OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 11, 2019

भारते निर्वाचनकाहलम् उद्घुष्टम्। 

* सप्त सोपानानि  ** प्रारम्भः एप्रिल् ११ * अन्तिमसोपानं मई १९ ** मतगणना मई २३!
नवदिल्ली  >  भारते जनहितमहायुद्धाय काहलम् उद्घुष्टम्! १७ तमलोकसभानिर्वाचनस्य दिनाङ्काः भारतनिर्वाचनायोगेन प्रख्यापिताः। सप्तसोपानयुक्तं निर्वाचनं एप्रिल् ११, १८, २३, २९ , मई ६, १२, १९दिनाङ्केषु सम्पत्स्यते। मतगणना मई २३ दिनाङ्के भविष्यति।
  आन्ध्रप्रदेशः, ओडीषा, अरुणाचलप्रदेशः, सिक्किम् इत्येतेषु राज्येष्वपि विधानसभानिर्वाचनानि लोकसभानिर्वाचनेन सह प्रचालयिष्यन्ति। ३४ विधानसभामण्डलेषु उपनिर्वाचनान्यपि प्रचालयिष्यन्ति। किन्तु जम्मूकाश्मीरस्य विधानसभानिर्वाचनं अधुना न प्रचालयिष्यति। सुरक्षाविषय एव हेतुः।