OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 30, 2018

अलीकधनिकानां विवरणानि स्विट्सर्लन्ट्  राष्ट्रात् २०१९ तमे लप्स्यते- पीयूष् गोयलः।  
      नवदिल्ली> २०१९ तमस्य आर्थिकसंवत्सरस्य समापनकाले भारतीयानां अलीकधनानां निक्षेपमधिकृत्य पूर्णविवरणानि स्विट्सर्लन्टतः लप्स्यते इति धनकार्यमन्त्री पीयुष्  गोयलः अवदत्। तत्रत्ये वित्तकोशे भारतीयानां निक्षेपः प्रतिशतं ५०.२ इति वर्धितः। एवं सप्तसहस्रं कोटि समभवत् इति स्विट्सर्लन्ट् राष्ट्रस्य राष्ट्रियवित्तकोशस्य अावेदनं बहिरागतम्। २०१७  तमस्य गणना भवत्ययम्। एतत् अनुगम्य आसीत्  गोयलस्य अभिमतप्रकाशनम्। अपराधिनं प्रति कर्कशप्रक्रमाः भविष्यन्ति इति च तेन उक्तम्।

Friday, June 29, 2018

रुप्यकस्य मूल्यं सर्वकालादपि अधः। 
     नवदिल्ली> रुप्यकस्य मूल्यं सर्वकालादपि अधः पतितम्। डोलरं प्रति ६९ रुप्यकाणि एव मानकम्।  विगतदिवसस्य पिधानश्रेण्यां ६८.६१ रुप्यकात् ६८.८९ इति मानकस्य अधः  पतितम्। इतःपूर्वं २०१३ तमे आसीत् एतावत् मूल्यापचयं सम्पन्नम्। असंस्कृततैलस्य मूल्यवर्घनम् विदेशनिक्षेपकाः   निक्षेपस्य प्रतिग्रहणं क्रियन्ते इति च रूप्यकाणां मूल्यापचयस्य कारणत्वेन वदन्ति।
रेलयानयात्रामध्ये दश सीमासंरक्षणभटाः तिरोभूताः।
डा. अभिलाष् जे
   कोल्कत्ता>पश्चिमबंगतः जम्मुकाश्मीरं प्रति विशिष्टरेलयाने यात्रां कुर्वन्तः दश सीमासंरक्षकभटाः तिरोभूताः। पश्चिमबंगालस्थ बरधमानस्य बिहारस्थ धनबादस्य च मध्ये ते तिरोभूताः इति आरक्षकैः उक्तम्। ८३ भटाः अस्मिन् याने आसन्। दीन दयाल उपाध्याय रयिल् निस्थाने याने आगते सति भटानां संख्यागणनासमये  दशभटानां अदृश्यतावार्ता विज्ञाता। अनन्तरं भटानां नेता  रेल् निस्थानकार्यकर्त्रे आरक्षकाय आवेदम् अयच्छत्।

Thursday, June 28, 2018

आक्रमणं न भविष्यति भवन्तः अस्माकम् अतिथयः - हिस् बुल्ल् सन्देशः। 
      श्रीनगरम्> अमरनाथ तीर्थाटकान् प्रति हिस् बुल्ल् दलीयानां सन्देशः एवं प्रचलत् अस्ति। आक्रमणं न भविष्यति भवन्तः अस्माकम् अतिथयः आक्रमणाय उद्देशः नास्ति अतः सुरक्षायाः आवश्यकता नास्ति इत्यस्ति सन्देशः। हिस्बुल्  मुजाहीतीन् भीकरदलानां कमान्टर् रियास् अहम्मद् नाय्कू इत्यस्य भवति अयं सन्देशः इति अनुमन्यते। पञ्चदशनिमेषदैर्ख्यमितः शब्दसन्देशः सामाजिकमाध्यमद्वारा एव प्रचलति।
तीर्थाटकान् प्रति आक्रमणः स्यात् इति केन्द्रप्रज्ञातृभिः पूर्वसूचना प्रदत्ता आसीत्। अत एव शक्ता सुरक्षा कृता अस्ति। अवसरेस्मिन् भवति एतादृश शब्दसन्देशस्य प्रसारणम्। गतवर्षस्य आक्रमणे अष्टतीर्थाटकाः भीकराक्रमणेन हताः अासन्।
इरान् राष्ट्रात् भारतं तैलानयनं निरुद्धव्यमिति अमेरिका।
     वाषिङ्टण्> इरान् राष्ट्रात् भारतेन साकं अन्ये राष्ट्राः च नवंबरमासात् तैलानयनं निरुद्धव्यमिति अमेरिक्कया  उक्तम्।अस्मिन् विषये भारतं तथा भारतस्य संस्थाः च अनुकूलता न दास्यति इति अमेरिक्कया व्यक्तीकृतम्।इरान् प्रति कृतोपरोधस्य भागत्वेन अस्ति अमेरिक्कायाः एतत् कर्म।भारतस्य तथा चैनायाः च एतत् बाधकमस्तीति अमेरिक्कया उक्तम्।
     इरान् राम् एकं कारयित्वा तेषां आयमार्गान् सर्वान् बव्धितुमुद्दिश्य अमेरिक्का प्रयत्नं करोति।आगमिनि वारे भविष्यमाणे भारत अमेरिक्का संवादे विषयममुं प्रधानविषयत्वेन अमेरिक्का आनयिष्यति।विदेशकार्य मन्त्री सुषमा स्वराजः,प्रतिरोधमन्त्री निर्मला सीताकामन् च भारतं प्रतिनिध्य संवादे भागभाजौ भविष्यतः।

Wednesday, June 27, 2018

रसना संस्कृतमासपत्रिका दशमं वयः प्राप्ता।

      कोच्ची> केरलदेशतः डा. के श्यामलामहाभागायाः सम्पादकत्वेन प्रकाश्यमाना रसना नामिका संस्कृतमासपत्रिका  दशमेवयसि सम्प्रविष्टा। केरलस्य अद्वितीया संस्कृतमासपत्रिकेयं संस्कृतभाषायाः प्रचाराय अद्वितीयं स्थानम् आवहति। कथा कविता प्रश्नोत्तरम् निबन्धः  शोधात्मकरचना बालकविता सांस्कृतिकविषये आवेदनम् वैज्ञानिकविषयाः  इतरविषयाः च पत्रिकायाः पुटेषु विस्तृतानि सन्ति। पत्रिकायाः पठितारः विदेशराष्ट्रेषु अपि सन्ति। डा.के श्यामलायाः अश्रान्तपरिश्रमस्य पृष्टतः तस्याः पतिदेवस्य के एम् जनार्दनस्य अभिप्रेरणा च वर्तते। पत्रिकायाः प्रबन्धसम्पादकः भवति एषः।  सोടपि  अस्मिता पब्लिकेषन् नाम पुस्तकप्रकाशकसंस्थया संस्कृतमातुः सेवायां निरतो वर्तते।  www.rasanamagazine.com इति भवति पत्रिकायाः अन्तर्जालपुटसङ्केतः 
जैवाधिनिवेशः भारतस्य वार्षिकनष्टः ६.१७ कोटिः
     कोच्ची> केरळस्य प्रकृत्याम् अधिनिवेशं कृत्वा सस्यजनतुजालाः  स्वाभाविकां प्रकृतिं नाशयन्ति। अनेन कोटिशानां रुप्यकाणां नाशः अभवत्। २००१ तमे संवत्सरे कृताध्ययनस्य गणनाभवत्ययम्। जैवीकाधिनिवेशः इदानीं वर्धिताः इति परिस्थिति वैज्ञानिकाः वदन्ति।   किन्तु घटनेടयं निवारयितुम् काടपि योजना इतःपर्यन्तम् न समारब्धा। 

     वनेषु अधिनिवेशनसस्यानां अधिव्यापनेन वन्यपशूनां भक्ष्यतृणानि अन्यानिसस्यानि च नाशं गतानि।  वन्यमृगाः भक्ष्यम् अन्विष्य ग्रामगमनाय सन्दर्भः भविष्यति। तद्देशीयसस्यानाम् वंशनाशाय हेतुः भविष्यति । नष्टानां सस्यानां  गणना इतःपर्यन्तं नास्ति। संवत्सरेभ्यः पूर्वं वैज्ञानिकेन डेविड् पिमिन्टलेन कृतम् अध्ययनमेव साकाशे अस्ति। 
 ८५ प्रकाराः सस्याः २० जीविनः च एवम् अघिनिविष्टाः सन्ति।
एक्स्प्रस् हैवे विरुध्य अायोजितं समरम् आवेदितुम् आगतान् माध्यमप्रवर्तकान्  कारयां प्राविशत्।
   चेन्नै>चेननै-सेलं अतिवेगमार्गं विरुध्य जनानाम् आन्दोलनम् आवेदितुं समागतान् वार्ताहरान् अपि तमिल् नाट् राज्यस्य आारक्षकाः अबन्धयन्। कैरलीभाषामाध्यमस्य मातृभूमि नाम दृश्यवाहीन्यः चेनै वार्ताहरः अनूप् दासः छायाग्राहकः मुरुगः तीकेकतिरस्य वार्ताहरः रामदासः च बन्धितेषु सन्ति।  व्यापकप्रतिषेधेन अनूप् दासः मुरुगः च कारान्मुक्तौ किन्तु तीक्कनलस्य वार्ताहरः इदानीमपि बन्धने भवति। मङ्गलवासरे मध्याह्ने द्वादशवादने सेलं तिरुवण्णामलै जनपदशासनकार्यालयस्य समीपे छायाग्रहणं कुर्वन्तौआस्तां मुरुग अनूपदासौ। तस्मिनेवसमये आगताः आरक्षकाः वार्ताहरान् अबन्धयत् च। घटनानुबन्धतया तमिल्नाट् सर्वकारं प्रति परिदेवनं दातुं वार्तासंस्थाभिः निश्चितमस्ति। 

