OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 5, 2023

 महर्षिपाणिनिसंस्कृत-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं सुसम्पन्नम्। 

          -डॉ.दिनेश चौबे 

उज्जयिनीस्थ-महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं  मेय् मासस्य द्वितीये दिनाङ्के पूर्वाह्ने ११:०० वादनतः अभवत्।  सभायाः अध्यक्षता माननीयकुलपतिः आचार्यः विजयकुमारः सी जी वर्येण अकरोत्।  सभायाः आरम्भे सर्वैः कार्यपरिषद् सदस्यैः उच्चशिक्षामन्त्रि: डॉ. मोहनयादवस्य आभारम् अभिनन्दनं च कृत्वा शुभकामनाः प्रदत्ता: यत् तस्यैव अथकपरिश्रमस्य भागीरथप्रयासस्य च कारणेन विश्वविद्यालयस्य वार्षिकं अनुरक्षण अनुदानधनं २.२७ कोटि रूप्यकै: वर्धित्त्वा ५ कोटिरूप्यकाणि यावज्जातम्। एतेन सह माननीय-मन्त्रिमहोदयस्य प्रयत्नात् निर्माणानुदानधनमपि प्राप्तुं सम्भावना वर्तते।

     दीक्षांतसमारोहस्य अनुमोदनं कार्यपरिषदि अभवत्। दीक्षांतसमारोहः मेय् मासस्य अन्तिमसप्ताहे भविष्यति।

        विश्वविद्यालये कार्यं कुर्वतां    योग्यानां दैनिकवेतनभुक्कर्मचारिणां कृते स्थायीश्रमिकयोजनायाः लाभं प्रदातुं निर्णयः कृतः तथा च तेषां प्रकरणानां निवारणाय नियमितीकरणाय च सक्षमः प्राधिकारि: मन्त्रालयं, भोपालं गत्वा उच्चस्तरात् प्रकरणानां समाधानं करिष्यति।

    विश्वविद्यालयशिक्षणविभागानां संस्कृतस्य पुराणेतिहासस्य च सहायकप्राध्यापकस्य अनुसूचितजनजातिवर्गे चयनप्रक्रियायाः परिणामान् अपि कार्यपरिषद् अनुमोदितवती अस्ति। कार्यपरिषदि  राज्यपालमहोदयेन  नामांकिता: सदस्या:  श्रीराजेन्द्रझालानी, 

श्रीसुशीलवाडिया, डॉ. केसरसिंह चौहान, डॉ. किरणशर्मा, डॉ. विद्या जोशी, अपरनिदेशक: उच्चशिक्षा विभाग:, डॉ. अर्पणभारद्वाज: एवञ्च  विश्वविद्यालयस्य प्राध्यापका: डॉ. उपेन्द्रभार्गवमहोदय: डॉ. संकल्पमिश्रमहोदय:  उपस्थिता: आसन् सभायां कुलसचिव: डॉ. दिलीपसोनीमहोदय:, वित्तनियंत्रकः श्रीदिनेशचौरसियामहोदय: विशेषामन्त्रितसदस्यरूपेण उपस्थित: आसीत्।