OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 30, 2021

 केरले अद्य आरभ्य निशाकालनियन्त्रणम्।

अनन्तपुरी> ओमिक्रोणबाधां पुरस्कृत्य केरले अद्य आरभ्य जनवरि २ पर्यन्तं निशाकालनियन्त्रणं विधत्तम्। रात्रौ १० वादनतः उषसि ५ वादनपर्यन्तं यात्रानिरोधनं, संघीकरणं, धार्मिक-राजनैतिक-सांस्कृतिक कार्क्रमाः इत्यादीनां निरोधः च विहितः। किन्तु शबरिगिरि-शिवगिरितीर्थाटनयोः अनन्तर्भावित्वं च  विहितमस्ति।

   नववत्सरोत्सवाः रात्रौ १० वादनात्पूर्वं समाप्तव्याः। रात्रिकालसञ्चारः अवश्यः चेत् प्रमाणपत्रं प्रदर्शनीयम्। केरले ओमिक्रोणबाधिताः आहत्य ६५ जाताः। व्यापननिरोधाय यावच्छक्यं जागरुकताप्रक्रमाः स्वीकृताः इति स्वास्थ्यमन्त्रालयेन निगदितम्।