणीय! प्रधानमन्त्रि-महोदय!

मोदिवर्यः – प्रकाशवर्य! सर्वप्रथमं तु भवान् ‘मनकीबात’- इत्यस्य अस्माकं सर्वश्रोतॄन् स्वविषये विज्ञापयतु । भवान् कदा प्रभृति एतत् कार्यं कुर्वन् अस्ति, अथ च कोरोनाकाले भवतः कीदृशः अनुभवः?  यतोहि देशस्य जनाः अनेन प्रकारेण, न तु दूरदर्शनेन, न च वार्तापत्रेण, भवादृशं पश्यन्ति । पुनरपि ऋषिवत् प्रयोग-परीक्षणशालायां स्थित्वा कार्यं कुर्वन् अस्ति ।  तर्हि अहम् इच्छामि, यदा भवान् वदिष्यति, जनाः अपि ज्ञास्यन्ति यत् देशे कथं कार्यं प्रवर्तमानम् अस्ति ।    

प्रकाशवर्यः – अहं दिल्लीशासनस्य स्वायत्त-संस्थाने Institute of Liver and Biliary Science इति पित्त-यकृत-विज्ञान-संस्थान-नामके चिकित्सा-स्वास्थ्य-संस्थाने विगतेभ्यः दशभ्यः वर्षेभ्यः प्रयोगशाला-प्रविधिज्ञरूपेण कार्यरतोऽस्मि । मदीयः स्वास्थ्यक्षेत्रीयः अनुभवः द्वाविंशतिवर्षात्मकः वर्तते । ILBS इत्यस्मिन् संस्थाने कार्यकरणात् पूर्वम् अपोलो-चिकित्सालय-राजीवगांधि-कैंसरचिकित्सालय-रोटरीरक्तकोष- इत्येतादृशीषु प्रतिष्ठितसंस्थासु कार्यं कृतवान् अस्मि । श्रीमन्! यद्यपि सर्वत्र मया रक्तकोषविभागे स्वीयं दायित्वं निर्व्यूढं परं गतस्य विंशत्युत्तरविंशति-शततमवर्षस्य एप्रिल्-मासस्य प्रथमात् दिनाङ्कात् विषाणुविज्ञान-विभागान्तगर्तस्य कोविड-परीक्षण-परीक्षण-शालायां कार्यरतोऽस्मि । कोविड्-सङ्क्रान्ति-काले स्वास्थ्ये, स्वास्थ्यसम्बद्धेषु च सर्वेषु संसाधनेषु निश्चयेन भारः संवृतः, परन्तु अहं वैयक्तिक-रूपेण एतादृशं सङ्घर्षमयं वातावरणम् अवसरत्वेन परिभावयामि । यदा राष्ट्रं, समाजः च अस्मभ्यम् अधिकं दायित्वं सहयोगं प्रदर्शनक्षमतां वा अपेक्षमाणं वर्तते, किञ्च राष्ट्रस्य, समाजस्य मानवतायाः च अपेक्षानुगुणं वयं बिन्दुरूपेण स्मः । श्रीमन्! यदा वयं कार्याणि कुर्मः, साफल्यं प्राप्नुमः, तदा काचित् गौरवानुभूतिः भवति । यदा कदाचित् कुटुम्बजनाः आशङ्कमानाः भवन्ति, स्वल्पं  भयं वा अनुभवन्ति, तादृशेऽवसरे स्मारयामि यत् अस्माकं देशस्य ये सैनिकाः सर्वदैव सुदूरे सीम्नि विषमासु, असामान्यासु च परिस्थितिषु देशं रक्षन्ति, तदपेक्षया तु अस्मत्-कलेशाः न्यूनाः सन्ति । तदा तेऽपि एतं विषयम् अवगच्छन्ति । कयाचित् दृष्ट्या च ते मम सहयोगं कुर्वन्ति । अस्यां विपदि अपि समानतया स्वीयसहभागं कुर्वन्ति ।         

