OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 4, 2020

आगम्यताम् ! वयं संस्कृतमातृभाषिणः भवेम!
-लेखः -
भारतवर्षे संस्कृतविद्यालयानाम् अकादमीनां पाठशालानां वेदगुरुकुलानाञ्च पर्याप्ता संख्या वर्तते।  यद्यपि एतेषु नैकेषु संस्कृतसंस्थानेषु कोटिसंख्यकाः विद्यार्थिनः शिक्षकाश्च अध्ययनाध्यापनेन संबद्धाः  सन्ति तथापि 2011 तमे वर्षे सम्पन्नायाः  जनगणनायाः अनुसारेण प्रायः सार्धचतुर्दश-सहस्रपरिमिताः जनाः एव संस्कृतं मातृभाषारूपेण स्वीकुर्वन्तीति महद्दुःखम्। भवन्तः सम्यक् जानन्त्येव यत् काञ्चिद् भाषां मातृभाषारूपेण अङ्गीकुर्वाणानां जनानां संख्या दशसहस्रात् न्यूना भवति चेत् सर्वकारस्य अवधानं स्वतः एव तस्याः भाषायाः अपगच्छति। तत्र कारणमेकमेव यत् यस्याः भाषायाः क्रियायाः वा समर्थिनः अभिलाषुकाः च यावन्तः अधिकाः भवन्ति सर्वकारस्य प्रयत्नाः तावन्तः एव तस्यां दिशि वर्तन्ते। तथा च तदनुगुणमेव  सर्वकारः वित्तीय-प्रावधानान्यपि करोति। 
वर्तमानकालिकी परिस्थितिः संस्कृतस्य सर्वेभ्यः विद्यार्थिभ्यः महत्संकटमुत्पादयितुं समर्थास्ति। अधुना यदि वयं संस्कृतं नहि संरक्षामः तर्हि निश्चयेन विलम्बः भविष्यति। यतोहि संस्कृतस्य ह्रासः संस्कृताध्येतृणाम् औदासीन्यस्येव परिणामः। अतः वयं एतस्य ह्रासस्य इतोऽपि सहयोगिनः न भवेम। तथा च 2021 तमस्य आगामिन्यै जनगणनायै सर्वे संस्कृताध्येतारः अध्यापकाः संस्कृतानुरागिणः च निवेद्यन्ते यद् भवन्तः सर्वे अस्यां जनगणनायां संस्कृतभाषां मातृभाषारूपेण उद्घोषयेयुः। येन 2021 तमस्य वर्षस्य जनगनणायां संस्कृतभाषिणां संख्या सार्धचतुर्दशसहस्रात् वर्धित्वा चतुर्दशकोटिं यावद् गच्छेत्। 
आगम्यताम् एनम् अभियानं वयम् अग्रे सारयाम सर्वान् च एतदर्थं प्रेरयाम इति।
- आचार्य रामकृष्ण शास्त्री
-डा. भारती शर्मा