OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 26, 2020

केरले कर्णाटके च ऐ एस् भीकराणां सजीवसान्निध्यमस्तीति यू एन् दृढीकरणम्। 
जनीव > केरल-कर्णाटक राज्यद्वये अपि इस्लामिक् स्टेट् नामकस्य [ऐ एस्] आतङ्कवादसंघटनस्य प्रभावः अस्तीति संयुक्तराष्ट्रसंघटनेन स्थिरीकृतम्। ऐ एस्  , अल्-खयिदा इत्येताभ्यां संघटनाभ्यां सह संबन्धिताः पुरुषाः संस्थाः इत्यादिकमधिकृत्य आवेदने एवायं परामर्शः। 
  भारतीयगुप्तान्वेषणसंस्थाभिः तथा एन् ऐ ए संस्थया च अयं विषयः पूर्वमेव दृढीकृत अपि यू एन् संस्थायाः दृढीकरणं प्रथममेव। 
 पूर्वोक्तसंस्थायाः प्रादेशिकशाखाः आलक्ष्य दक्षिणेष्यन् राष्ट्रेषु आक्रमणाभियोजनाः संकल्प्यन्ते इति आवेदनपत्रे सूचितम्। १८० - २०० अङ्गाः प्रादेशिकसङ्घे वर्तन्ते इत्यपि सूचितम्।