OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 18, 2021

 केरले पिधानस्य लाघवं विहितम्। 

  अनन्तपुरी> केरले अद्य आरभ्य सम्पूर्णपिधानस्य नियन्त्रितरीत्या लाघवानि प्रख्यापितानि। कोविड्रोगव्यापनस्य आधारेण तद्देशीयशासनसंस्थाः विभिन्नरीत्या वर्गीकृत्य लाघवानि अनुमोदितानीति मुख्यमन्त्रिणा निगदितम्। किन्तु शनि रवि वासरयोः सर्वत्र सम्पूर्णं पिधानं विधास्यति। 

  रोगव्यापनस्य मापः [टि पि आर्] यत्र अष्ट प्रतिशतं नातिरिच्यते तादृशासु प्रादेशिकशासनसंस्थासु नियन्त्रणेन अधिकतया सामान्यप्रवर्तनानि विधास्यन्ते। ८- २०%, २० - ३०%, त्रिंशदधिकम् इति क्रमेण लाघवे नियन्त्रणानि कठोरीभविष्यन्ति।