OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 26, 2020

'कोवाक्सिन्' - मानवेषु परीक्षणं समारब्धम्। 
नवदिल्ली >  कोविड् १९ रोगस्य प्रतिरोधौषधरूपेण भारते विकासितं कोवाक्सिन् नामकस्य प्रत्यौषधस्य मानवेषु प्रथमसोपानं परीक्षणं दिल्लीस्थे 'एयिंस्' आतुरालये समारब्धम्। दिल्ली प्रदेशीये ३०वयस्के युवके आसीत् प्रत्यौषधस्य अन्तःक्षेपणं कृतम्। ऐ सि एम् आर् संस्थायाः सहयोगेन हैदरीबाद् आस्थतानत्वेन वर्तमानया भारत् बयोटेक् नामिकया संस्थया एव प्रत्यौषधमेतत् विकासितम्। 
  अन्तःक्षेपिते युवके एतावत् पार्श्वफलानि कान्यपि न दृष्टानीति परीक्षणाय नेतृत्वं कुर्वता डो. सञ्जय् राय् इत्यनेन निगदितम्। आगामिसप्ताहं तावत् युवकमेनं निरीक्षणविधेयं करिष्यति। शनिवासरे कतिपयेष्वपि प्रत्यौषधम् अन्तःक्षेप्स्यति।