OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 8, 2023

 ‘ऋग्वेदे वैश्विकचिन्तनम्’ इति विषयान्विता कार्यशाला समायोजिता

 – डॉ.विजयगुप्ता

   श्रीलालबहादुरशास्त्री-राष्ट्रियसंस्कृतविश्वविद्यालयस्य वेदविभागेन तिरुपतिस्थ राष्ट्रियसंस्कृतविश्वविद्यालयस्य वेदभाष्यविभागेन च संयुक्ततत्त्वावधाने अगस्तमासस्य प्रथमदिनाङ्कात् सप्तदिनाङ्कं यावत् "ऋग्वेदे वैश्विकचिन्तनम्" इतिविषयमधिकृत्य सप्तदिवसीयराष्ट्रियस्वाध्यायकार्यशालायाः समायोजनं कृतम्। तत्र भारतवर्षस्य विभिन्नेषु विश्वविद्यालयेषु संस्थानेषु अध्यापनरतैः विद्वद्भिः भिन्नभिन्नविषयमाधृत्य विशिष्टानि व्याख्यानानि प्रदत्तानि। कार्यक्रमेऽस्मिन् नैकेभ्यो विश्वविद्यालयेभ्यो महाविद्यालयेभ्यः संस्थानेभ्यश्च आचार्याः, प्राध्यापकाः, शोधच्छात्राः, छात्राश्च प्रतिभागं कृतवन्तः। कार्यक्रमोऽयं अगस्तमासस्य प्रथमे दिनाङ्के श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपतीनां प्रो.मुरलीमनोहरपाठकमहाभागानामाध्यक्ष्ये वाचस्पतिसभागारे उद्घाटितो जातः। उद्घाटनसत्रेऽस्मिन् मुख्यातिथिरूपेण

अनन्तश्रीविभूषितपरमहंसपरिव्राजकाचार्यस्वामिपरानन्दतीर्थपादानां व्याख्यानमभूत्। द्वितीयदिवसात् कार्यक्रमोऽयं प्रत्यक्षरूपेण आभासीयपटलेन (गूगलमीटद्वारा) च प्रतिदिवसे अपराह्णकाले द्विवादनात् पञ्चवादनं यावदायोजितो भवति स्म, तत्र प्रतिदिवसं द्वि-त्रिविशिष्टव्याख्यानानि भवन्ति स्म। प्रत्येकं दिने भारतीयपरम्परानुसारम् आदौ मङ्गलाचरणम्, अतिथीनां स्वागतामादि च सम्पादितम्। कार्यक्रमस्यास्य सम्पूर्तिसत्रम् अगस्तमासस्य सप्तमे दिनाङ्के तिरुपतिस्थ राष्ट्रियसंस्कृतविश्वविद्यालये समायोजितम्। तत्र राष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपतयः प्रो.जी.एस.रामकृष्णमूर्तिमहाभागाः अध्यक्षाः आसन्। मुख्यातिथिरूपेण श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपतयः प्रो.मुरलीमनोहरपाठकवर्याः समलङ्कृताः। प्रतिभागिभिः प्रस्तुतेन कार्यक्रमानुभवकथनेनेदं ज्ञातं यत् कार्यक्रमोयं स्वोद्देश्यं निश्चयेन प्राप्तम्।