OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 6, 2018

चलच्चित्रपुरस्कारकार्यक्रमः - राष्ट्रपतौ अतृप्तिः।
      नवदिल्ली > राष्ट्रियचलच्चित्रपुरस्कारवितरणं वार्तावितरणमन्त्रालयेन आयोजितम् आसीत्। तन्निर्वहणविषयये  कार्यकुशलता नासीत् इत्यतः राष्ट्रपतिभवनस्य अतृप्तिः। वितरणकार्यक्रमः अपक्वेन आयोजितः इत्यनेन राष्ट्रपतिः विचारितः   अभवदिति कार्यालयस्य मूल्यनिर्णयः। अस्मिन् विषये असन्तुष्टिं  प्रधानमन्त्रिकार्यालयं प्रति लेखद्वारा प्राकाशयत् च।
         कार्यान्तरबाहुल्येन राष्ट्रपतिः एकहोरापर्यन्तं पुरस्कारवितरणकार्यक्रमे सन्निहितः भवेदिति  मार्चमासे एव निगदितमासीत्। तदनुसारं राष्ट्रपतिहस्तात् पुरस्कारं स्वीक्रियमाणानां एकादश प्रतिभानां नामान्यपि निश्चित्य वार्तावितरणमन्त्रालयं निगदति स्म। किन्तु कार्यक्रमे अन्येषां कृते पुरस्कारं दातुं राष्ट्रपतिः असन्नद्धः आसीदिति  प्रतीतिः अजायत। राष्ट्रपतिः पुरस्कारदानं न करिष्यति इत्यतः ५५ जेतारः कार्यक्रमं बहिष्कृतवन्तः आसन्।