OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 12, 2021

 तृतीयतरङ्गः झटित्येव भविष्यति। नियन्त्रणेषु अवधानता भवतु। विनोदयात्रागमनं तीर्थाटनं च इदानीं मास्तु -भारतीयभैषज्यदलस्य पूर्वसूचना।

   नवदिल्ली> राष्ट्रम् कोविडस्य तृतीयतरङ्गम् अभिमुखीकर्तुं सज्जमाने अस्मिन् सन्दर्भे केन्द्र-राज्यसर्वकाराः कोविडस्य प्रतिरोधप्रवर्तनेषु अनवधानता न करणीया इति भारतीयभैषज्यदलेन (IMA) निर्दैशो दत्तः। रोगव्यापनस्य निर्णायकसन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र अधिकारिणः नागरिकाः च कोविडस्य प्रतिरोधनियमपालनविषये प्रदर्शितेषु अनवधानतासु भारतीयभैषज्यदलेन आशङ्का प्रकाशिता। आगोलतलेषु लभ्यमानानि प्रमाणानि तथा पूर्वकालचरितं च आलोकयति चेत् यस्याः कस्याः अपि वा भवतु महामार्याः  तृतीयतरङ्गः सुनिश्चितः भवति। राष्ट्रस्य विविधभागेषु सर्वकाराः नागरिकाः च कोविडस्य प्रतिरोधनियमान् लङ्घयित्वा परस्परमेलनं कुर्वन्ति। तत् आपत्करं भवति इति भारतीयभैषज्यदलेन पूर्वसूचना दत्ता।