मोदिवर्यः - प्रकाशवर्य! एकत्र प्रशासनं सर्वान् सूचयति यत् –“दूरे स्थेयम् - दूरे स्थेयम्” कोराना-काले दूरे स्थेयमिति । भवता तु कोराना-विषाणुषु एव स्थेयं भवति, पुरतः च गन्तव्यं भवति । एतेन तु भवदीयं स्वीयं जीवनं सङ्कटापन्नं भवति । कुटुम्बस्य चिन्ता अपि स्वाभाविकी एव । परन्तु भवता प्रयोगशाला-प्रविधिज्ञरूपेण एतादृश्यां भयावहपरिस्थितौ च कार्यं क्रियते । कार्यसमयोऽपि वृद्धिं गतः स्यात् । रात्रौ परीक्षणशालां प्रति निर्गन्तव्यं स्यात् । यतो हि कोटि-सङ्ख्यकानां जनानां परीक्षणं जायमानं वर्तते । कार्यभारः वृद्धः स्यात् । परन्तु स्वीयसुरक्षायै अवधानं क्रियते उत न । 

प्रकाशवर्यः - निश्चयेन अवधानं क्रियते । अस्माकं आई.एल्. बी.एस्. –इत्यस्य यत् परीक्षणकेन्द्रम् अस्ति, तत् विश्वस्वास्थ्य-सङ्घटनेन मानितं वर्तते । कोरोना-सम्बद्धानि अस्मदीयानि सर्वाणि आचरणानि अन्ताराष्ट्रियस्तरयुतानि सन्ति । अस्मदीयाः ये त्रिस्तरीयाः वेशाः सन्ति, तान् धृत्वा प्रयोगशालायां वयं कार्याणि सम्पादयामः । सर्वेषां प्रयुक्तानां सामग्रीणां परित्यजनम्, वर्गीकरणम्, परीक्षणं चेत्यादीनां नियताचरणान्तर्गतत्वेन व्यवहारः क्रियते । श्रीमन्! इयम् भगवत्कृपा एव अस्ति यत् मम परिवारः, परिचिताश्च इदानीं यावत् सङ्क्रमणात् रक्षिताः सन्ति । यदि भवान् जागरूकतया सावधानं संयमेन च तिष्ठति, तर्हि किञ्चित्-प्रमाणेन ततः संरक्षितः भवितुं शक्नोति । 

मोदिवर्यः – प्रकाशवर्य! भवादृशाः सहस्रं जनाः विगतवर्षात् प्रयोगशालायाम् उपविष्टाः सन्ति, सङ्घर्षं च कुर्वन्ति । एतावतां जनानां सरक्षणं कुर्वन्ति । देशः एतत्सर्वम् अभिजानाति । परन्तु भवतः माध्यमेन भवतः सहकर्मिभ्यः सदृशकर्मिभ्यः सर्वेभ्यः बन्धुभ्यः च हार्दाः धन्यवादाः । देशवासिनां परतया हार्दान् धन्यवादान् करोमि । भवान् स्वस्थः भवतु । भवदीयं कुटुम्बं स्वस्थं भवतु । मम नैकाः शुभकामनाः ।  

प्रकाशवर्यः – प्रधानमन्त्रिवर्य! धन्यवादः । अहं भवतः अत्यन्तं कृतज्ञोऽस्मि यत् भवान् मह्यम् एतम् अवसरं कल्पितवान् । 

मोदिवर्यः – धन्यवादः भ्रातः!

