OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 22, 2020

भारतमहासमुद्रे भारतामेरिक्कयोः संयुक्तसेनाभ्यासः। 
कोच्ची > भारतीयमहासमुद्रे भारतस्य अमेरिक्कायाश्च नाविकबले युगपत् सेनाभ्यासमकुरुताम्।चतस्रः नाविकमहानौकाः एकेकस्मै राष्ट्राय भागभागित्वं कृतवत्यः। 
 भारत-चीनसंघर्षस्य भूमिकायाम् अस्याभ्यासस्य सविशेषं प्राधान्यमर्हति। 'पासेक्स्' नामकमेते अभ्यासप्रक्रमाः विधिमनुसृत्य प्रचाल्यमानाः इति नाविकसेनाधिकृतैः सूचितम्। भारतस्य मित्रराष्ट्रेण सह  सन्दर्शने एतादृशाः अभ्यासप्रक्रमाः परस्परसहयोगस्य सौहृदस्य च संवर्धकत्वेन वर्तन्ते।