OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 22, 2023

पाणिनिसंस्कृतविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोह:

इसरो अध्यक्ष: श्रीधरसोमनाथ: दीक्षन्तभाषणं प्रदास्यति।

(डॉ. दिनेश चौबे)

 उज्जयिनीस्थ महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेय् मासस्य चतुर्विंशतितमे दिनाङ्के समायोजिष्यते। दीक्षान्तसमारोहे प्रथमतया भारतीयान्तरिक्षानुसंधान-सङ्घ्ठनम् (इसरो) इत्यस्य प्रमुख: श्रीमंतः श्रीधरसोमनाथमहोदय: दीक्षान्तभाषणं करिष्यति। विश्वविद्यालयस्य  माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य  आध्यक्षत्वे कार्यक्रमोऽयं  भविष्यति।  समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य  उच्चशिक्षामन्त्री डॉ. मोहन यादवमहोदय:, सारस्वतातिथिरूपेण  इसरो अध्यक्षः  श्रीधरसोमनाथवर्य:  एवञ्च उज्जयिनी- सांसद:  अनिलफिरोजियामहोदय:, उत्तरक्षेत्रस्य विधायक: पारसचन्द्रजैनमहोदय:, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः, विश्वविद्यालयस्य  कुलसचिवः डॉ. दिलीपसोनीमहोदयाः च उपस्थिताः भविष्यन्ति। मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: मङ्गुभाईपटेलमहोदय: विद्यावारिधिच्छात्रान् पदकधारि छात्राञ्च शुभकामनाः प्रेषितवान्।

पाणिनिसंस्कृत-विश्वविद्यालयेन विंशतिमहाविद्यालयाः सम्बद्धाः सन्ति। तेषु ९ शासकीयाः, ११ अशासकीयाः सन्ति। २०२१-२२ तमेसत्रे स्नातकस्नातकोत्तर पत्रोपाधिपरीक्षासु उत्तीर्णाः १३९७ छात्राः उपाधिं प्राप्तुम् अर्हा:। प्रावीण्यसूच्यां प्रथमद्वितीयतृतीयस्थानप्राप्तछात्राः स्वर्ण-रजत-कांस्यपदकैः सम्मानितो  भविष्यन्ति। एवञ्च  विद्यावारिधिच्छात्राः अतिथिनां  करकमलाभ्याम् उपाधिं प्राप्स्यन्ति।