      सखायः ! कयाचिद् दृष्ट्या वार्ता तु मया प्रकाशवर्येण सह कृता वर्तते, परन्तु तस्य वार्तया सहस्रं प्रयोगशाला-प्रविधिज्ञ-पदासीनानां सेवायाः सुगन्धिः अस्मत्पर्यन्तम् आयाति । एतासु वार्तासु सहस्रशः लक्षशः वा जनानां सेवाभावः तु परिलक्ष्यते एव । अस्मासु सर्वेषु दायित्वबोधोऽपि भवति । यावता परिश्रमेण मनोभावेन च प्रकाशभ्रातृ-सदृशानि मित्राणि कार्याणि कुर्वन्ति तावत्या एव निष्ठया तेभ्यः अस्मत्सहयोगः कोरोना-सङ्क्रान्तेः पराजयार्थं महते लाभाय भविष्यति। 

        मम प्रियाः देशवासिनः! साम्प्रतम् अस्माकीनां कोरोना-योद्धॄणां विषये चर्चां कुर्वाणाः आस्म । गते सार्धैक-वर्षे वयं तेषां महत्-समर्पणं, परिश्रमं च दृष्टवन्तः स्मः । परन्तु सङ्ग्रामेऽस्मिन् देशस्य नैकेषां क्षेत्राणां योद्धॄणाम् अपि महती  भूमिका वर्तते । चिन्त्यताम्, अस्माकं देशे महत्-सङ्कटम् आपतितम् । अस्य परिणामः देशस्य प्रत्येकं व्यवस्थासु अजायत । अस्मात् परिणामात् महता प्रमाणेन कृषिव्यव- स्थायां स्वीयसंरक्षणं कृतम् । न केवलं स्वीयसंरक्षणं विहितम्, अपितु प्रगतिः अपि साधिता, वृद्धिश्च सम्पादिता । किं भवन्तः जानन्ति यत् विषाणुसङ्क्राति-कालेऽस्मिन् अस्मदीयाः कृषकाः कीर्तिमानम् उत्पादने सम्पादितवन्तः । यथा कृषकैः कीर्तिमानोत्पादनं सम्पादितं तथैव पर्यायेऽस्मिन् देशेन कीर्तिमानत्वेन सस्य-क्रयणमपि कृतम् । पर्यायेऽस्मिन् नैकेषु स्थलेषु कृषकेभ्यः सर्षप- इत्यस्मै न्यूनतम-समर्थनमूल्यापेक्षया अधिकं सम्प्राप्तं वर्तते । कीर्तिमान-खाद्यान्नोत्पादन-कारणेन अस्माकं देशः प्रत्येकं देशवासिने बलं प्रयच्छन्नस्ति । सङ्कटेऽस्मिन् अद्यत्वे अशीतिकोटि-निर्धनेभ्यः निश्शुल्कम् अन्नादिकं प्रदीयमानं वर्तते । येन निर्धन-गृहेषु तादृशं दिनमेव न सम्भवेत्, यत्र चुल्लिकाप्रयोगः न स्यात् ।

