OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 8, 2022

दशदिवसात्मक-सम्भाषण-शिबिरस्य समापनसमारोहस्य पालनम् अभवत्।

-वार्ताहरः वत्स देशराज शर्मा


>संस्कृतभारती,उत्कलप्रान्तस्य बलाङ्गीरजनपदपक्षतः गतदिने सर्वकारीय-महिला-महाविद्यालये दशदिवसात्मक-सम्भाषण-शिबिरस्य समापनसमारोहस्य पालनम् अभवत्। तत्र मुख्यातिथिरूपेण राजेन्द्रविश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः मा.अमरेश्वरनाएकः ,मुख्यवक्तारूपेण संस्कृतभारतीउत्कलप्रान्तस्य प्रान्तसभापतिः मा.आयुष्मन्तषडङ्गी, सारस्वतातिथिरूपेण विद्याभूषणसंस्कृतमहाविद्यालयस्य संस्कृतविभागस्य अध्यक्षः मा.धर्मराजबागः, सभाध्यक्षरूपेण महिलामहाविद्यालयस्य अध्यक्षः प्रो.मनोरञ्जनमिश्रः, संस्कृतविभागाध्यक्षः प्रो. सदाशिवमल्लिकः च उपस्थिताः आसन्। कार्यक्रमेऽस्मिन् अतिथिपरिचयं स्वागतभाषणं च अकरोत् संस्कृतभारती,उत्कलप्रान्तस्य प्रान्त-सम्पादकः मा.अजितकुमारपण्डा। वर्गविवरणं सांस्कृतिककार्यक्रमस्य सञ्चालनम् अकरोत् प्रान्त-शिक्षणप्रमुखः तथा शिबिरस्य शिक्षकः डॉ.मानसरञ्जनसाहुः। सभासञ्चालनं कृतवती विभागीया छात्रा ऋतुपर्णा त्रिपाठी। शिक्षाविभागस्य अध्यापकः हेमन्तमल्लिकः सर्वविधव्यवस्थासु सहयोगं कृतवान्। सांस्कृतिककार्यक्रमे "संस्कृतम् आवश्यकम्" तथा "करोनाकालस्य शिक्षणम्" इति विषययोः आधारिते नाटके छात्राभिः प्रदर्शिते। अन्तिमे विभागीयाध्यापकः भास्करपाणिग्राही धन्यवादार्पणम् कृतवान्।