Tuesday, June 26, 2018

दिल्यां सप्तदशसहस्रं वृक्षच्छेदनं नीतिपीठेन जुलाई चत्वारि पर्यन्तं निरोधितम्।

    नवदेहली>भवनव्यापारसमुच्चयस्य निर्माणाय दिल्यां सप्तदशसहस्र वृक्षाणां च्छेदनं कर्तुं केन्द्रसर्वकारेण कृतं प्रयत्नं दिल्ली उच्च न्यायालयेन निरोधितम्। जूलाई चत्वारि दिनाङ्कपर्यन्तमस्ति निरोधनम्।वृक्षच्छेदनाय हरितड्रैब्यूणलस्य अनुमतिः प्राप्तः वा इति न्यायालयेन अपृच्छत्।

    वृक्षच्छेदनं अधिकृत्य के के  मिश्रया दत्त निवेदनस्य परिगणने आसीत् नीतिपीठस्य परामर्शः।  दक्षिण दिल्याः सप्तानां कोलनीनां विकासाय वृक्षच्छेदनं केन्द्रसर्वकारेण न कुर्यादिति मिश्र महोदयानां निवेदम्।तदाभ्यन्तरे सप्तकोलनिषु एकस्य सरोजनी नगरस्य जनाः वृक्षान् आलिङ्ग्य चिप्को संग्रामेन रविवासरे आगतवन्तः।  १९७० संवत्सरे उत्तराखण्ड् द्शे प्रचारितः संग्रामः आसीत् चिप्को।

Monday, June 25, 2018

मेट्रो रैल् संविधानस्य उपदेष्टृरूपेण इ श्रीधरः नियुक्तः।
   नवदिल्ली> आराष्ट्रं मेट्रो रयिल् संविधानस्य मानदण्डनिर्णयाय नूतनसमितिः अायोजिता अस्ति। समित्याः अध्यक्षस्थाने इ श्रीधरः नियुक्तः।  समितिः प्रधानमन्त्रिणा अङ्गीकृता अस्ति। भारतस्य सार्वजनिकगतागतसंविधानस्य नवीकरणे सुप्रधानं योगदानं कृतवानासीत् श्रीधरः। दिल्ली मेट्रोरयिल् परियोजनायाः निर्माणं सम्पूर्णतया अस्य नेतृत्वे अासीत्। केच्ची मेट्रोरयिल् परियेजना भवति अस्य नेतृत्वे निर्मिता नूतना पद्धतिः। 
भिषजां निस्वार्थसेवा - प्रधानमन्त्री।
     नवदेहली>राष्ट्रस्य स्वास्थ्यक्षेत्रस्य सङ्कीर्णाः समस्याः परिहर्तुं भिषग्भिः तथा अन्ये स्वास्थ्य कर्मकारैः कृताः सेवाः अभिनन्दनार्हाः इति प्रधानमन्त्री नरेन्द्रमोदी।प्रतिमास आकाशवाणी कार्यक्रमस्य मन की बात् कार्यक्रमस्य पञ्चचत्वारिंशत् भागे भाषमाणः आसीत् सः।
      भारतस्य पाक्किस्थानस्य च मध्ये जाता क्रिक्कट् क्रीडा श्र्णीं परामृश्य आसीत् कार्यक्रमस्य आरंभः।अफ्खानिस्थान् राष्ट्रपत्या सह कृतस्य साक्षात्कारमधिकृत्य अपि तेन परामर्शः दत्तः।अनन्तरं अन्ताराष्ट्र योगदिनमधिकृत्य तथा आगामिनि भिषक्दिनमधिकृत्य च तेन अवोचत्।भारतस्य व्यवसाय उन्नति या तथा शैक्षिक क्षेत्रे  च डा. श्यामप्रसाद् मुखर्जी महोदयानां योगदानम् सः अस्मारयत्।
राष्ट्रस्य गतागतसंविधानम्  अधिकतया नवीकरिष्यति - भारतस्य प्रधानमन्त्री।
     नवदिल्ली> राष्ट्रे अत्याधुनिक-गतागतसुविधा एव सर्वकारेण लक्ष्यीक्रियते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। दिल्ली मेट्रोरेल् संस्थायाः हरितपट्टिकायाः उद्घाटनं कृत्वा भाषमाणः आसीत् सः। मेट्रोसेवां वीडियो कोण्फ्रन्सिङ् इति दृश्यश्रव्यमाध्यमेन अासीत् उद्धाटनम्।  मुण्डक अारभ्य बहादूरगढ् पर्यन्तं ११.२ किलोमीट्टर् मार्गः एव राष्ट्राय समर्पितः। अस्मिन् अवसरे मोदिना भणितं यत् नगरेषु सौविध्यपूर्णतया अल्पमूल्यात्मिकाश्च यात्रायाः प्रणाल्याः प्रवर्तनं प्रशासनस्य लक्ष्यमिति नरोन्द्रमोदिना उक्तम्। अाहत्य दिलीमेट्रोमार्गस्य दैर्घ्यः इदानीम् २८८किलोमीट्टर् अभवत्।

Sunday, June 24, 2018

वातशीतीकरणीनां  सामान्यतापमानं २४° इति न्यूनीक्रियते।
   नवदिल्ली> भारतराष्ट्रस्य वातशीतीकरणीनां सामान्यतापमानं चतुर्विंशति डिग्री इति न्यूनीकरतुं केन्द्रसर्वकारः। पर्यालोचयति। कतिपय मासाभ्यन्तरेण एवं भविष्यति इति ऊर्जमन्त्री वि के सिंहः विगतशुक्रवासरे अवदत्। वातशीतीकरणीनां निर्मातारः उपभोक्तृृृृ़णाम् स्वास्थ्याय अनुयेज्यतापमानः  शीतीकरण्याः उपरि लेखनीयम्  इति तेन निर्मातारः अादिष्टाः। मनुष्यस्य शारीरिकतापः ३६°- ३७° मध्ये भवति। किन्तु व्यवसायिक संस्थासु भक्ष्यशालासु च १८- २१° इति क्रमेण तापमानः संस्थापयति इत्यनेन  तत्रत्यानां जनानां स्वेदिका कम्पलादीनि उपयोक्तुम् निर्बन्धिताः अभवन्। एतत् ऊर्जस्य दुर्व्ययमेव भवति इत्यपि सः अवदत्। 

Saturday, June 23, 2018

केन्द्र-बालसाहित्य-पुरस्काराय डा सम्पदानन्दमिश्रः  चितः - संस्कृतस्य साफल्यम्।
     पुतुच्चेरी> ओडीषाराज्यस्य संस्कृतबालसाहित्यरचयिता डा. सम्पदानन्दमिश्रः २०१८ तमस्य बालसाहित्यपुरस्काराय चितः। महोदयेन विरचितं शनैः  शनैः इति पुस्तकस्य कृते भवति पुरस्कारः।    

     संस्कृतक्षेत्रे सुज्ञातस्य सम्पदानन्दस्य यत्नः बालनां कृते सरलतया मनोरञ्जकरूपेण संस्कृतभाषायाः प्रस्तुतिकरणे आसीत्। अनेन दिव्यवाणी नाम संस्कृत-रेडियो प्रसारणं २०१३ तमे ऐदंप्राथम्येन समारब्धम्। २४ होरापर्यन्तम् अस्ति अस्य प्रसारणम्। २०१४ तमे संवत्सरे मिश्रमहोदयः संस्कृतबालसाहित्यपरिषत् इति संस्थां समारब्धवान्। बालसाहित्यस्य पोषणाय अासीत् तस्य यत्नः।

साहित्य अक्कादमि संस्थया २१भाषातः पुरस्काराय पुस्तकानि स्वीकृतानि। तासु संस्कृतमपि अन्यतमा इत्येतत् सा संप्रति नवजीवना इत्यस्य निदानं भवति।

