OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 24, 2020

आविश्वं कोविड्रोगबाधिताः सार्धैककोटिमतीताः।

मरणानि ६लक्षाधिकानि। 
वाषिङ्टण् >  विश्वस्मिन् अद्यावधि १.५४कोटि जनेभ्यः कोविड्रोगबाधा स्थिरीकृता। षट्लक्षाधिकाः जनाः कालवशं प्राप्ताः। विरुजस्तु ९४ लक्षमभवन्। 
  मेक्सिक्को, रूस्, यू एस्, ब्रसील् ,इरान् , सौदी , बङ्ग्लादेशः, इन्डोनेषिया, फिलिप्पीन्स्, ओमान्, रुमानिया, बोलीविया इत्येतेषु लोकराष्ट्रेषु गतदिनेषु कोविड्प्रकोपः वर्धितरीत्या वर्तते। 
  यू एस् राष्ट्रे रोगबाधिताः ४१.२३लक्षमतीताः, १.४६लक्षं  जनाः मृत्युमुपगताश्च। ब्रसीले २२.४३लक्षं जनाः कोविड्बाधिताः अभवन्। मृत्युं प्राप्तास्तु ८३,०३६। ब्रिट्टने रोगबाधितानां मृत्युवशंप्राप्तानां च संख्या यथाक्रमं २.९७लक्षं , ४५.५सहस्रं च।