OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 10, 2019

नीरव् मोदिनः ब्रिट्टने आडम्बरजीवनं वज्रव्यापारश्च। 

नीरवमोदी पूर्वम् 
लण्टन् >  भारते पञ्चाब् नेषणल् वित्तकोशात् १३,५०० कोटिरूप्यकाणि ऋणव्याजेन अपहृत्य देशान्तरं गतः वज्रव्यापारी नीरव् मोदी ब्रिट्टन् देशे  आडम्बरपूर्णं सुखजीवनं नयतीति ब्रिट्टीष् दिनपत्रिकया 'डेय्ली टेलिग्राफ्' इत्यनया प्रस्तुतम्। पश्चिमलण्टन्नगरे अशीति लक्षं पौण्ट् [प्रायः ७३कोटि रूप्यकाणि] मूल्यपरिमिते भवने एव तस्य वासः। समीपे एव तस्य वज्रव्यापारशाला अपि वर्तते। 

नीरवमोदी अद्य 

नीरव् मोदिना आरब्धस्य वज्रव्यापारस्य सूचनाः ब्रिट्टीष् सर्वकारस्य 'कम्पनी कार्यालये' पञ्जीकृताः सन्ति। घटिकानामाभरणानां च स्तूपविक्रयः इत्येव सूचितम्। किन्तु व्यापारसंस्थायाः निदेशकपट्टिकायां नीरवस्य नाम न दृश्यते। 
   नीरवस्य महाराष्ट्रे खिं समुद्रतीरस्थं ३०,००० चतुरश्रपादपरिमितं सौधं स्फोटकवस्तुभिः गतदिने सर्वकारेण भञ्जितम्। तं निगृहीतुं इन्टर्पोल् संस्थया निर्देश अपि कृतः अस्ति।