Friday, June 22, 2018

न्यूयोर्क्-नगरे प्रथमे अन्ताराष्ट्रिय-योगविचारसत्त्रे गुरुवरः महामहोपाध्यायः डा. जि गङ्गाधरन् नायर् महोदयः भाषणं करोति सम्प्रतिवार्तापत्रिकायाः तथा दृश्यवाहिन्यः निदेशकः भवति अयम्।
मा गच्छतु गुरो- आक्रन्दनेन छात्राः।
         चेन्नै> छात्राणां प्रियंकरः भवति भगवान् नामकः गुरुः।  तस्मै इदानीं स्थानान्तरणम् इति श्रुत्वा छात्राः क्रन्दिताः तेषां रक्षाकर्तारः अपि क्रन्दिताः। मा गच्छतु इत्युक्त्वा छात्राः तम्  आश्लिष्टवन्तः। गुरुशिष्य बन्धस्य दुर्लभदृश्यमासीत्  चेन्नै समीपे तिरुवळ्ळूरस्थ वळ्ळियगरं सर्वकारीयोच्छविद्यालये। तत्रत्यस्य आङ्गलेयाध्यापकस्य जि भगवानस्य स्थानान्तरणम् एव छात्रान् सङ्कटस्य कारणम्। रक्षाकर्तारः अपि एतस्य स्थानान्तरणं विरुध्य प्रतिषिद्धाः। अनध्ययनेन सर्वे छात्राः बहिर्गताः। भगवान् अध्यापकरूपेण नास्ति चेत् छात्रान् विद्यालयं प्रति न प्रेषयते इति रक्षाकर्तारः नियमसभा सामाजिकानां पुरतः अवदत्।
छात्राणां तथा रक्षाकर्तृृृृणाम् आवश्यं प्राध्यापकेन अरविन्देन शिक्षाविभागस्य अधिकारिणः पुरतः नयवेदितम्। स्थानान्तरणं दशदिनेभ्यः निवारितम् अधिकारिभिः।

     षट्विंशतिवर्षदेशीयस्य अस्य प्रथमा नियुक्तिः भवति इयम्।  तस्य अागमनेन छात्राणां आङ्कलेयाध्ययने प्रगतिः दृश्यते। छात्राः सर्वे उत्तीर्णतां यान्ति।  बुभुक्षितानां कृते अन्नमपि अनेन दीयते। स्वल्पेनैव कालेन  छात्राणां हृदयेषु चिरप्रतिष्ठितः अभवत् सः।
यू ए ई राष्ट्रे मासत्रयात्मकं सामाजिकम् अपराधक्षमादानम्।
   दुबाय् > यथानुसृतम् अधिवासपत्रं  विना ये यू ए ई राष्ट्रमधिवसन्ति तेभ्यः शासनदण्डनं विना स्वदेशं प्रतिगन्तुं सन्दर्भः विधीयते तद्राष्ट्रेण। ओगस्ट् मासस्य प्रथमदिनाङ्कादारभ्य मासत्रयपर्यन्तम् इदं क्षमादानं प्राबल्ये वर्तिष्यते। 
    गतैः कतिपयसप्ताहैः 'विसा'पत्रसम्बन्धिषु विषयेषु यू ए ई राष्ट्रेण अनुवर्तमानानां परिष्काराणाम् अनुस्यूतता भवतीदं क्षमादानम्।
विश्वैक्यस्य  शक्तिस्रोतः भवति योगः - भारतस्य प्रधानमन्त्री।
    देराडूण्>  विश्वं योगं  आलिंगति अन्ताराष्ट्र योगदिनं अस्य सूचनाः एव आविश्वं प्रसारयति  इति प्रधानमन्त्री नरेन्द्रमोदी। आयुरारोग्य-सोख्यस्य अन्वेषणे योगदिनं विश्वस्य बृहत् परम्परा जातम् इति तेन अवदत्। दराडूण् फोरस्ट् इन्टिटूषन् मध्ये योगदिनस्य उद्घाटनं कृत्वा भाषमाणः आसीत् सः। दराडूणतः डब्लिन् पर्यन्तं षाङ्हाईतः चिक्कागो पर्यन्तं  जक्कार्तातः जोहन्नस्बर्ग् पर्यन्तं केवलं योगः  एव अस्ति।
   अतिशीघ्रं प्रचलमाने समाजे एकस्य व्यक्तेः शरीरं मनः मस्तिष्कं च एकीकृत्य योगः  शान्तिः  प्रददति इति प्रधानमन्त्री अभिप्रैति।
    अन्ताराष्ट्र योगदिनस्य भागत्वेन राष्ट्रे सर्वत्र विपुलानि कार्यक्रमाणि प्रचलन्ति। उत्तराखण्ड् राज्ये ५०००० जनानां योगप्रक्रियायां प्रधानमन्त्रिः भागभाक् अभवत्। राफि मार्ग्तः राज् पथ् पर्यन्तं इण्ड्यागेट् परिसरः च जननिबिडं भवति। सहस्रशः जनाः आस्थाने योगासनं कर्तुं समागताः। विविधाः संस्थाः योगदिनाचरणाय राज् पथे आगताः।
      केन्द्र-परिस्थिति मन्त्री हर्षवर्धेनेन सह अनेके प्रमुखाः दिल्यां योगाभ्यासे भागभाजः अभवन्। केन्द्रमन्त्रिणः राज्नाथ् सिंहः लख्नौ नगरे नितिन् गड्करी नाग्पूर् नगरे सुरेष् प्रभुः  चेन्नै मध्ये प्रकाश् जावडेक्करः  मुबाई मध्ये उमाभारती रुद्रप्रयागे रविशंकर प्रसादः पाट्नामध्ये केन्द्र-नैपुण्यविकसनसहमन्त्री अनन्तकुमार् हेड्गे कोच्ची मध्ये च भागभाजः अभवन्।
रासवस्तुमयाः 12,000 किलो मिताः मत्स्याः गृहीताः।
        तिरुवनन्तपुरम्>  केरळराज्यस्य भक्ष्यसुरक्षा विभागेन रासवस्तुमयाः 12,000 किलो मिताः मत्स्याः गृहीताः। अमरविळ घट्टकुट्यां    कृतायां शोधनायामेव फोर्मालिन् नाम रासवस्तु परिषिञ्च्य विक्रयणाय आनीतान् मत्स्यान् अपश्यन्। इतरराज्येभ्यः अानीतेभ्यः 6000 किलोमितेषु मत्स्येषु फोर्मालिन् अधिकतया अासीत्।

    वाळयार् घट्टकुट्यां कृतायां शोधनायां 6000 किलो मत्स्याः उपयोगहीनाः इति स्वास्थ्यमन्त्रिणः कार्यालयस्य वार्तालेखे विज्ञापितम्। प्रतिकिलोमितेषु मत्स्येषु 63 मिल्लीग्रां फोर्मालिन् अस्ति इति सेन्ट्रल् इन्स्टिट्यूट् ओफ् फिषरीस् टेक्नोलजि संस्थायाः परीक्षणशालायाः शोघनया प्रमाणीकृतम्।

   मृतशरीराणि जीर्णतां विहाय संरक्षितुम् उपयुज्यमानं रासवस्तु भवति फोर्मालिन्। अस्य उपयोगेन अामाशयस्य पचनव्यवस्थायाः नाशः अर्बुदादिरेगाः च फलम्।

Thursday, June 21, 2018

सामाजिकसुरक्षानिवृत्तिवेदनवितरणाय नूतना संस्था।
तिरुवनन्तपुरम्> सामाजिक-सुरक्षा-निवृत्तिवेदन-वितरणाय नूतना संस्था अायोक्ष्यते केरळसर्वकारेण। धनकार्य विभागस्य संरक्षणायां भवति नूतन स्थापना। विषयेടस्मिन्  मन्त्रिसभायाः निर्णयः समभवत्। निवृत्त वेतनवितरणाय धनं राज्यसर्वकारः संस्थायै प्रदास्यति। संस्थायां १००℅ भागाधिकारः सर्वकारस्यैव भविष्यति। निदेशकसम्त्यध्यक्षः धनमन्त्री प्रबन्धकनिर्देशकः धनविभागस्य  सचिवः च भविष्यतः। विविधक्षेमनिधि आयोगोन एव इदानीं न्वृत्तवेदनानि वितीर्यते। विविध-विभागतः जायमान नियन्त्रेणेन निवृत्तवेतनवितरणे विलम्बं कारयति इत्यनोन एव नूतनप्रक्रमः।
विश्वकल्याणाय योगः - अद्य विश्व योगदिनम्- ।

