OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 30, 2022

खनिजाङ्गारदौर्लभ्यं - उत्तरभारतराज्येषु विद्युत्प्रतिसन्धिः अतितीव्रः। 

नवदिल्ली> खनिजाङ्गारदौर्लभ्येन उत्तरप्रदेशः, बिहारः, पञ्चाब्, दिल्ली, राजस्थानं, झार्खण्डः इत्यादीनि राज्यान् वैद्युतिलाभे अतिक्लेशः अनुभवन्ति। अतः एतेषु राज्येषु ३ - ८ होरापर्यन्तं यावत् वैद्युतिविच्छेदः विधत्तः।

   वैद्युतिः आवश्यानुसारं न लभते चेत् मेट्रो आतुरालयाः इत्यादीनां प्रवर्तनानि स्थगयिष्यतीति दिल्लीसर्वकारेण आशङ्का प्रकाशिता। ओडीषाराज्ये विद्युत्प्रतिसन्धिमूलतः विद्यालयाः मेय् ३० दिनाङ्कपर्यन्तं पिहताः। राजस्थाने उद्योगशालासु ४ होरापर्यन्तं वैद्युतिविच्छेदः विधत्तः। ग्रामेषु ३ होराः, जनपदकेन्द्रेषु होराद्वयं, नगरप्रदेशेषु एका होरा इति प्रकारेण विद्युद्विच्छेदः विधत्तः। 

  उत्तरप्रदेशे अवश्यम्भूतखनिजाङ्गारस्य चतुर्थांश एव सञ्चितरूपेण वर्तते इति ऊर्जमन्त्रालयेण निगदितम्। पञ्चाबे च कृषि उद्योगादिक्षेत्राणि विद्युत्प्रतिसन्धिना अतिक्लेशमनुभवन्तीति सर्वकाराधिकारिभिः उक्तम्।