Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः

Friday, March 8, 2019

Bookmark and Share
विश्वसंस्कृतपुरस्कारसमारोह: - सुषमास्वराजमहाभागया  स्वीय भाषणं संस्कृतेन कृतम्।
-पुरुषोत्तम शर्मा
   नवदेहली> जगति संस्कृतस्य प्रचाराय विशिष्टयोगदानार्थं भारतीयसांस्कृतिकसम्बन्धपरिषदा २०१५ तमख्रीस्ताब्दादारभ्य प्रतिवर्षं विश्वसंस्कृतपुरस्कार: प्रदीयते। अस्मिन् क्रमे गतवर्षीयो विश्वसंस्कृतपुरस्कारसमारोह: गुरुवासरे नवदिल्लयां समायोजित:। समारोहे विदेशमन्त्रिण्या सुषमास्वराजेन प्रो.अशोकनरहर अक्लुजकर: पुरस्कारेणानेन सभाजित:। तस्मिन्नवसरे संस्कृतजगति गणमान्यजना: शोधार्धिन: संस्कृतसेविनश्चोपस्थिता: अवर्तन्त। 
   कार्यक्रमे विदेशमन्त्रिण्या स्वीयसम्बोधनं संस्कृतभाषायाम् उपस्थापितम्। तयोक्तं यत्
- -
कार्यक्रमेऽस्मिन् समुपस्थितः विश्वसंस्कृतपुरस्कारेण पुरस्कृतः
श्रीमान् आचार्य अशोक अकलुजकरवर्य! 
भारतीय-सांस्कृतिक-सम्बन्ध-परिषदः अध्यक्षः डा. विनयसहस्रबुद्धेवर्य ! 
भ्रातरः भगिन्यः च ! 

नमस्कारः ।


सर्वप्रथमम् अहं विश्वसंस्कृतपुरस्कारेण सभाजितस्य आचार्यस्य अशोक-अकलुजकरवर्यस्य हार्दं स्वागतम् अभिनन्दनं च अहं व्याहरामि । उच्यते च –

विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥


श्रीमतः अकलुजकरवर्यस्य कर्मभूमिः यद्यपि कनाडा देशः अस्ति तथापि निखिलेऽपि विश्वे शिक्षाक्षेत्रे अस्य महती ख्यातिः वर्तते । संस्कृत संवर्धनार्थम् अस्य अत्यन्तं पाण्डित्यपूर्णम् असाधारणं च कार्यं वर्तते । 

अयं महाशयः Canadian Association of Sanskrit and Related Studies इत्यस्य संस्थापकः वर्तते । एषः बहूनि वर्षाणि यावत् संस्थायाः कोष-सचिवः तथा वार्तापत्रस्य सम्पादकः च आसीत् । 

अयं 1978 तमात् वर्षात् विश्व-संस्कृताध्ययन-समवायस्य परामर्शदातृसमितेः सदस्योऽपि अस्ति। श्री अकलुजकरः संस्कृतपाण्डुलिपिसङ्ग्रहणार्थं सम्पूर्णभारते यात्राम् अकरोत्। तथा च संस्कृताध्ययनस्य प्रोत्साहनार्थं पुरस्कारप्रदानाय अध्येता-वृत्तिं प्रदातुं च राशिं व्यवस्थापयत् ।

मित्राणि ! 

