OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 31, 2020

वन्दे भारतम् - ८ लक्षाधिकाः प्रवासिनः प्रत्यागताः।

वन्दे भारतम् - ८ लक्षाधिकाः प्रवासिनः प्रत्यागताः। 
नवदिल्ली >  'वन्दे भारत'मित्यभियोजनायाः अंशतया अद्यावधि अष्टलक्षाधिकाः प्रवासिजनाः स्वदेशं प्रत्यागता इति विदेशकार्यमन्त्रालयेण निगदितम्। १.०७ लक्षं जनाः नेप्पालं , भूट्टानं , पाकिस्थानम् इत्यादिभ्यः प्रातिवेशिकराष्ट्रेभ्यः भूतलमार्गेण भारतं प्राप्तवन्तः सन्ति। 
  अभियोजनायाः पञ्चमं सोपानं शनिवासरे आरभ्यते। २३ राष्ट्रेभ्यः ७९२ विमानानि सेवां करिष्यन्ति। अमेरिक्का ,कानडा, यू के, जर्मनी , फ्रान्स्, आस्ट्रेलिया, न्यूसीलान्ट्, मलेष्या, फिलिप्पीन्स्, सिंहपुरं, बङ्लागेश्, म्यान्मर् , ताय्लान्ट, चीनः, इस्रायेल्, युक्रेन्, किर्गिस्थानम् इत्येतानि राष्ट्राणि अधिवसन्तः भारतीयाः स्वदेशं नेष्यन्ते। आहत्य १,३०,००० जनाः भारतं प्राप्स्यन्तीति प्रतीक्षते।