OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 21, 2020

कोरोणा प्रतिरोधौषधं - द्वितीयसोपानं परीक्षणं विजयीभूतम्। 
लण्टन् > कोविड् १९ महामारिं विरुध्य शास्त्रलोकस्य युद्धः विजयपथं प्राप्नोति। ब्रिट्टने चीने च परीक्षणे वर्तमानं प्रतिरोधौषधद्वयं फलप्रदमिति निर्णीतम्। मानवेषु परीक्षणं कृतमेतदौषधद्वयं च सुरक्षाप्रदं मनुष्यस्य प्रतिरोधव्यवस्थायां श्रेष्ठप्रतिकरणदायकं चेति 'लान्सेट्' नामकेण समाचारपत्रेण गतदिने प्रसिद्धीकृते लेखने सूचितमस्ति। 
  लण्टनस्थेन ओक्स् फोर्ड् विश्वविद्यालयेन 'आस्ट्र नेका' नामिका औषधनिर्माणशालया च युगपत्कृतेन परीक्षणेन विकासितस्य  प्रतिरोधौषधस्य 'Beijing Institute of Biotechnology' नामिकया संस्थया विकसितस्य प्रतिरोधौषधस्य द्वितीयसोपानपरीक्षणस्य फलमेव बहिरागतम्। 
  ब्रिट्टनस्थेषु १०७७ जनेषु ओक्स् फोर्डौषधं परीक्षितम्। 'बीजिङौषधं' तु ५०० चीनीयेषु च परीक्षितमासीत्। एतेषां शरीरेषु कोविड्रोगं सम्प्रसार्यमाणं 'सार्स् कोवि. २' विषाणुप्रतिरोधकः प्रत्यणुः [Antibody] टि- कोशाः च  प्रभूताः इति प्रबन्धे निरूप्यते। 
  फलं महतीं प्रतीक्षां वितरति तर्ह्यपि विषाणुप्रतिरोधाय एतत्पर्याप्तमिति अवाच्यं वर्तते।