Wednesday, June 20, 2018

उष्णवातेन ओडीषायां विद्यालयोद्धाटनम्  विस्तारितम्।
भुवनेश्वरम्> शक्तेन उष्णवातेन ओडीषायां विद्यालयोद्धाटनम्  विस्तारितम्।  उष्णकालविरामानन्तरं विद्यलयोद्घाटने एव  विलम्बः।  जूण्मासस्य२६ दिनाङ्के उद्घाटनं भविष्यति इति मुख्यमन्त्री नवीन पटनायकः अवदत्। एप्रिल्मासस्य २५ दिनाङ्के पिधानं कृतं विद्यालयं जुण्मासस्य १८ दिनाङ्के उद्घाटयितुं निश्चितमासीत् ।
कूपीजले विषांशः। 
   तिरुवनन्तपुरम्- > केरलराज्ये विक्रीते कूपीजले विषसान्निध्यम्। विना शुद्धीकरणं जलविक्रयणं कृतानां  दशसंस्थानां प्रवर्तनं निरोद्धुं भक्ष्यसुरक्षाविभागेन निर्देशः दत्तः। तान् प्रति नियमक्रियाः अपि आरब्धाः। मक्टोवल्स्, गोल्डन् वाली, ग्रीन्वाली इत्यादि प्रमुखानां कूपीजलानां शुद्धता भक्ष्यसुरक्षाविभागेन निरीक्षिता।  ब्लू ऐरिस्, अशोका, मौण्ड् मिस्ट् अक्वा सेयर् , बेसिक्, टिप्लोमाट्, बिस्ट्रोल्, इत्यादीन् इतः परं विक्रयणं न कुर्यादिति निर्दिष्टम्। संस्थाभिः जलादानं शुचित्वं विना कुर्वन्ति इति निरीक्षणे व्यक्तं जातम्। भक्ष्यसुरक्षा विभागस्य आवेदनं भक्ष्यसुरक्षा अध्यक्षाय राजमाणिक्याय प्रदत्तम्।

   राष्ट्रे विक्रीतेषु कूपीजलेषु दशसु त्रीणि मलिनजलयुक्तानि इति केन्द्र-भक्ष्यमन्त्रिणा सी आर् चैधरिणा लोकसभायां प्रख्यापितम्। पलास्तिक-चूर्णयुक्तानि भूरिशानि कूपीजलानि। तानि अर्बुदादि अतिमारक रुग्णहेतूनि भवन्ति।

Tuesday, June 19, 2018

जप्पान् राष्ट्रे शक्तं भूचलनम्- त्रयः मारिताः।
टोकियो>पश्चिम जापानस्य ओसाकि देशे भूचलने त्रयः हताः। हतेषु एका बालिका भवति। उपद्विसहस्रं क्षताः। रिक्टर् मापिकायां ६.१ इति तीव्रं इति अङ्कितम् अस्ति। स्थावरजङ्गमवस्तूनां नाशः अधिकतरः अभवत्। नववयस्कया बालिकया सह त्रयः मारीताः। जनाः भयचकिताः अभवन्। हृदयस्तम्भनेन बहवः अातुरालयं प्रविष्टाः। भौमोपरितलात् १० किलोमीट्टर् अधः एव चलनस्य प्रभवकेन्द्रः। भित्तिपातेन एव वृद्धः बालिका च मृतौ। सुरक्षानुबन्धतया रेल्यानसेवा स्थगिता। मिहाम तकाहाम अोहि अणुनिलयानां सुरक्षादोषाः न सन्ति इति कान्सायि विद्युच्छक्तिविभागेन ज्ञापितः। 

Monday, June 18, 2018

भारतस्य पादकन्दुकक्रीडासंघाय अनुज्ञा 
 -रजीश् नम्पीशः
  नवदल्ही > अस्मिन् वर्षे आगस्तमासे इन्टोणेष्या मध्ये आरभ्यमाने 'एष्यन् गेय्म्स्' मध्ये भागं कर्तुं पादकन्दुकक्रीडासंघाय सर्वकारस्य अनुमतिः लब्धा इति सूचना।गेय्म्स् मध्ये पादकन्दुकक्रीडासंघस्य भागभाक्त्वविषये पूर्वम् अनिश्चितत्वमासीत्। नूतननिर्णयः पादकन्दुकक्रीडाप्रेमिणां कृते आह्लाददायकः भवति।  एष्यायाः उत्तमाः संघाः गेय्म्स् मध्ये भागं करिष्यन्तीत्यतः तै साकं क्रीडनाय अवसरः भारतसंघाय उपकारकः भवेत्  इति परिशीलकेन कोण्स्टन्टैन् महोदयेन अभिप्रेतम्।
काश्मीरे विस्फोटनं पञ्चदश जनाः व्रणिताः 
     श्रीनगरम् > काश्मीरे जायमाने विस्फोटने पञ्चदश जनाः व्रणिताः । गन्दर् बाल् जनपदस्य मनस् बाल् क्रीडोद्याने एव घटना जाता। अवक्षयवस्तूनां पात्रे अासीत् विस्फोटकम् इति अारक्षकैः उक्तम्। व्रणितानाम् अवस्था न गुरुतरा। घटनाम् अधिकृत्य अन्वेषणम् आरब्धम् इति अरक्षकैः उक्तम्।
प्रधानमन्त्रिणः गृहं प्रति अाप् दलस्य पदसञ्चलनम्
     नवदिल्ली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः गृहं प्रति अम आद्मि दलीयेन  कृतं पदसञ्चलनम् आरक्षकैः निवारितम्।  लोककल्याणमार्गे एव भवति वासगृहम्। संसद मार्गे एव अारक्षकैः प्रधिषेधपदसञ्चलनं  निवारितम् इति दलनेतारः टिट्वर् द्वारा प्रकाशितम्। 

Sunday, June 17, 2018

जलशुद्धीकरणाय आगिरणम् (sponge ) नूतनप्रत्यभिज्ञानेन भारतीयवनिता।
      टोरेन्टो> जलेविद्यमानानां मालिन्यानां गिलनाय नूतनम् आगिरणं निर्मीय भारवंशजा अनुसन्धात्री। हैद्राबाद् नगरात् अमेरिकां प्राप्तवती पावणी चेरुकुपळ्ळी नामिका भवति एषा। अगिरणी उपयुज्य लघुव्ययेन जलशुद्धीकरणः शक्यते इति विशेषता अस्ति अस्याः अनुसन्धानाय। टोरन्टो विश्वविद्यालयस्य शोधच्छात्रा भवति पावणी। विश्वविद्यालयस्यल यन्त्रतन्त्रविभागेल भवति तस्याः अनुसन्धानम्।  समान्य अागिरणमेव एतदर्थम् उपयुज्यते।   जले विलीना जैवरासमालिन्यनि एवं निष्कासितुं शक्यते।  पोली यूरत्तिन् उपयुज्य निर्मितः विद्युत् कणेन  निभृतम् आगिरणम् जलमालिन्यात् अयोण् कणान्  इति ज्ञात्वा एव नूतनाशयानाम् प्रकाशनम्।
अमेरिक्कायाः उत्पन्नानानां कृते भारतमपि करः वर्धितः
-डा. अभिलाष् जे
      नवदेहली> चैना अनन्तरं भारतेनापि अमेरिक्कायाः व्यापार युद्धं प्रति कठिना प्रतिक्रिया प्रतिक्रिया प्रारब्धा।अमेरिक्कातः आगतानां  त्रिंशत् उत्पन्नानां करः पञ्चाशत् प्रतिशतं वर्धितुं केन्रसर्वकारः प्रयत्नः आरब्धः।
    वर्धितकराणां उत्पन्नानां सारांशं विशदीकृत्य भारतं विश्व व्यापार संस्थां औपचार्कतया न्यवेदयत्।भारतात् गतानां अयसः अलुमिनियम् उत्पन्नानां करः अमेरिक्कया वर्धितः आसीत्। २४.१ कोटि डोलर् अमेरिक्का भारतस्य उपरि स्थापितः आसीत्।एतस्य प्रतिक्रिया रूपेण अस्ति भारतस्य प्रवृत्तिः।
फिफा विश्वचषकपादकन्दुकक्रीडा - अर्जन्टीनादलं बन्धयित्वा ऐस्लण्ट् ।
-रजीश् नम्पीशः
    स्पार्टक् >  भूतपूर्वविश्वचषकजेतारं अर्जण्टीनादलं १-१ इत्यङ्के बन्धयित्वा ऐस्लण्ट्दलं फिफा विश्वचषकपादकन्दुकक्रीडायां स्वसान्निध्यं न्यवेदयत्। प्रमुखक्रीडकः मेसी ऐस्लेण्ट् क्रीडकस्य अपराधेन लब्धम्‌ पेनाल्टिं नष्टीकृत्य क्रीडायां दुरन्तनायकः अभवत्। क्रीडायां   १९तमे निमेषे अगूरो लक्ष्यं प्राप्य अर्जण्टीनादलं अग्रे नीतः आसीत्। किन्तु चतुर्निमेषाभ्यन्तरे एव फिन्बोगनसन्‌ द्वारा ऐस्लण्ट् लक्ष्यस्य प्रतिदानमकरोत्। ततः परं क्रीडायाः ६४तमे निमेषे पेनाल्टिरूपेण लब्धः सुवर्णावसरः मेसिनः अश्रद्धया नष्टः अभवत्। एतत् तु क्रीडायाः गतिनिर्णये कारणमभवत्। अनया क्रीडया द्वयोरपि दलयोः अङ्कमेकं लब्धम्‌।

