OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 3, 2022

बालभारती पब्लिक विद्यालये नवसत्रारम्भ: पुस्तकविमोचनञ्च

नवदिल्ली> सर गंगाराम हॉस्पिटल मार्गस्थिते, बाल भारती पब्लिक् विद्यालये कोरोना-संक्रमणस्य भयानकस्थिते: पश्चात् ऐदम्प्राथम्येन भौतिकरूपेण नूतन-शैक्षिकसत्रस्य आरम्भस्य उपलक्ष्ये शनिवासरे हवनकार्यक्रम: आयोजित:। अस्मिन् आयोजने विद्यालयस्य प्रधानाचार्य: श्री एल. वी. सहगलवर्य: उपप्रधानाचार्या श्रीमती मीना मल्होत्रा च मुख्ययजमानत्वेन उपातिष्ठताम्। अस्मिन् कार्यक्रमे सम्पूर्णविद्यालय-परिवार: उपस्थित: आसीत्। धर्मसंस्कारस्य ज्ञाता, भारतीयपरम्पराया: पुरोधा पंडित श्रीललितमिश्रवर्य: वेदमन्त्राणामुच्चारणपूर्वकं हवनं सम्पादितवान्। अस्मिन् हवने सर्वै: उपस्थित-शिक्षकै:, छात्रै,: च समस्तविद्यालयस्य सदस्यै: साकं

समग्रविश्वस्य स्वस्थता-प्रसन्नता-समृद्धता-दीर्घायुष्यता इत्यादीनां कृते कामना कृतार्थता। विद्यालयस्य संगीत विभागस्य शिक्षका: श्रीसुमनझा,श्रीमती अर्चना श्रीवास्तव, श्रीमुनीष शंकर:, श्रीमती गरिमा चेत्यादय: निजश्रुतिमधुराणि भजनगीतानि प्रस्तूय समग्रोपस्थितजन-मानसस्य हृदयं प्रह्लादितवन्त:। हवनकार्यक्रमस्य अनन्तरं प्रसादवितरणस्य आयोजनम् अपि अभूत्। अस्मिन् अवसरे विद्यालयस्य प्रधानाचार्य: श्री एल. वी. सहगल: सर्वेभ्य: छात्रेभ्य: शिक्षकेभ्य: च नूतन-शैक्षिकसत्रं स्मरणीयं विशिष्टं च कर्तुं अध्ययनाध्यापन-शैक्षिक-गतिविधीनां क्षेत्रे विशेष-परिश्रमस्य कृते प्रेरणां, परामर्शं च प्रदत्तवान्। प्रधानाचार्यस्य उत्साहपूर्णवक्तव्यस्य कारणेन करतलध्वनिना समस्तं वातावरणम् अभूत् गुञ्जायमानम्। विद्यालयस्य सर्वै: शिक्षकै: शिक्षिकाभि: च प्रधानाचार्यस्य दिङ्निर्देशस्य अनुसारेण छात्राणां कल्याणेन साकं विद्यालयस्य उन्नतये निज-कर्त्तव्याणाम् उत्तरदायित्वानां च सर्वोत्तमरीत्या परिपालनस्य संकल्प: अपि स्वीकृत:।

अत्रावसरे विद्यालयस्य उपप्रधानाचार्या श्रीमती मीना मल्होत्रा अपि सर्वान् शिक्षकान् शिक्षिका: च कर्मचारिभि: समं छात्राणां हिताय निरन्तरं कार्यं कर्तुं प्रोत्साहितवती। 

नव-सत्रारंभ-समारोहे अद्भुतव्यक्तित्वस्य धनी प्रधानाचार्य: श्री एल.वी.सहगल: सर्वान् शिक्षकान् मिलित्वा निजोद्गारान् व्यक्तीकुर्वन् शिक्षकाणां कर्त्तव्यपारायणता, विद्यालयं प्रति निष्ठा, शिक्षणशीलता चेत्यादीनां श्लाघां विहितवान्। विद्यालयस्य सर्वान् विद्यार्थिन: निजबालकानिव स्नेहपूर्वकं मार्गदर्शनं कर्तुम् अपि श्रीसहगलवर्य: शिक्षकान् प्रैरयत्। युगपदेव विद्यालयस्य निरन्तरम् उन्नतये अग्रसर: प्रधानाचार्य: नवसत्रारम्भस्य अस्मिन् अवसरे आयोजिते हवनकार्यक्रमे समस्तबालभारतीविद्यालयपरिवारस्य उज्ज्वलभविष्यस्य कामनार्थं परमेश्वरस्य प्रार्थनां कृतवान्। अस्य नवसत्रारम्भकार्यक्रमस्य आयोजने वरिष्ठ-संस्कृत-शिक्षिका श्रीमती ज्योत्स्ना श्रीवास्तव:, संस्कृतशिक्षक: श्रीयुवराज भट्टराई, श्रीवीरेन्द्रशर्मा, चेत्यादय: शिक्षकाः नैजं विशेषयोगदानं कृतवन्तः। अस्मिन् अवसरे विद्यालयस्य समस्तशिक्षकशिक्षिकाभि: कार्यक्रमस्य आयोजने नैज: सहयोग: प्रदत्त:।

ध्यातव्यमस्ति यत् नवसत्रारम्भस्य अवसरे बालभारतीपब्लिक विद्यालयस्य वरिष्ठविभागस्य संस्कृतशिक्षकस्य समावाप्तसाहित्याकादेमीयुवपुरस्कारस्य श्रीयुवराजभट्टराईवर्यस्य सद्योविरचित: "तनीयसी" नामक: संस्कृत-काव्यग्रन्थ: अपि आदरणीय-प्रधानाचार्यस्य श्रीलक्ष्यवीरसहगलवर्यस्य करकमलाभ्यां विमोचित: ।  । प्रधानाचार्य: संस्कृतशिक्षासेवायै साहित्यश्रीसंवर्धनार्थं च श्रीयुवराजभट्टराईवर्याय वर्धापनानि अभिनन्दनानि च समर्पितवान्। 

युवकविना युवराज भट्टराईवर्येण विरचिते अस्मिन् काव्यग्रन्थे बालमनोविज्ञानसम्बद्धाः कविता: सन्ति संकलिता:।