OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 26, 2021

 बालभारती पब्लिक् स्कूल्  द्वारा संस्कृतभाषासंवर्धनपरा अन्तर्जालीया  सङ्गोष्ठी समनुष्ठिता।

नवदिल्ल्या:  गंगाराम-चिकित्सालय-मार्गस्थितेन बालभारती पब्लिक स्कूल इत्याख्यस्य प्रशासनेतर विद्यालयस्य संस्कृतविभाग द्वारा दिसम्बर पञ्चविंश्यां छात्रान्  संस्कृताध्ययनम्  प्रति प्रेरणार्थं   मार्गदर्शनपर: अन्तर्जालीय: व्याख्यानकार्यक्रम:  भव्यतया समायोजित:। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल. वी. सहगलवर्यस्य नेतृत्वे, उपप्रधानाचार्याया: श्रीमत्या: मीनामल्होत्रायाश्च प्रेरणया छात्रेभ्य:  अभिभावकेभ्यश्च समायोजित:।  कार्यक्रमस्य प्रारम्भ: संगीतविषयस्य अध्यापकेन श्री सुमनझामहोदयेन  प्रस्तुत मंगलाचरणेन विहितः। विद्यालयस्य माध्यमिकविभागस्य मुख्याध्यापिका पूनम सौंधी वर्या  अभ्यागतानाम् अतिथिजनानां  वाचिकं स्वागतं  सत्कारं च कृतवती।


अस्मिन् अन्तर्जालीय-व्याख्या
न-कार्यक्रमे मुख्य-वक्तृरूपेण  समागतेन प्रसिद्धयुवामनीषिणा, लोकप्रिय-प्रेरकवक्त्रा,  प्राच्यविद्यानुसन्धात्रा, संस्कृतचलचित्रस्य शाकुन्तलम्  इत्यस्य निर्मात्रा निर्देशकेन  दुष्यन्तश्रीधरेण  विद्यालयस्तरे  छात्राणां मासेषु संस्कृतभाषाया:  संवर्धनं  कथं भवेत् इति विषये सार्गर्भितं व्याख्यानं प्रदत्तम्, अमुना  छात्रा: संस्कृतविषयं  पठितुम् अपि प्रेरिता:।  असौ प्रवोचत् यत्  संस्कृतभाषा सर्वासां इण्डोयूरोपीय-भाषाणां  जननी वर्तते। सहैव एषा भाषा अतिशय सरला भाषा अस्ति। संस्कृतस्य अधिकांश-शब्दा:  अस्माभि:  दैनन्दिनजीवने प्रयुज्यन्ते। यदि एषा भाषा अस्माकं व्यवहारभाषा भवति चेत् तन्निभा कठिना नैव प्रतीता भविष्यति । प्राय: सर्वासु भाषासु  संस्कृतमूलका: प्रचुरा:  शब्दा: सन्ति विद्यमाना:। कार्यक्रमे  द्वितीय-मुख्य-वक्तृरूपेण  उपस्थित: आसीत् हरियाणाया: ऋषिहुड विश्वविद्यालयस्य राष्ट्रम् स्कूल ऑफ लीडरशिप  इत्यस्य आचार्य: प्रोफेसर श्रीसम्पदानन्दमिश्रमहोदय:। प्रोफेसर सम्पदानन्द महोदयेन  संस्कृतसंवर्धनविषये छात्राणां दृशा मनोरमशैल्या गम्भीरतया च व्याख्यानं दत्तम्। अमुना भणितं यद् इतरभाषाध्येतारो जना: केवलम्  तद् विषयमेव पठन्ति, तत्रैव संस्कृत-भाषाया: अध्येतार:  सर्वान् विषयान् पठन्ति। संस्कृतमेव तादृशः एक: विषय: अस्ति,  यस्मिन् योग-आयुर्वेद-नाट्य-वेदान्त- व्याकरण-साहित्य-खगोल-