अद्यत्वे सम्पूर्णे विश्वे षड्-सहस्राधिकाः भाषाः व्यवहारे सन्ति । सहस्राधिक-वर्षेषु न केवलं भारते अपितु विश्वस्य अन्यस्मिन् भागेषु अपि अन्यासां अनेकाषां भाषाणां विकासे संस्कृतभाषा स्वीयं प्रभावम् अस्थापयत् । अनेन भाषासु एका अद्वितीया परम्परा ‘भाषिककुटुम्बकम्’ इति (Linguistic Kutumbakam) समुद्भूता । 

दक्षिणपूर्व-एशियादेशेषु मध्यमएशियाः देशेषु च अनेकाः शिलालेखाः अनेकानि साहित्यिकतथ्यानि च अस्याः भाषायाः उपस्थितिं प्रमाणयति । 

चीन - म्यांमार – इंडोनेशिया – कंबोडिया – लाओस – वियतनाम – थाईलैंड – मलेशिया – नेपाल – तिब्बत – आफगानिस्तान – मंगोलिया – उज्बिकिस्तान -तुर्कमेनिस्तान – तजिकिस्तान – कजकिस्तानदेशेषु ख्रिष्टाब्दपूर्वं प्रथमसहस्राब्दस्य संस्कृतपाण्डुलिपयः शिलालेखाश्च प्राप्ताः सन्ति । 

इदम् उल्लेखनीयम् अस्ति यत् 1972 तमे वर्षे प्रथमं विश्वसंस्कृतसम्मेलनम् नवदेहल्याम् आयोजितम् । तत्पश्चात् सम्मेलनमिदं इटली-फ्रांस-जर्मनी-संयुक्तराज्य अमेरिका-नेदरलैंड-आस्ट्रेलिया–फिनलैंड–यूनाईटेड किंगडम- थाईलैंड-केनडादेशेषु आयोजितम्। 

अनेन न केवलं भारते अपितु भारतीय-उपमहाद्वीपात् बहिः अपि संस्कृतभाषायाः महत्त्वम् अस्याः प्रासङ्गिकता च ज्ञायते। 

अहं आधुनिककाले संस्कृतभाषायाः प्रासङ्गिकतायाः विषये यत् वदामि तत् वर्तमानकालिक-वैज्ञानिक-विचाराधारितं वर्तते । अनेन स्पष्टं ज्ञायते यत् ध्वन्यात्कवर्णमालायाः यथार्थतायाः परिष्कृतव्याकरणस्य भाषा-अभिज्ञानाय, अनुवादाय-कृत्रिमबुद्धिमत्तायाः अन्यक्षेत्राय च साफ्टवेयर-विकासयितुं संस्कृतम् एका आदर्शभाषा वर्तते । 

नासायाः वैज्ञानिकः ‘रिक ब्रिग्स’ वर्यः संशोधनम् अकरोत् । तदनुसारेण संस्कृतं यद्यपि प्राचीना भाषा तथापि तान्त्रिकदृष्ट्या अत्यन्तम् उन्नता व्यवस्थिता च भाषा वर्तते। तस्मात् Algorithms निर्माणे अत्यन्तं समर्था वर्तते तथैव सङ्कलनार्थम् उपयुक्तासु भाषासु इयम् श्रेष्ठा वर्तते। 

शोधानुसारेण संस्कृतम् भाषण-चिकित्सायां मस्तिष्क-कार्य-विकासे च अतीव साहाय्यं करोति। महान् भारतवेत्ता विलियम् जोन्सवर्यः यथार्थमेव अवदत् यत संस्कृतभाषायाः प्राचीनता भवेन्नाम परन्तु अस्याः एका अद्भुत संरचना वर्तते, इयं ग्रीकभाषायाः अपेक्षया अधिक परिपूर्णा, लैटिनभाषायाः अपेक्षया अधिका प्रचुरा, अत्यधिकमनोहरतय परिष्कृता अपि वर्तते ।

प्रायशः संस्कृतं हिन्दुरीतेः हिन्दुधर्मग्रन्थस्य च भाषा इति मन्यते। परन्तु संस्कृतस्य प्रासङ्गिकता अतीव व्यापिका स्थानात् कालात् च उपरि अस्ति । 