Saturday, June 16, 2018

मलालाम् आक्रमितुम् निर्दिष्टवान् भीकरः निहतः।   
      काबूल्> बालिकानां शिक्षायै प्रयतितवती इत्यनेन मलाला यूसफ् साय् नामिकां बालां  हन्तुम् आदेशं दत्तवान् आसीत् तालिबानस्य भीकरनेता मौलाना फसलुल्ला। इदानीं सः अफ्गानिस्थाने निहतः इति अवेदनम् समागच्छति। 
     यु एस् सैनिकप्रक्रमे एव एतस्य मृत्युः। वैमानिकरहित विमानाक्रमणमेव सेनया कृतम्। आक्रमणे तालिबानस्य चत्वारः नेतारः अपि निहताः इति राष्ट्रियवार्तामाध्यमानि वोयिस् ओफ् अमेरिकां साक्षीकृत्य न्यवेदितानि। पेषवार् सैनिकविद्यालयस्य १५१ छात्राणाम् मृत्योः कारणभूतः गोलिकाप्रहराय नेतृत्वमभजत एषः। 
फिफा विश्वचषकपादकन्दुकक्रीडायाम् उरुग्वायदलस्य विजयः। 
रजीश् नम्पीशः
   एकतरीनबेर्ग >   फिफा विश्वचषकपादकन्दुकक्रीडायाः द्वितीयस्फर्धायाम् ईजिप्तदलस्योपरि उरुग्वायदलस्य लक्ष्यमेकेन विजयः(१-०)। प्रमुखक्रीडकं मुहम्मदसलां विना अपि ईजिप्तदलम् उरुग्वायं प्रति अन्तिमनिमेषपर्यन्तम् उत्तमरीत्या एव क्रीडितम्। स्पर्धायाः अन्तिमनिमेषे उरुग्वायदलाय होसे जिमेनेस् उज्वलशिरताडनेन लक्ष्यं समपादयत्। सुवारस्, कवानी इत्येतयोः प्रमुखक्रीडकयोः सान्निध्येऽपि उरुग्वायदलस्य प्रकटनं निराशापूर्णमासीत्।
चरित्रटेस्ट् क्रिकेट् मध्ये अफ्गानिस्थानस्य पराजयः ।
-रजीष् नम्पीशः
      बङ्गलुरु > टेस्ट् क्रिकट् मण्डलं प्रति अफ्गानिस्थानस्य दुःखपूर्णप्रवेशः। टेस्।ट् क्रिकेट् पदवीं सम्पाद्य प्रथमस्पर्धायै भारतमागतवतः अफ्गानसंघस्योपरि भारतस्य विजयः। भारतेन अफ्गानिस्थानदलं क्रमेनैकेन २६२ धावनाङ्कैः च पराजितम्। प्रथमक्रमे भारतेन धवानस्य विजयस्य च शतकबलेन ४७४ धावनाङ्काः सम्पादिताः। किन्तु अफ्गानदलं प्रथमक्रमे १०९ धावनाङ्केषु निष्कासितम्। भारतेन फोलो ओण्‌ क्रमाय निर्बन्धितम् अफ्गानदलं द्वितीयक्रमे १०३ धावनाङ्केषु निष्कासितम्। भारताय अश्विन्, जडेजः, उमेष‌यादवः च उत्तमरीत्या कन्दुकक्षेपणम् अकुर्वन्। शिखर्धवान् क्रीडापुरुषत्वेन चितः अभवत्।

Friday, June 15, 2018

आगमिष्यति जलदौर्लभ्यः - नीतिआयोगः।
   नवदिल्ली> राष्ट्रं इतिहासस्य अतिजलदौर्लभ्येन सह गच्छति इति नीति आयोगस्य आवेदनम्। राष्ट्रस्य ६० कोटि जनाः जलदोर्लभ्यन दुरितमनुभवन्ति। २ लक्षं जनाः सुरक्षितजलस्य अनुपलब्ध्या मृताः इति  च नीति अायोगस्य समग्रजल सुप्रयोगसूचिकायां वदति। २०३० तमे संवत्सरे जलस्य आवश्यकता  द्विगुणीभविष्यति इति आवेदने व्यक्तीकरोति। अन्येषां जीवजन्तुजालानां  दुरितं  अावेदने न परामृष्टम्।
 आराष्ट्रं शुद्धजलस्रोतांसि प्रतिशतं सप्तति अङ्कानि मलिनानि अभवन्। शुद्धजलस्य मानकपट्टिकासु १२२ राष्ट्राणां नामलेखन-प्रकरणेषु भारतस्य स्थानं १२० इति भवति। २०३० संवत्सरे समागते ४० कोटि जनाः पानजलाभावेन दुरितबाधिताः भविष्यति इत्यपि अावेदनं वदति।

Thursday, June 14, 2018

भारतस्य राष्ट्रपतिः क्यूबां प्रति।  भारतस्य प्रथमसन्दर्शनम्
   नवदिल्ली> भारतराष्ट्रपतिः रामनाथकोविन्दः त्रिराष्ट्रसन्दर्शनाय प्रस्थानमकरोत्।  ग्रीस् सुरीनां क्यूब राष्ट्रेषु एव भवति सन्दर्शनम्। स्वतन्त्रता लब्ध्यनन्तरं क्यूबराष्ट्रं सन्दृश्यमानः प्रथमः राष्ट्रपतिः भवति रामनाथकोविन्दः। भारतं कयूबेन सह चत्वारि सम्मतिपत्राणि हस्ताक्षरीक्रियते।  जूण् मासस्य १६ दिनाङ्कात् एव सन्दर्शनम्। अयोविभागसहमन्त्री विष्णुदेव साय् राष्ट्रपतिम् अनुगमिष्यति। द्वौ विधानसभा सामाजिकौ अपि उद्योगपरिवारैै सह भविष्यतः।
केरलेषु शक्ता वर्षा केषुचन जनपदेषु विद्यालयानां विरामः।
कोष़िक्कोट्> बुधवासरे रात्रौ प्रवृत्तमानया अतिवृष्ट्या कोष़िक्कोट् जनपदस्य पर्वतप्रदेशेषु भीषणः भौमजलप्रवाहः  अजायत। कोष़िक्कोट्- कोल्लगल् राष्ट्रियमार्गेषु पादपानि पतित्वा मार्गविघ्नमभवत्। तामरशेरि पर्वतमार्गे एव वृक्षाः पतिताः। नद्यः कूलम् अतिक्रम्य प्रवहन्ति। केदाराः जलान्तर्भागे वर्तन्ते। पेरिङ्ल्कुत्त् सेतोः पिघानी उद्घाटिता चालक्कुटी नदीप्रवाहः कूलमतिक्राम्य भवति। कोष़िक्कोट् वयनाट् जनपदयोः विद्यालयानां कृते अद्य विरामः प्रख्यापितः। कोष़िक्कोट् जनपदस्य कलालयानामपि अद्य विरामः इति जनपदाध्यक्षेण उक्तम्।

Wednesday, June 13, 2018

नवीनबन्धः इति  ट्रम्पः 
विस्मृतं सर्वम् इति 'किम्' महोदयः
  प्रतीक्षया आसन् ह्यस्तनदिने आविश्वं मानवाः। सिङ्गपुरस्थ सेन्टोस् द्वीपे उत्तरकोरिय-अमेरिकराष्ट्रयोः अधिपौ चर्चां समारब्धौ अास्ताम्। आविश्वं मानवाः निर्निमेषाः  जाताः। चर्चायाः अन्त्यं  युद्धं वा शान्तिः वा इति ज्ञातुं सर्वे तिष्ठन्नासीत्। किम् जोङ् उन्-डोणाल्ड् ट्रम्पयेः चतुर्होरापर्यन्तं कृतचर्चायाः  अन्ते शान्तिपाठमभवत्। गतंगतंसर्वमुपेक्षणीयम् इतिवत् विस्मरावः विगतं कष्टम् इत्युक्त्वा शान्तिपत्रं हस्ताक्षरीकृतम्। दशाब्दानां निश्चलावस्थां विहाय अाविश्वं शान्तेः प्रयाणमारभत। चर्चा शताब्दस्य संवादः इति   दक्षिणकोरियेण उक्तम्। नूतनेतिहासं निर्मितवन्तौ इति चीनः तेषां अभिमतं प्रकाशितवान् च।

Tuesday, June 12, 2018

प्राथमिक कक्ष्यायाः संस्कृताध्ययनम् - षष्ठदिनस्य छात्रसंख्याम् विगणय्य केरलसर्वकारः। 
   
कोच्ची> केरळस्य सामाजिक विद्यालयेषु प्राथमिक कक्ष्यायां अध्ययनं कुर्वतां संस्कृतछात्राणां गणना अस्मिन् वर्षेऽपि सर्वकारेण न कृता। प्रति संवत्सरं नूतनतया संस्कृताध्ययनाय अागतानां संख्या वर्धते च। किन्तु सामाजिक शिक्षासंरक्षणयज्ञम् अनुष्ठीयमानः सर्वकारः संस्कृताध्ययनं प्रति विप्रतिपत्या तिष्ठतीति संस्कृताध्यापकानां संघ (KSTF)नेतारः वदन्ति। सर्वकारस्य सम्पूर्ण नाम अन्तर्जालनिस्थान द्वारा एव गणनादिकार्याणि कुर्वन्ति। प्राथमिककक्ष्यासु पाठपुस्तकानि, परीक्षाः च सन्ति। तथापि कति छात्राः संस्कृताध्ययनं कुर्वन्ति इति सरर्वकारस्य पार्श्वे गणना नास्ति। अरबिक् भाषाध्ययनवत् संस्कृतस्यापि अवसरः भवतु इति उक्त्वा संस्कृताध्यापकाः शैक्षिकोपजनपदकार्यालयानां पुरतः समरं कृतवन्तः। मङ्गलवासरे विद्यालयसमयानन्तरम् आसीत्  अध्यापकानां मेलनम्। विविधावश्यकान् उन्नीय  निवेदनमपि प्रदत्तम्।