         सखायः! अद्य अस्माकं देशस्य कृषकाः नैकेषु क्षेत्रेषु नूतनव्यवस्था-विषयकं लाभं सम्प्राप्तवन्तः । यथा अगरतलायाः कृषकाः, उत्तमानि पनस-फलानि उत्पादयन्ति । एतेषाम् अभियाचनाः विदेशेषु भवितुं शक्नोति, अतः पर्यायेऽस्मिन् अगरतला-कृषकैः पनस-फलानि रेलयानेन गुवाहाटी-पर्यन्तं प्रापितानि । गुवाहाटीतः इमानि पनस-फलानि साम्प्रतं लण्डन् -नगरं प्रति प्रेष्यमाणानि सन्ति । एवमेव भवन्तः बिहार-प्रदेशीयायाः शाहि-लीचिकायाः नाम श्रुतवन्तः स्युः । अष्टादशो- त्तर-द्विसहस्त्रमे वर्षे सर्वकारेण लीचिकायै जी.आई.- इति वर्गः प्रदत्तः, येन अस्याः दृढम् अभिज्ञानं स्यात्, किञ्च कृषकेभ्यः अधिकः लाभः स्यात् । पर्यायेऽस्मिन् एताः शाहि-लीचिकाः अपि आकाशमार्गेण लण्डन्-नगरं प्रति सम्प्रेषिताः सन्ति । पूर्वतः पश्चिमं यावत्, उत्तरतः दक्षिणं यावत् च अस्माकं देशः एतादृश-विशिष्टस्वादयुतैः उत्पादैः परिपूर्णः अस्ति । दक्षिण-भारतीयस्य विजयनगरस्य आम्रविषये भवन्तः श्रुतवन्तः स्युः, साम्प्रतं को वा आम्रमेतत् खादितुम् न इच्छेत् अतः अधुना कृषकाः शतशः टनमितं आम्रं देहलीं प्रापयन्तः सन्ति । देहलीस्थेभ्यः, उत्तरभारतीयेभ्यश्च विजयनगरीयं आम्रं खादनाय लप्स्यते, किञ्च विजयनगर-कृषकेभ्यः समीचीनार्जनं भविष्यति । कृषक-रेलयानैः एतावता द्विलक्ष-टनमितं खाद्योत्पादानां परिवहनं कृतं वर्तते । अधुना कृषकाः न्यूनमूल्येन फलानि, शाकानि, अन्नानि च देशस्य सुदूरेभ्यः भागेभ्यः प्रेषणे समर्थाः सन्ति ।

    मम प्रियाः देशवासिनः, अद्य मे-मासस्य त्रिंशत्तमे दिने वयं ‘मनकीबात’- इति मनोगतं प्रसारयामः, तथा च, संयोगात् अयं हि सर्वकारस्य सप्त-वर्ष-पूर्तेः अपि कालोsस्ति । एतेषु वर्षेषु देशः ‘सर्वेषां साहचर्यं, सर्वेषां विकासः, सर्वेषां विश्वासः’-इति मंत्रम् आधृत्य प्राचलत् । देशस्य सेवायां प्रतिपलं समर्पितभावेन वयं सर्वे कार्यं कृतवन्तः । अनेके सखायः मां पत्राणि प्रेषितवन्तः, अथ च, प्रोक्तवन्तः यत् ‘मनकीबात’-प्रसारणे सप्तवर्षीयायाः अस्मदीयायाः भवदीयायाः च संयुक्तयात्रायाः अपि चर्चां कुर्याम् ।      

    सखायः, एतेषु सप्त-वर्षेषु या काचिदपि उपलब्धिः जाता, सा देशस्य एवावर्तत, देशवासिनाञ्च अवर्तत । कियन्तः एव राष्ट्रियाः गौरव-क्षणाः अस्माभिः सम्भूय अनुभूताः । यदा वयं इदम् अवलोकयामः यत् साम्प्रतं भारतम् अपरेषां देशानां विचार-सरण्याः तेषाञ्च आपीडस्य अन्तर्गतं नैव, स्वीय-संकल्पेन प्रचलति, तदा वयं सर्वे गर्वम् अनुभवामः । यदा वयं पश्यामः यत् भारतं स्वं विरुद्ध्य षड्यन्त्र-कारिणः समुचितोत्तरं ददाति तदा, अस्मदीयः आत्मविश्वासः इतःपरमपि विवर्धते । यदा भारतं राष्ट्रिय-सुरक्षा-विषयान् अवलम्ब्य सामञ्जस्यं नैव विदधाति, यदा अस्मदीयानां सेनानां शक्तिः वर्धते, तदा वयम् अनुभवामः यत् नूनं वयं समुचिते मार्गे वर्त्तामहे ।

