OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 27, 2023

 शास्त्रतत्त्वानाम् आविर्भावः वेदात् एव भवति। पश्चात् तानि विदेशीयानाम् आविष्कारः अभवत् इति ऐ एस् आर् ओ अध्यक्षः।

-रमा टि के

    भोपाल्> शास्त्रतत्त्वानाम् आविर्भावः वेदात् भवति इति ऐ एस् आर् ओ संस्थायाः अध्यक्षेण श्री सोमनाथेन उक्तम्। बीजगणितं, वर्गमूलं, होरासिद्धान्तः, वास्तुशास्त्त्रं, प्रपञ्च रूपं, विविधधातून्यधिकृत्य अध्ययनं, व्योमयानं इत्यादि विषयाण्यधिकृत्य अध्ययनानि तत्त्वानि च प्रथमं वेदेभ्यः एव सन्दृष्टानि। आरबराष्ट्रात् यूरोप्पेषु व्याप्तानि भारतीयतत्त्वानि पश्चात् विदेशीयवैज्ञानिकानां योगदानरूपेण परिवर्तितानि अभवन् इति तेन निगदितम्। उज्जयिन्यां महर्षि पाणिनि -संस्कृत - वैदिक - विश्वविद्यालये बिरुददानकार्यक्रमे भाषमाणः आसीत् एषः महाभागः। 

  भारतीयवैज्ञानिकैः तदानीन्तनकाले उपयुक्ता भाषा संस्कृतभाषा आसीत्। गुरुमुखात् श्रुत्वा कण्ठस्थीकरणम् इत्येवं प्रकारेणैव ज्ञानविनिमयः प्रचलितः। तत्पश्चात् देवनागरीलिपिम् उपयोक्तुमारभत। पाणिनिमहर्षिणा व्याकरणनियमानि च व्यरचयत्। वैज्ञानिकाः अभियन्तारः च इदानीं संस्कृतस्य प्राधान्यं प्रत्यभिज्ञातवन्तः। संगणकाय अत्यन्तम् अनुयोज्या भाषा संस्कृतं भवति। भाषायाः अस्याः सम्भावनामधिकृत्य अधिकानि अध्ययनानि अपि प्रचलितानि सन्ति इति सः अवदत् ।

  ज्योतिशास्त्रं, वैद्यशास्त्रं, भौतिकशास्त्रं, रसतन्त्रं, व्योमयानशास्त्रम् इत्यादिषु विषयेषु नूतनाविष्काराः प्रथमतया संस्कृतभाषायामेव रचिताः। ते अद्यापि पूर्णतया न बहिरागताः। अष्टमशतकेषु आविष्कृतानि ज्योतिश्शास्त्रसम्बन्धीनि विज्ञानानि आधारीकृत्य प्रकाशितः सूर्यसिद्धान्तः नाम ग्रन्थः अग्निबाणवैज्ञानिकं तं हठादाकर्षत् इति सोमनाथवर्येण निगदितम्।