OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 11, 2021

 अफ्गान् देशे तालिबानस्य अधिनिवेशः। भारतेन ५० नयतन्त्रकार्यकर्तारः प्रत्यानीताः।

   नवदिल्ली> अफ्गानिस्थाने काण्डहारे दूतावासतः ५० भारतीय-नयतन्त्रज्ञाः सुरक्षाकार्यकर्तारः च प्रत्यानीताः। व्योमसेनायाः विमानेषु एव ते प्रत्यानीताः॥ काण्डहारदेशं परितो विद्यमानाः प्रदेशाः च तालिबानेन स्वायत्तीकृतस्य पश्चात् एव भारतस्य प्रक्रमः। काबूलदेशस्थं नयतन्त्रकार्यालयं तथा काण्डहारं, सोल् ई षेरीफ् इत्यादि देशस्थान् दूतावासान् च पिधातुम् उद्देशः नास्ति इति चतुर्भ्यः दिनेभ्यः पूर्वं भारतेन निगदितम् आसीत्। ततः पश्चात् शनिवासरे एव नयतन्त्रज्ञान् प्रत्यानीतवन्तः। अफ्गानिस्थाने सर्वत्र प्रसरितेन आतङ्कप्रवर्तनेन सञ्जाताम् अरक्षितावस्थां भारतं ससूक्ष्मं निरीक्ष्यमाणम् अस्ति। तत्रस्थानां भारतीयकर्मकराणां तथा भारतीयनागरिकाणां च संरक्षणार्थं प्रक्रमाः स्वीकृताः इति अधिकारिणः वदन्ति। नयतन्त्रज्ञान् तथा अन्यकर्मकरान् सुरक्षाकार्यकर्तॄन् च नवदिल्लीं प्रत्यानीते दूतावासाः अनिश्चित-कालपर्यन्तं पिहिताः।