    सखायः, कियतामपि देशवासिनां सन्देशान्, तेषां पत्राणि च, देशस्य प्रत्येकमपि कोणेभ्यः प्राप्नोमि । अनेके जनाः देशाय धन्यवादान् अर्पयन्ति यत् सप्ततेः वर्षाणाम् अनन्तरं तेषां ग्रामे प्रथमवारं विद्युत् प्राप्तास्ति, तेषां पुत्री-पुत्राः प्रकाशे, व्यजनेभ्यः अधस्तात् च उपविश्य पठन्ति । कियन्तो जनास्तु कथयन्ति यत् अस्माकमपि ग्रामः अधुना दृढतर-मार्गेण, नगरेण च संयुतो जातः । स्मराम्यहं – अन्यतमायाः आदिवासि-वसतेः केचन सखायः मां सन्देशं प्रेषितवन्तः यत् मार्ग-निर्माणानन्तरं, प्रथमवारं ते अनुभूतवन्तः यत्ते शेष-विश्वेन साकं संयुताः जाताः । एवमेव कुत्रचित् कश्चन बैंक-लेखायाः उद्घाटनस्य प्रसन्नतां सम्विभाजयति, तर्हि कश्चन पृथक्-पृथक्-योजनानां साहाय्येन यदा नवीनां वृत्तिम् आरभते, तदा तस्यां प्रसन्नतायां मामपि आमंत्रयति । ‘प्रधानमन्त्रि-आवास-योजनायाः’ अन्तर्गतं आवास-प्राप्तेः अनन्तरं गृहप्रवेशस्य आयोजने कियन्ति अपि निमंत्रणानि अस्माकं देशवासिनां पक्षतः सततं प्राप्यन्ते । एतेषु सप्त-वर्षेषु भवतां सर्वेषामपि एतादृशीषु कोटिशः प्रसन्नतासु अहं सहभागित्वं निरवहम् । नातिचिरम्, कतिभ्यः दिनेभ्यः प्रागेव ग्रामस्य अन्यतमेन परिवारेण ‘जलजीवनमिशन’-इति कार्यक्रमान्तर्गतं गृहे संयोजितायाः जल-नलिकायाः चित्रमेकं प्रेषितम् । तैः तस्य चित्रस्य शीर्षकं लिखितमासीत् –‘मम ग्रामस्य जीवनधारा’, एतादृशाः अनेके परिवाराः सन्ति । स्वाधीनतायाः अनन्तरं सप्त-दशकेषु अस्मदीय-देशस्य केवलं सार्ध-त्रिकोटि-मितेषु ग्रामीण-गृहेषु एव जल-सम्पृक्तिः आसीत् । परञ्च विगतेषु एकविंशतौ मासेषु एव सार्ध-चतुर्कोटिमितेभ्यः गृहेभ्यः स्वच्छ-जलस्य सम्पर्काः प्रदत्ताः । एतेषु पञ्चदश-मासाः तु कोरोना-कालीनाः एव आसन्! एतावत्-प्रकारकः नवीनः विश्वासः  देशे ‘आयुष्मान्-योजनातः’ अपि अधिगतः । यदा कश्चन निर्धनः निःशुल्कम् उपचारेण स्वस्थीभूय गृहं प्रत्यागच्छति तदा सः अनुभवति यत् तेन नवं जीवनम् अवाप्तम् । सः आश्वस्तो भवति यत् देशः तेन सहैव अस्ति । एतादृशानाम् असंख्यानां कुटुम्बानाम् आशीर्वचनानि, कोटिशः जननीनाम् आशीर्वादान् च आदाय अस्मदीयोsयं देशः दृढतया विकासं प्रति अग्रेसरति ।