संस्कृतभाषायाः सन्देशः कालातीतः सार्वभौमिकः मानवानाः भ्रातृभावस्य स्वरः (वसुधैव-कुटुम्बकम्) मानवजातेः आवश्यकविविधतायाम् ऎक्यस्य कृते आवश्यकः, आध्यात्मिक-अपेक्षां पूरयितुं जनैः कृतः पदक्षेपः (एकं सद्विप्राः बहुधा वदन्ति) अस्ति। 

तथा च संस्कृतस्य सन्देशः मानवानाम् इन्द्रियानां सीम्नः विनम्रतया परिपूर्णतायां संयमयति ।

तमेव भान्तम् अनुभाति सर्वम् तस्य 
भासा सर्वमिदम् विभाति - (मुण्डकोपनिषद्) 


महान्तः भारतीयाः ऋषयः संस्कृतविद्वांसश्च अस्माकं तदानीन्तन-समाजस्य पन्थाह्वानं सम्मुखीकृतवन्तः । 

स च धार्मिकः अतिवादः, आधुनिकसमाज-जीवनस्य उद्वेगः अथवा अनवधानेन प्रकृतिशोषणात् समुत्पन्नानि पारिस्थितिकसङ्कटानां कारणानि वा भवन्तु । 

तस्मादेव ते सहिष्णुतामूल्यानि, परस्परावगमनम्, आवास-व्यवस्थापनम्, क्षमाभावः, प्रकृतेः सम्माननम् तथा न केवलं मानवैः अपि तु पशुपक्षिभिः, पादपैः, सर्वैः स्थावरजङ्गमैः च सह सामञ्जस्यम् अकुर्वन् ।

यांश्च पश्यामि यांश्च न तेषु मा सुमतिम् कृधि (अथर्ववेद) 

अस्माकं भारतीयानां कृते संस्कृतं केवलं संचारस्य एकम् उपकरणमात्रं नास्ति अपितु अस्माकं जीवनस्य विचारस्य आध्यात्मिक-सांस्कृतिक-साहित्यिक-रिक्थस्य धारा अस्ति । अस्माकं कृते यथा देवपथगामिनी देवनदी गंगा अस्ति, तथैव संस्कृतभाषा, देववाणी अस्ति । 

गङ्गानदी यथा स्वकीय प्रारम्भात् गोमुखात् आरभ्य पवित्रा भवति, यावत् पर्यन्तं सा गङासागरं न प्रविशति, येन प्रकारेण इयं स्वकीयमार्गे आगताः सहायकनदीः पवित्रीकरोति, या च गङ्गायाः प्रकृतिं प्राप्नोति, तेनैव प्रकारेण संस्कृतभाषा तान् सर्वान् पवित्रीकरोति ये अस्याः सम्पर्के आयान्ति । 

वैदिकसाहित्यस्य, महाकाव्यानां, दर्शनानां, पौराणिककथानां, इतिहासस्य, कलायाः, विज्ञानस्य, चिकित्सायाः, गणितस्य, खगोलविज्ञानस्य – इतरेषां च कार्यस्य उत्कृष्टतमः कोशः संस्कृतेन सृष्टः । 

नाटककाराः कवयश्च मानवानुभवे मानवमनोविज्ञाने च कालातीत-अन्तर्दृष्टिं प्रदातुं भाषायाः प्रयोगं कुशलतया अकुर्वन् । 

रामायणस्य महाभारतस्य च भव्यता कालातीत सन्देशश्च अस्य प्रमाणं प्रस्तौति; कालिदासस्य काव्यप्रतिभायाः सौन्दर्यमपि तथैव अस्ति। भारतीयजीवनस्य कस्यचिदपि पक्षस्य अवगमनाय न केवलं हिन्दुभिः अपितु बौद्धैः, जैनैः, भारतीयोप-महाद्वीपस्य अन्यैः निवासिभिः अपि संस्कृतग्रन्थानां मूलं प्रति गन्तव्यं भविष्यति। 

सर्वविज्ञज्ञानस्य संस्कृतसाहित्यं वस्तुतः 
सर्वविविधज्ञानस्य भाण्डागारः अस्ति -(सर्वज्ञानमयो हि सः) 

