OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 24, 2020

सैबीरिय देशे महती अग्निबाधा। इतःपर्यन्तं सैबीरिय-भूप्रदेशात्  बृहत्तमाः वनप्रदेशाः अग्निना दग्धाः। 
   मोस्को> सैबीरिय देशे महती अग्निबाधा व्याप्यते। अस्मिन् संवत्सरे  जातया अग्निबाधया सैबीरिय-भूप्रदेशात्  बृहत्तमाः वनप्रदेशाः  दग्धाः। ग्रीन् पीस् रष्य  इति सङ्घटनेन इदम् आवेदितम्। वनाग्निः नियन्त्रणाधीनं कार्यम्। नो चेत् वनाग्निः नगरेषु अपि व्याप्येत। पर्यावरण-व्यवस्थायाः क्षतिः च भविष्यति इति ग्रीन् पीस् रष्य इति सङ्घटनेन पूर्वसूचना प्रदत्ता। वारं वारं  जायमानेन वनाग्निना १.९ कोटि हेक्टर् मितः वनप्रदेशाः अग्निना दग्धाः इति   ग्रीन् पीस् रष्य इति सङ्घटनेन उच्यते। उपग्रहचित्रान् प्रमाणीकृत्य भवति ग्रीन् पीस् इत्यस्य इदं विवरणम् ।