Monday, June 11, 2018

चीनस्य बेल्ट् आन्ट्  रोड् योजनायां भागं न स्वीकरिष्यति इति भारतम्।
      चिङ्दवो > चीनस्य नायकत्वेन चाल्यमानः चीनस्य बेल्ट् आन्ट्  रोड् योजनायां भागं न स्वीकरिष्यति इति उक्तवान् नरेन्द्रमोदी। षाङ्हाय् कोर्परेषन् ओर्गनैसेषन् इति उच्चकोटि मेलने भाषमाणावसरे एव सः स्वाभिमतान् प्राकाशयत्। प्रातिवेशिकराष्ट्रेण  सह तथा  एस् सि ओ राष्ट्रेण सह च गतागतसुविधां वर्धापयितुं भरतं प्रथमस्थानं कल्पयति। किन्तु राष्ट्राणां शासनाधिकारं सीमां च परिगणय्य भवितव्यं इयं सुविधा इति उच्चकोट्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।

Sunday, June 10, 2018

विद्यार्थिनः अभीष्टकाले एव परीक्षा ।
    नवदिल्ली> छात्राः यदा अभिलषन्ति तस्मिन्नेवकाले परीक्षालेखनाय अवसरः (Exam On demand) दातुम् उद्दिश्यते विश्वविद्यालय अनुदानायोगेन (U G C)। परीक्षासंविधानेषु सर्वाङ्गपरिष्करणमेव लक्ष्यम्। एतदर्थम्  अध्ययनं कृत्वा अावेदनाय समितिरपि नियुक्ता अस्ति। परीक्षासंविधान-परिकरणसंबन्धतया उन्नतशिक्षायाः अध्यापकानां छात्राणां शिक्षाकोविदानां अभिमतानि आमन्त्रितानि सन्ति। जूण् मासस्य २२दिनाङ्कपर्यन्तं अभिमतानि निर्देशानि च प्ररेषयितुं शक्यते। cflougc@gmail.com इति अणुसङ्ते एव प्रेषणीयम्। कण्ठस्थीकरणकौशलमेव परीक्ष्यते  इदानीन्तन रीत्याम्।  विभिन्नया रीत्या ज्ञानावगाहपरीक्षां प्रबलीकर्तुमेव  विश्वविद्यालय अनुदानायोगस्य श्रमः।
अतिवर्षेण केरले नव मृत्यवः।
     कोच्ची > केरलराज्ये मण्सूण् नामकवर्षाकालः शक्तः। अतिवर्षेण सह प्रवृत्तेन प्रचण्डवातेन सञ्जातासु दुर्घटनासु विविधेषु जनपदेषु नव जनाः मृत्युमुपगताः। कण्णूर् जनपदे त्रयः, अनन्तपुर्यां त्रयः, कासर्गोडे द्वौ, कोष़िक्कोड् जनपदे एकश्च मृताः।
      मङ्गलवासरपर्यन्तं केरले अतिशक्ता वृष्टिः प्रतीक्षते। वातवेगः ६० कि.मी. यावत् भविष्यतीत्यतः केरल कर्णाटक लक्षद्वीपतीरवासिनः धीवराः जागरणीयाः भवेयुः।

Saturday, June 9, 2018

अतिशक्तेन धूलीवातेन सह वर्षा- दिल्लीनगरं निश्चलम्। 
   नवदिल्ली>  दिल्लीनगरे  इदानीं धूलीवातः वाति। कश्चन प्रदेशेषु शक्तः वातः  वर्षा च प्रचलत् अस्ति-  दिल्लीनगरं निश्चलम् अभवत्। वातावरणस्य व्यत्ययः झटित्येव आसीत् इत्यनेन नागरिकाः  वैक्लब्ये पतिताः। 
   वातावरणव्यत्ययेन दिल्ली राष्ट्रान्तर-विमाननिलयं  प्रति अगतानि   १८ विमानानि मार्गव्यत्ययं कृतानि।  सायं पञ्चवादने आकाशः मेघावृतमभवत्। पश्चात् वृष्टिः समारब्धा ।  तथा धूलीवातः अपि अारब्धः । दिल्ल्यां ७०-८०- वेगेन वातः संभव्यते इति पूर्वसूचना प्रसारिता अासीत्।
इक्षु कृषकाणां ८००० कोटि रुप्यकाणां साहाय्यः
     नवदिल्ली> केन्द्रसर्वकारेण इक्षु कृषकाणां कृते ८००० कोटि रुप्यकाणां साहाय्यः प्रख्यापितः। मध्यप्रदेशे कृषकाणां पथसञ्चलनं अभिभूय राहुलगान्धिनः प्रभाषणावसरे एव कृषकानुकूल विज्ञापनं बहिरानीतम्। २२००० कोटिरुप्यकाणि ऋणशेषंं कृतान् सितानिर्माणयन्त्राकारेभ्यः साहाय्यः उपाकरोति इति विचिन्तयति। २०१७-१८ संवत्सरे ३१६ टण् इति विशेषलाभः सितायाः उद्पादने आर्जितः आसीत्।

Friday, June 8, 2018

छात्राणां जलकुप्यः गुणहीनाः इति अध्ययनम्।
    मलप्पुरम्- राज्यस्थ विद्यालय महाविद्यालय छात्राणां जलकुप्यः गुणहीनाः इति पठअघ्ययनम्।अतिमारकाः पलास्तिक कुप्यः इदानीमपि  प्रतिशतं एकोनशतं (९९%) छात्राः उपयुज्यन्ते इति शुचित्वमिषन् कार्यकरत्रुः ज्योतिष् मणाश्शेरिणः अध्ययने वदति।

   विद्यार्थिनः अध्यापकाः रक्षाकर्तारः  आरक्षकाः धार्मिककार्यकर्तारः आदि २५०० उपरि जनैः सह कृतस्य अध्ययनस्य आवेदनमेतत्। पलास्तिक गुणतां अभिज्ञातुं वस्तूनामुपरि त्रिकोण रीत्या एकसंख्या आरभ्य सप्तमपर्यन्तं अङ्कनं करणीयमिति नियमः।किन्तु बहुभिः संस्थाभिः एतत् न पालयन्ति। कूपीनां गुणं विहाय रूपेषु मूल्यन्यूनत्वे च जनाः बद्धश्रद्धाः भवन्ति।  शिक्षितेषु अपि  प्रतिशतं सप्तति जनानां गुणस्तर विभागेषु ज्ञानं नास्ति।  प्रतिशतं विंशति जनाः समान्यज्ञातवन्तः सन्ति।तेषु सुरक्षितकुप्याः उपयोगं केवलं पञ्चदश प्रतिशतं कुर्वन्ति। अयोमय पात्रेषु अपि पलास्तिक पिघानी उपयुज्यन्ते।

Thursday, June 7, 2018

सामाजिक अन्तर्जालमाध्यमद्वारा महिलाः अवमन्यन्ते चेत् कठिनदण्डः।
   नवदिल्ली> वनिताशिशुक्षेममन्त्रालयेन नूतननियमनिर्माणाय पर्यालोच्यते यैः स्त्रियः अन्तर्जालमाध्यमद्वारा अवमन्यन्ते तेभ्यः कठिनदण्डः निश्चयेन दातव्यः इति भवति नियमः। वर्षत्रयं यावत् कारागारवासः लक्षद्वयस्य धनदण्डः च विहितः। १९८६ तमे मुद्रणमाध्यमानां कृते आसीनस्य नियमस्य परिष्कृतरूपमेव भवत्ययम्।
    परिष्कृतनियममनुसृत्य 'वाट्साप्' 'इन्स्टग्राम्' 'फेस्बुक्' इत्यादिषु स्त्रियः अमान्या इत्यादिरूपेण अन्तरिकाशययुक्त प्रकाशनस्येव दण्डः। प्रकाशितांशानां प्रचारकाः अपि दण्डार्हाः भवन्ति।
प्रसारयेम संस्कृतम्
-अभिषेक् पर्गायि
  ऋषिकेशम्> ज्येष्ठकृष्णस्य(अधिकस्य) पञ्चमीतिथित: ज्येष्ठशुक्लस्य(शुद्धस्य) द्वितीयापर्यन्तं  संस्कृतभारती- उत्तराञ्चलद्वारा उत्तराखण्डस्य ऋषिकेशस्थे श्रीमतीपुष्पाबढेरा-सरस्वतीविद्यामन्दिरे आयोज्यमानस्य आवासीय-संस्कृतप्रशिक्षणवर्गस्य द्वितीयदिवसस्य आरम्भ: प्रात:स्मरणेन सह अभूत्। तदनन्तरं सर्वे प्रशिक्षार्थिन: स्वास्थ्यलाभाय योगासनानि कृतवन्त:। योगासनात् परं प्रथमे सत्रे राष्ट्रियस्वयंसेवकसंघस्य जिलाव्यवस्थाप्रमुख: श्रीमान् सन्दीपमल्होत्रामहोदय: दीपं प्रज्वाल्य भगवत्या: सुरदेव्या: माल्यार्पणं विधाय सत्रारम्भं कृतवान्। तत: परं त्रिषु गणेषु आदर्शसम्भाषणशिविरं प्रवृत्तम्। यत्र सर्वेsपि शिक्षार्थिन: सरलेन संस्कृतेन सम्भाषणाभ्यासं कृतवन्त:। वर्गेस्मिन् संस्कृतमाध्यमेन शिक्षणस्य प्रशिक्षणं दीयते। वर्गेस्मिन् प्राय: पञ्चाशताधिकएकशतं(१५०) प्रशिक्षणार्थिन: सन्ति।

