OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 20, 2019

संस्कृतरक्षायै सैनिकाः समुद्भवेयुः
(आचार्यवाचस्पति-उपाध्यायस्मारकव्याख्यानमाला)
   नवदिल्ली> राजधान्यां  श्रीलालबहादुरशास्त्रि-राष्ट्रियसंस्कृत-विद्यापीठस्य आधुनिकविद्यासङ्कायेन मार्चमासस्य ऊनविंशे दिने आचार्यवाचस्पति-उपाध्याय-स्मारकव्याख्यानमाला समायोजिता। विद्यापीठस्य कुलपतिः प्रो. रमेशकुमारपाण्डेय: कार्यक्रमस्याध्यक्ष्यम् अकरोत्। अत्रावसरे कुलपतिमहोदयेन विद्यापीठस्य संस्थापककुलपते: डॉ.मण्डनमिश्रमहोदयस्य विद्यापीठसंस्थापनायै निहितसंस्कृतसपर्या उपस्थापिता। तदीय: सङ्कल्प: आसीत् यत् संस्कृतरक्षायै सैनिका: विद्यापीठत: समुद्भवेयु:, सैव सङ्कल्पना सम्प्रति मूर्तस्वरूपं सम्प्राप्तास्ति। अनन्तरं कुलपतिमहोदयेन आचार्यवाचस्पत्युपाध्यायस्य विद्यापीठायावदानं शास्त्रपारङ्गतता ज्ञानगाम्भीर्यं च संस्मृतम्। विद्यापीठस्य ज्ञानपताकां सन्नेतुम् आचार्योपाध्ययेण विहितकार्याणि अपि साररूपेणोपस्थापितानि । इन्दिरागाँधी राष्ट्रियमुक्तविश्वविद्यालयस्य आचार्य: प्रो.कपिलकुमार: मुख्यवक्तृत्वम् उपस्थापयत्। स्वीयद्बोधने मुख्यवक्तृणा राष्ट्रवादमुद्दिश्य भारतस्याखण्डस्वरूपमुपस्थापितम् । अन्ताराष्ट्रियपरिदृश्ये प्रतिवेशिराष्ट्राणां व्यवहार: विशदेन वर्णितम्। साम्प्रतिके परिवेशे राष्ट्रवादविषयकम् अस्माकं सैन्यबलानां शौर्यं, राष्ट्रं प्रति  जनसामान्यस्योत्तरदायित्वमुपस्थापितम्, येन भारतस्यैक्यं सर्वदा भवेदिति।   शोधविभागाध्यक्षस्य डॉ. शिवशङ्करमिश्रस्य सफलसंयोजकत्वे व्याख्यानमाला समायोजिता।