OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 7, 2019

श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे समायोजिता  एकदिवसीया राष्ट्रिया सङ्गोष्ठी
      नवदेहली> श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य आधुनिकविद्यासंकायेन मार्चमासस्य षष्ठे दिने परम्परागत-संस्थानानां परिप्रेक्ष्ये आधुनिकविषयाणामध्ययनाध्यापनसमाह्वानानि विषयमधिकृत्य एकदिवसीया राष्ट्रिया सङ्गोष्ठी समायोजिता। अस्यां सङ्गोष्ठ्यां विद्यापीठस्य कुलपति: प्रो.रमेशकुमारपाण्डेय: औद्घाटनिकसत्रस्य आध्यक्ष्यं निरवहत्। स्वीयोद्बोधने कुलपतिमहोेदयेन विद्यापीठे आधुनिकविद्यासंकायस्य स्थापनाया: उद्देश्यानि वर्तमानसमये पारम्परिकशास्त्राध्ययनस्य च वैशिष्ट्यम् उपस्थापितम्। मुख्यातिथित्वेन समागत: इन्दिरागान्धिराष्ट्रियमुक्तविश्वविद्यालयस्य पूर्वाचार्य: प्रो. वी.आर.जगन्नाथन: विशेषवक्तव्यं प्रास्तौत्। कार्यक्रमस्य सञ्चालनं विद्यापीठस्य मानविकीविभागाध्यक्षा आचार्या प्रो.सविता कृतवती। सङ्गोष्ठ्यां द्वितीये सत्रे प्रो.वी.आर.जगन्नाथन: भाषाध्ययनस्य महत्त्वं विशदेन उपस्थापयत्। श्रीमत्या मीनूकश्यपेन धन्यवादज्ञापनं कृतम्। सङ्गोष्ठ्यां तृतीये सत्रे इन्दिरागान्धिराष्ट्रियमुक्तविश्वविद्यालयस्य पूर्वाचार्येण प्रो. अमियाभूषणशर्मणा साम्प्रतिके काले भारतीयपरिदृश्ये आङ्गलसाहित्यस्याध्ययनाध्यापनविषये निजवक्तव्यं सम्प्रस्तुतम्। डॉ. अभिषेणतिवारिणा च सत्रस्यास्य साफल्येनसञ्चालनं कृतम्।