  सखायः, एतेषु सप्त-वर्षेषु भारतेन Digital-इत्यङ्कीय-विनिमये विश्वस्मिन् नूतन-दिग्दर्शनस्य कार्यं कृतम् । अद्यत्वे कस्मिन्नपि स्थले यावता सारल्येन भवन्तः क्षणान्तर्गतमेव Digital Payment- इत्यङ्कीय-प्रदानं कुर्वन्ति, तद्धि कोरोना- कालेsस्मिन् अपि अतितराम् उपयोगि सिद्ध्यति । अद्यत्वे स्वच्छतां प्रति देशवासिनां गाम्भीर्यं जागर्तिः च विवर्धेते । वयं प्रक्षेप्यास्त्राणाम् आभिलेख्यम् अपि प्रक्षिपामः तथा च, मार्ग-निर्माणस्य आभिलेख्यमपि विदधामः । एतेषु सप्त-वर्षेषु देशस्य अनेके प्राचीनाः विवादाः अपि पूर्णतया शांतिसौहार्द-पुरस्सरं समाहिताः । पूर्वोत्तरतः काश्मीरं यावत् शांतिविकासयोः नूतनम् आश्वासनमेकं समुद्भूतम् । 

  सखायः, किं भवद्भिः विचारितम्, एतानि सर्वाणि कार्याणि यानि दशकेष्वपि नैव जातानि, एतेषु सप्त-वर्षेषु केन प्रकारेण जातानि? एतानि सर्वाणि अत एव सम्भूतानि यतो हि एतेषु सप्त-वर्षेषु वयं सर्वकार-नागरिकयोः अपेक्षया अधिकतरम् एक-देशरूपेण कार्यं कृतवन्तः । अन्यतम-समूहत्वेन कार्यं साधितवन्तः । ‘Team India’-इति वृन्द-भारतत्वेन कार्यम् अनुष्ठितवन्तः । प्रत्येकमपि नागरिकः देशम् अग्रेसारयितुं पदमेकं वा पदमर्धं वा उत्त्थापयितुं प्रयतितवान् । एवम्! यत्र सफलताः भवन्ति, तत्र परीक्षाः अपि भवन्ति । एतेषु सप्त-वर्षेषु वयं सम्भूय एव अनेकाः परीक्षाः अपि दत्तवन्तः, तथा च, प्रत्येकमपि क्रमे वयं सर्वे दृढतरीभूय निर्गताः । कोरोना-महामारी-रूपेण एतावती बृहती परीक्षा तु अनारतं प्रचलति । एतत्तु तादृशम् अन्यतरं संकटं वर्तते येन अशेष-विश्वं प्रतोदितम्, अनेके जनाः स्वीयान् आत्मीयान् प्रणाशितवन्तः । बृहन्तोsपि देशाः अस्मात् विनाशात् आत्मानं रक्षितुं नैवापारयन् । अस्याः वैश्विक्याः महामार्याः काले भारतं ‘सेवा-सहयोगयोः’ संकल्प-पुरस्सरं अग्रेसरति । वयं स्वीये प्रथमे वीच्याक्रमणे अपि पूर्ण-धैर्येण युद्धं कृतवन्तः, अस्मिन् क्रमेsपि विषाणुं विरुद्ध्य प्रवर्तमाने युद्धे भारतं नूनं विजयि भविता । ‘दोगज़कीदूरी-त्यनेन मुखाच्छादकेन च सम्बद्धः नियमः भवेद् वा सूच्यौषधं वा स्यात्, अस्माभिः न कथमपि शैथिल्यम् आचरणीयम्। अयमेव अस्मदीयस्य विजयस्य मार्गः अस्ति । आगामिनि क्रमे यदा वयं ‘मनकीबात’-प्रसारणे मेलिष्यामः, तदा देशवासिनाम् अनेकानि अपराणि प्रेरणादायीनि उदाहरणानि अवलम्ब्य सम्भाषिष्यामहे, नूतनान् विषयान् च चर्चयिष्यामः । भवन्तः स्वीयान् परामर्शान् माम् एवमेव प्रेषयन्तु । भवन्तः सर्वे स्वस्थाः भवन्तु, देशम् एवमेव अग्रेसारयन्तु ।  भूयान्सः धन्यवादाः । 

                 *****

    [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]

        अणुप्रैषः – baldevanand.sagar@gmail.com