Wednesday, June 6, 2018

सर्वोच्चन्यायलयस्य मुद्रायां सत्यमेव जयते इति नास्ति- न्यवेदनं प्रदत्तम्। 
      नवदिल्ली> सर्वकारस्य मुद्रायाम् अशोकस्तम्भेन सह सत्यमेव जयते इति वाक्यस्य स्थाने अन्यत् किमपि लिखितुं शक्यते वा। तत् सर्वोच्चन्यायालयेन क्रियते चेत् ???? । 
    सर्वोच्चन्यायालयस्य मुद्रायाम् सत्यमेव जयते इति वाक्यस्य स्थाने यतो धर्मः ततो जयः इत्येव लिखितमस्ति। दोषोऽयं विरुद्ध्य ह्रस्वचलनचित्रसंविधायकः तथा सामूह्य सेवकः पि आर् उल्लासः केन्द्रसर्वकारं प्रति आरोपाक्षेपं प्रेषितवान्। आरोपाक्षेपं प्राधान्यत्वेन मत्वा केन्द्रनियम-मन्त्रालयः  आक्षषेपः सर्वोच्चन्यायालयस्य सर्वकार्यदर्शिने प्रेषितवानस्ति। याचिकां संलोक्य प्रक्रमाः स्वीकरिष्यति इति सर्वोच्चन्यालयस्य उत्तरदायिनः अवदन्।
तैलमूल्यनिर्णयप्रक्रिया नैव पुनःर्विचिन्तयते -पेट्रोलियम् मन्त्री।
   अहमदाबाद्>   प्रतिदिनम् पेट्रोल् डीसलादीनाम् मूल्यनिर्णयप्रक्रियां पुनर्निर्णेतुं केन्द्रसर्वकारः नैव सन्नद्धः इति केन्द्रपेट्रोलियम् मन्त्री धर्मेन्द्रप्रधानः। तैलमूल्यवर्धने सर्वकारस्य उत्कण्ठा वर्तते। शाश्वतपरिहाराय श्रमं करोति इत्यपि सः अवोचत्। राज्यसर्वकाराः करन्यूनीकरणाय सन्नद्धाः भवेयुः। वर्धितपेट्रोल्मूल्यस्य भागत्वेन लभ्यमानानि आनुकूल्यानि  च राज्यानि सन्त्यजेयुः। केरलसर्वकारः पूर्वम् करः मास्तु इति निश्चयमकरोत्। पूर्वतनस्य यू पी ए सर्वकारस्य अतिस्वामिमनोभावः एव अधुनातनसमस्यानां  कारणम्- सः व्यक्तीकृतवान्। अन्ताराष्ट्रविपण्यां क्रूडतैलस्य मूल्यवर्धनं, रूप्यकस्य मूल्यशोषणं, केचन करसम्बन्धिसमस्याः च   मूल्यवर्धनाय मूलभूतं कारणमिति तेनोक्तम्।

प्राथमिककक्ष्यायाः संस्कृतछात्राणां गणना नास्ति।  समराङ्कणं प्रविश्यति-KSTF
     कोच्ची> प्रथमकक्ष्यातः अारभ्य संस्कृताध्ययनाय अवसरः इदंप्रथमतया केरळेषु एव भवति।  किन्तु कति छात्राः संस्कृताध्यनं कुर्वन्ति इति सर्वकारस्य पार्श्वे गणना नास्ति। पुस्तकानि प्रश्नपत्राणि च सर्वकारेण प्रतिसंवत्सरं मुद्रितानि सन्ति। तथापि छात्राणां  संख्या सम्पूर्ण नाम सर्वकारीय-अन्तर्जालपुटे इतःपर्यन्तं न निवेशितम्।  संस्कृतभाषां प्रति राज्यसर्वकारस्य विप्रतिपत्तिः अनया स्पष्टा भवति इति केरल संस्कृताघ्यापक फेडरेषन् (KSTF) नेतारः वदन्ति। 
       संवत्सरपर्यन्तम् आवेदनं दत्वा प्रतीक्षया तिष्ठन्तः वयम्। इदनीं समरात् भिन्नः  मार्गः नास्ति अतः सप्तमे प्रवृत्तिदिने सायाह्नधर्णा निवेदनसमर्पणं च आयोजयिष्ये इति राज्याध्यक्षेण पि एन् मधुसूदनेन उक्तम्। अध्यायापकाः निवृत्ताध्यापकाः संस्कृतप्रेमिणः सास्कृतिकनायकाः च भागं स्वीकरिष्यन्ति इति कार्यदर्शिना  सि पि सनलचन्द्रेण च उक्तम्।  केरले विद्यमानेषु सर्वेषु  उपशैक्षिककार्यालयाङ्कणेषु एव प्रचलति धर्णासमरम्।

Monday, June 4, 2018

सर्वाणि औषधानि मूल्यनियन्त्रणपट्टिकायां योजनीयानि इति केन्द्रसर्वकारः।
- रम्या पि यु
    नवदिल्ली>   राष्ट्रे विक्रीयमाणानि सर्वाण्यपि औषधानि मूल्यनियन्त्रणपट्टिकायां योजनीयानि इति केन्द्रसर्वकारः। एतदर्थं विद्यमानेषु औषधमूल्यनियन्त्रणविधानेषु भेदाः कल्पनीयाः इति स्वास्थ्यमन्त्रालयस्य श्रमाः आरब्धाः। जूण् अन्तिमे एव नवं विधानम् अवतारयितुं सर्वकारः यतते। अधुना सार्धाष्टशतम् औषधानि एव पट्टिकायां वर्तन्ते। एतेषाम् मूल्यं तु समयोचितम् परिष्कर्तुं मूल्यनियन्त्रणसमितिरपि सर्वकारेण आनीता आसीत्। समितेः पट्टिकायां यान्यौषधानि न विद्यन्ते तेषाम् मूल्यं तु प्रतिवर्षं दशप्रतिशतं यावत् वर्धयितुं औषधनिर्मातृणाम् कृते अनुज्ञा आसीत्। नूतनसंविधाने एतानि सर्वाणि औषधानि पट्टिकायाम् अन्तर्भाव्यानि इति टाईम्स् ओफ् इन्ड्या आवेदयति।
भारतस्य प्रथमा क्रीडकविश्वविद्यालयः मणिपुर राज्ये
-डा अभिलाष् ए जे
    नवदेहली-राष्ट्रस्य प्रथमक्रीडक विश्वविद्यालयः मणिपुर राज्ये आरब्धुं राष्ट्रपतेः रामनाथकोविन्दस्य अङ्गीकारः।मेय् २३ दिनाङ्के केन्द्रसर्वकारेण मणिपुर राज्यस्य इम्फाल् नगरे क्रीडकविश्वविद्यालयाय संस्तुतिः कृता।
    तदाभ्यन्तरे केचन विद्यार्थिनः मणिपुर राज्यस्य क्रीडकशासन कार्यालयं प्रति आक्रमणं कृतवन्तः। तत्रत्यानि उपकरणानि संगणकयन्त्राणि च विध्वंसितानि।टेमोक्राटिक् स्टुटन्स् अलियन्स् ओफ् मणिपुर इति संस्थायाः अङ्गैः आक्रमणं कृतमिति आरक्षकैः उक्तम्।
     २०१७ आगस्त मासे राष्ट्रीय क्रीडकविश्वविद्यालयस्य रूपरेखा लोकसभायां प्रस्तुता आसीत्।क्रीडककशिक्षायाः क्रीडकविज्ञानस्य क्रीडक प्रशासनस्य राष्ट्रस्य प्रथमः विश्वविद्यालयः स्याद् अयम्।प्रधानमन्त्रिणा नरेन्द्रमोदिना २०१४-१५ वर्षे अस्य प्रख्यापनं कृतम्।
पन्था - भारताय ५०० कोटि रुप्यकाणाम् ऋणसाहाय्यं विश्वविकत्तालयेन प्रदास्यते।
   नवदिल्ली> प्रधानमन्त्री पन्थानिर्माणयोजनायै विश्ववित्तालयेन ५००० कोटि डोलर् धनम् ऋणं प्रदत्तम्।  ग्राममार्गस्य निर्माणाय धनमिदं प्रदास्यते। ऋतुपरिवर्तनानुकूलमार्गस्य निर्माणाय धनमिदं व्ययीक्रियते। ७००० कि. मी दूरं यावत् मार्गनिर्माणम् अनयायोजनया उद्दिश्यते। अस्यां ३५०० कि मी दूरं हरितसाङ्केतिकविज्ञानम् उपयुज्य भविष्यति।