अन्य ‘शास्त्रीय’ भाषाणां विपरीतं संस्कृतधनस्य पूर्णतया अन्वेषणम् अवशिष्टम् अस्ति । विश्वेऽस्मिन् विश्वे प्रायशः कोटित्रयम् (30 मिलियन) संस्कृतपाण्डुलिपयः सन्ति, भारते प्रायशः सप्तति लक्ष (7 मिलियन) पाण्डुलिपयः संरक्षिताः सन्ति ।

तासु केवलम् एकस्य लघु भागस्य समीचीनतया अध्ययनं कृतं वर्तते । अन्यभाषासु अपि पाण्डुलिपीनां सङ्ख्या महती अस्ति । यथा–तिब्बतपाण्डुलिपयः संस्कृतं प्रति आनेतुं प्रतीक्षमाणाः सन्ति ।

भारतशासनेन, प्रधानमन्त्रिणा श्रीमता नरेन्द्रमोदिवर्येण संस्कृतभाषां संरक्षितुं विशेषप्रयत्नः क्रियते। पञ्चदशाधिक द्विसहस्रतमात् (2015) वर्षात् विदेशमन्त्रालये एकः समर्पितः विभागः वर्तते यस्य आध्यक्षं वरिष्ठसंयुक्तसचिव-स्तरस्य अधिकारी करोति। 

स च विदेशेषु संस्कृतभाषाप्रचारस्य पर्यवेक्षणं करोति। अष्टादशाधिक-द्विसहस्रतमे (2018) वर्षे भारतीयसांस्कृतिक-सम्बन्धपरिषदा (ICCR) भारतीयदूतावासस्य पत्रालयस्य माध्यमेन च विदेशेषु संस्कृतं योगं च अध्यापयितुं अष्टाशितिः (88) विद्वांसः नियुक्ताः।

पञ्चदशाधिक-द्विसहस्रतमे वर्षे जुलाईमासे थाईलैंडदेशे आयोजित षोडशे विश्वसंस्कृतसम्मेलने सम्मानिताथित्वेन समाहूता । तत्र प्रतिष्ठित-वैदेशिक-संस्कृतविद्वद्भ्यः प्रदातुं ‘विश्वसंस्कृतपुरस्कारस्य’ उद्घोषणार्थम् अवसरं प्राप्तवती। 

भारतीय-सांस्कृतिक-सम्बन्ध-परिषदा तस्मिन् वर्षे एव अस्य पुरस्कारस्य घटनं कृतमिति अहं प्रसन्नताम् अनुभवामि । प्रथमतया एनं पुरस्कारं थाई-राजकुमारी महाचारी सिरिन्धोर्नवर्या प्राप्तवती। अद्य वयम् आचार्यस्य अशोक अकलुकरस्य योगदानम् अभिज्ञाय अत्यन्तं प्रसन्नाः स्मः ।

मदीया कामना अस्ति यत् अधिकाधिकाः जनाः, विद्वांसः एनां भाषां पठेयुः तथा च समस्तमानवतायाः हितार्थं प्रवहमानायाम् अस्यां ज्ञानगङ्गायां स्वीयं योगदानं कुर्युः।

पुनरेकवारं विदेशेषु संस्कृतभाषायाः अध्ययने अध्यापने संवर्धने च तस्य योगदानार्थम् अहम् आचार्यं अकलुजकरं अभिनन्दामि। 

तथा च अष्टादशोत्तर-द्विसहस्रतमस्य वर्षस्य प्रतिष्ठितं विश्वसंस्कृतपुरस्कारं प्रदाय प्रसीदामि । तस्य सर्वविध-भाविप्रयत्नाय अहं तस्मै शुभकामनां प्रयच्छामि ।

नमस्कारः
https://www.mea.gov.in/Speeches-Statements-hi.htm?dtl/31123/