OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 18, 2019

संस्कृताभियानम्
प्रा. डा. सि. जि. विजयकुमारः, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।

  नमांसि, व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति। तद्यथा - शवतिर्गतिकर्मा काम्बोजेष्वेव भषितो भवति, विकार एनामार्या भाषन्ते शव इति। हम्मति: सुराष्ट्रेषु, रंहति: प्राच्यमध्येषु, गमिमेव तु आर्या: प्रयुञ्जते।  दातिर्लवनार्थे प्राच्येषु, दात्रम् उदीच्येषु।' गच्छति' इति वक्तुं कम्बोजा: 'शवति' इति वदन्ति स्म सौराष्ट्रा:' हम्मति' इति प्राच्यमध्या: ' रंहति' इति च प्रयोगं कुर्वन्ति स्म। केवलं भाषितभाषासु पर्यायशब्दा: तत्तत्प्रदेशे रूढा: भवन्ति, न तु ग्रान्थिकभाषायाम्। किञ्च ' काम्बोजेष्वेव भाषितो भवति' इति वाक्ये पतञ्जलि: 'भाषितो भवति' इति प्रयुक्तवान् (भाष् - व्यक्तायां वाचि) न तु पठितो भवति, लिखितो भवतीति वा। मित्राणि, एतस्मात् वयम् अवगन्तुं शक्नुम: यत् संस्कृतं बहुत्र व्यवहारभाषा आसीत् इति। 

संभाषणचित्रं- अभिनव पिल्लै - सेन्ट् मेरीस् यू पि विद्यालयः - कोच्ची।
    भाषितभाषासु एव दृश्यमाना: केचन शब्दा: सन्ति। अद्य तान् शब्दान्  पश्याम:। लूनयवम्-केदारे कर्तनसमय: , खलेयवम्- यस्मिन् काले खले धान्यं भवति स: काल:। खलेबुसम्- खलत: धान्यनयनानन्तरं खले यदा बुसं भवति स: काल:। वहद्गु- कर्षणकाल:(वहन्ति हलं गाव:-बलीवर्दा: यस्मिन् काले स:) तिष्ठद्गु-दुग्धदोहनकाल:(तिष्ठन्ति गाव: दोहनार्थं यस्मिन् काले स:) इत्येवम् एते शब्दा: सामान्यानां जनानां तत्रापि कृषीवलानां परस्परं व्यवहाराय सीमिता:, कृषीवलसंवादमात्रगोचरा: च सन्ति। आयान्ति गावो गृहं यस्मिन् काले स आयती गवं कालविशेष:। अपण्डितेषु एते विलक्षणा: शब्दा: ये प्रसिद्धा: आसन् ते पश्चात् रूढिवशात् शिष्टैरपि परिगृहीता: अभवन्। मित्राणि, एष: विषय: श्व: अनुवर्तेत।