भूगोलश्चेत्यादिविषया: पारेसहस्रं वर्षेभ्यः भारते पापठ्यते। असौ न्यगादीत् यत्  संस्कृतस्य अध्येता  जीवनकलाभि: अवगतो भवति, येन स: न कदापि अवसादग्रस्तो जायते अपि तु सर्वदा आनन्दित: तिष्ठति।  सम्प्रति तु संगणकम् अपि संस्कृतेन संयोजितम् अस्ति। अस्मिन् प्रसङ्गे अमुना देश-विदेशेषु संस्कृताध्यायनरता: निजशिष्याश्चापि  उल्लेखिता: ये खलु संस्कृतभाषायाः प्रचार-प्रसार-कर्मसु  संलग्ना: सन्ति। तृतीयवक्तृ-रूपेण दूरदर्शनाकाशवाण्यो: पत्रकार:,  स्वस्तिवाचन-संस्थायाश्च महासचिव: श्रीसुनीलजोशीमहोदय: उपातिष्ठत। अमुना छात्रप्रेरणापरकस्य अस्य   मार्गदर्शन-व्याख्यान-कार्यक्रमस्य भूरि भूरि  प्रशंसा विहिता। सहैव विद्यालयस्य प्रधानाचार्यस्य  श्री एल. वी. सहगलस्य  विषये  प्रोक्तं यत्  संस्कृतस्य समुन्नयने शिक्षासंवर्धने  छात्रप्रेरणाक्षेत्रे अद्वितीयकार्य करणार्थम्  सहगलमहाभाग: पद्मश्रीसम्मानयोग्य: अस्ति। युगपदेव  असौ बालकान्  विभिन्न-उदाहरणानां माध्यमेन संस्कृतपठनार्थं  प्रेरिता: । जोशीवर्येण कार्यक्रमस्य आयोजकानाम्, अधिकारिणां शिक्षकानां चापि श्लाघावचोभिः उत्साहवर्धनं कृतम् 

कार्यक्रमस्य सफलसञ्चालनम्  अतिथिपरिचयप्रदानं च  श्रीमती ज्योत्स्ना श्रीवास्तवमहोदया कृतवती । कार्यक्रमस्य समग्रा  व्यवस्था,   धन्यवादज्ञापनं च प्रतिष्ठितसाहित्याकादेम्या युवपुरस्कारेण पुरस्कृतेन  विद्यालयस्य  वरिष्ठविभागस्य संस्कृतशिक्षकेण श्रीयुवराजभट्टराई महोदयेन  कृतम्। अस्य कार्यक्रमस्य आयोजने संस्कृतशिक्षकस्य वीरेन्द्रकुमारस्य चापि    सहयोग: अवर्तत। प्राविधिक-सहयोगे विद्यालयस्य  संगणकशिक्षिका भावनागर्ग वर्या विशेषयोगदानं दत्तवती।  अस्मिन्  अन्तर्जलीयायां संस्कृतसंगोष्ठ्याम्  पञ्चमीकक्षात: दशमीकक्षापर्यन्तम् त्रि शताधिकाः  छात्रा:, शिक्षका:, अभिभावका:,   विद्यालयीया: शिक्षकाश्च उपस्थिता: अवर्तन्त। छात्रदृशा  व्याख्यानकार्यक्रमस्य मुख्या: चर्चाविन्दव: निम्नलिखिता: आसन्। 

आधुनिकपरिवेशे संस्कृतम्। 

चलच्चित्रनाट्येषु संस्कृतम्। 

छात्रा: संस्कृतविषयं किमर्थं स्वीकुर्युः ? 

जीवने संस्कृतस्य आवश्यकता। 

जीवनं सुसंस्कृतं कर्तुं  संस्कृतस्य भूमिका। 

परीक्षायाम्  अङ्कवर्धने सहायकं संस्कृतम्।

अन्ताराष्ट्रियस्तरे संस्कृतम्। 

प्राविधिकक्षेत्रे संस्कृतम्।

नूतनशिक्षानीतौ संस्कृतम्। 

 सर्वकारीयवृत्तौ  हिन्द्या:  अनिवार्यताविषयिण्या: भ्रांतधारणाया: निराकरणम्।

अन्यविषयाणाम् अपेक्षया संस्कृतमेव किमर्थम्?