Sunday, June 3, 2018

वरिष्ठमाध्यमप्रवर्तका लीलामेनोन् चरमगतिं प्राप्तवती।
    कोच्ची> वरिष्ठमाध्यमप्रवर्तका लीलामेनोन् (८६) इहलोकं परित्यक्तवती। कोच्ची देशे आसीत् तस्याः वासः। जन्मभूमि पत्रिकायाः मुख्यसम्पादका असीत्। 
    1932 नवंबर् 10 दिनाङ्के अासीत् तस्याः जननम्। 1978 तमे संवत्सरे  इन्त्यन् एक्स्प्रस् पत्रिकायाः वार्ताहररूपेण कर्ममारब्धम्। नवदिल्ली, कोच्ची, कोट्टयम् इत्यत्र स्वकर्ममकरोत् एषा। निलय्क्कात्त सिंफणी,(आद्मकथा) हृदयपूर्वं(लेखसमाहारः) च अस्याः सुज्ञाते रचने भवतः।
   कालिफोर्णियायाः राज्यपालः भवितुम् द्वाविंशतिवयस्कः भारतवंशजोपि।
- रम्या पि यु
   वाषिङ्टण्> कालिफोर्णियायाः राज्यपालपदाय स्पर्थिषु स्थानाशिषु कनिष्ठः भारतवंशजः। उत्तरप्रदेशे मूलभूतः शुभं गोयलनामकः द्वाविंशतिवयस्कोयम्। जननं वर्धनं च कालिफोर्णियायां चेदपि शुभस्य मूलकुटुम्बम् उत्तरप्रदेशे एव। लखनौ स्वदेशिनः विपुलगोयलस्य पुत्रोयम्। तन्त्रज्ञान (सोफ्ट्वेयर्) संस्थायाः स्वामी भवति विपुलः। शुभस्य माता तु मीरट् स्वदेशिनी। डान्विल्लेयाम् अस्य वासः। कालिफोर्णिया विश्वविद्यालयात् बिरुदपठनम् पूर्तीकृत्य विर्च्वल् रियालिटी संस्थायाम् प्रबन्धकत्वेन कार्यं कुर्वन्नस्ति एषः। सामाजिकमाध्यमैः एवायम् जनसामान्यान् प्रति संवदते। राष्ट्रियव्यवस्थितौ सुतार्यता अनिवार्या इति प्रचारणे तस्य ध्येयवाक्यम्। डमोक्राटिकदलात् नियुक्तस्य विद्यमानराज्पालस्य जेरि ब्रौणस्य अनुवर्तको भवितुं सर्वथा योग्यः इति स्वयं विश्वसिति च शुभम्। आहत्य सप्तविंशतिः स्थानाशिनः निर्वाचने भागं गृह्णन्तः आसन्।
एवरस्ट् मालिन्यात् मुक्तम् अभवत्- २.३ टण् मनुष्यविसर्जयः चीेनेन निर्मार्जितः।
   बैजिङ्> सन्दर्शकैः  पर्वतारोहकैः च निक्षिप्यमानेन मलिनवस्तुभिः पर्वतः मालिन्यवान् अभवत्। एप्रिल् मासात् चीनेन ८.५ टण् मितं मालिन्यं निर्मार्जितम्। ग्लोबल् टैंस् वार्तापत्रिकया आवेदिता। ३० अङ्गैैर्युक्तेन सङ्घेन मालिन्यनिर्मार्जनमकरोत्। आहत्य ७.५ टण् मालिन्येषु २.३ टण् मनुष्यविसर्जयः अस्ति। पर्वतारोहकैः निक्षिप्तानि एकटण्मितानि मालिन्यानि अपि निर्मार्जितानि इति टिबटस्य पर्वतारोहकोद्योगस्थाः अवदन्। 
     विगते संवत्सरे मार्च् मेई मासेषु टिबट् प्रदेशतः २०२ नेपल प्रदेशतः ५५६ नागरिकाः पर्वतमधिगन्तुम् आगताः। अतिरिच्य सहस्राधिकाः सन्दर्शकाः च उभयत्र विद्यमानासु शिबिरेषु समागताः अासन्।
संवत्सरपर्यन्तं तैलेन्धनमूल्यं न वर्धते-  इन्धनमूल्यं न्यूनीकर्तुं  केन्द्रसरेवकारः प्रयतते।
    नवदिल्ली> आगामि लोकसभानिर्वाचनात् पूर्वं तैलेन्धनमूल्यवर्धनं  बन्धितुमुद्दिश्य केन्द्रसर्वकारः प्रयत्नं समारब्धम् अस्ति। विगते गुरुवासरे  एतदनुबन्धतया उपवेशनं केन्द्र पेट्रोलियं मन्त्रिणः   धर्मेन्द्रप्रधानस्य गृहे समभवत्। ओ एन् जि सि सस्थायाः साह्येन एव मूल्यवर्धननियन्त्रणम् इति राष्ट्रियमाध्यमेषु आवेदितम्।  
एकम्  आर्थिकसंवत्सरं यावत् मूल्यवर्धनं विना तैलं विक्रेतुम्  ओ एन् जि सि संस्था अादिष्टा भविष्यति।

Saturday, June 2, 2018

'निपा'ज्वरः - नितान्तजाग्रता आवश्यकीति स्वास्थ्यविभागस्य पूर्वसूचना। 
   कोच्ची > सप्तदशजनानां मृत्युकारणत्वेन वर्तमानः निपावैरस् सूक्ष्माणुः रोगसंक्रमणस्य द्वितीयसोपानं प्रविष्टः इत्यतः जनैः नितान्तजाग्रता पालनीया इति केरलस्य स्वास्थ्यविभागेन निगदितम्।  ये निपाबाधितैः सह सम्पर्कमकुर्वन् ते एव इदानीं रोगबाधिताः दृश्यन्ते। झटित्येव मस्तिष्कं बाधयित्वा मृत्युकारणं भविष्यति।
    वयनाट् जनपदे सर्वासां शैक्षिकसंस्थानां कृते जूण् पञ्चमदिनपर्यन्तं विरामः उद्घोषितः। जूण् १६ पर्यन्तं विनिश्चिताः पि एस् सि परीक्षा सर्वाः परिवर्तिताः। वैरस् बाधितमण्डलेषु अधिकं जनसञ्चयं प्रतीक्ष्यमाणानां  नीतिन्यायव्यवहाराणानाम् अपि न्यायालयैः नियन्त्रणं कारितम्।
अतिशीघ्रं वर्धमाना भारतसाम्पतिकव्यवस्था इति ख्यातिः प्रतिगृह्य भारतम्।
   नवदिल्ली> विश्वस्य अतिशीघ्रं वर्धमाना साम्पतिकव्यवस्था इति ख्यातिः प्रतिगृह्य भारतम्।
चीनायाः पारं गत्वा जनवरि- मार्च् पादवर्षे वर्धनम् 7.7 जि डि पि इति अङ्कितम्। २०१७-१८ वर्षस्य प्राथमिक तृतीय पादेषु ५.६%, ६.३%, ७.०% इति वर्धनमङ्कितम् आसीत्। मार्च् मासस्य अन्तिमपादे जी डि पि वर्धनं ७.३% भविष्यति इति रोयिट्टेर्स् वार्तासंस्थया अनुमितम्।

Friday, June 1, 2018

सर्वकारीयविद्यालयेषु सहकृतविद्यालयेषु च छात्राः अधिकतया प्रवेशं स्वीकृतवन्तः।
   कालटी> केरळेषु अस्मिन् संवत्सरे सर्वकारीयविद्यालयेषु सर्वकार-सहकृतविद्यालयेषु  च छात्राः अधिकतया प्रवेशं स्वीकृतवन्तः। इति शैक्षिकविभागेन उच्यते। जूण् मासस्य अष्टमदिनाङ्के छात्राणां गणना पुनरपि करिष्यति इति च शैक्षिकाधिकारिभिः उक्तम्। प्रथमकक्ष्यायां संस्कृताध्ययनाय आगतानां छात्राणां संख्या अपि गतसंवत्सरेभ्यः अघिकतया अस्ति इति संस्कृताध्यापकफेडरेषन् इत्यस्य नेतारः अवदन्।
  अतिविपुला आधारसुविधा, शिक्षकाणां गुणविशिष्टता,आधुनिक सङ्गणकीय विज्ञानस्य योजनं, पाठ्यप्रणाल्याः वैषिष्ट्यं च सर्वकारीय विद्यालये छात्राणां सङ्ख्यावर्धनस्य कारणत्वेन उच्यते।