OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः। व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 2, 2021

 आयुर्वेदस्य मूख्यलक्ष्यं स्वस्थस्य स्वास्थ्यसंरक्षणम्- प्रो. मेधावीलालशर्मा


 उदयपुरम्> विश्व -संस्कृतप्रतिष्ठान -राजस्थानम् -उदयपुरेण "वर्तमानपरिप्रेक्ष्ये आयुर्वेदस्य भूमिका" इति विषयमाधृत्य संस्कृतविदुषः डा. शक्तिकुमारशर्माणः स्मृतौ व्याख्यानमालारूपेण ओनलाइन-माध्यमेन संगोष्ठी आयोजिता| अस्यां व्याख्यानमालायां डा. राधाकृष्णन राजस्थान - आयुर्वेद-विश्वविद्यालयस्य मौलिकसिद्धान्त - संस्कृतविभागे सहाचार्यपदम् अलंकुर्वती डा. मोनिकावर्मामहोदया मुख्यवक्त्री आसीत्| डा. वर्मा अकथयत् यत् साम्प्रतं विप्लवकालः| नास्ति कश्चन संदेहः यत् विज्ञानस्योन्नत्या सममेव पर्यावरणप्रदूषणम् , आधयः,व्याधयः,सामाजिकापचाराः अपि वर्धिताः| अस्यां शृखलायां महारोगः कोविड -19 अप्यस्ति| यदा रोगस्य चर्चा भवति आयुर्वेदः सद्यः मस्तिष्के समुद्भवति| आयुर्वेदः वस्तुतः न केवलं चिकित्साशास्त्रं अपितु लोकयात्रायाः सुव्यवस्थितनिर्वहणमार्गोऽपि|आयुर्वेदः प्रकृतिगामी कलाविद् वर्तते|मोक्षैकलक्ष्यता एनम् आध्यात्मशास्त्रस्य समानं स्थापयति, पदार्थमीमांसा दार्शनिकस्वरूपं प्रददाति| तथा च सदाचारोन्मुखता नीतिशास्त्ररूपेण प्रतिष्ठापयति|

संक्षेपेण वक्तुं शक्यते यत् आयुर्वेदः समग्रजीवनपद्धतिं व्यनक्ति| सहस्रेभ्यः वर्षेभ्यः भारतीयाः आयुर्वेदमनुसरन्तः जीवेम शरदः शतम् इति चरितार्थं कृतवन्तः आयुर्वेदस्य प्रमुखोद्देश्यं स्वास्थ्यसंरक्षणमस्ति।

कार्यक्रमस्य अध्यक्षवर्येण गुजरातsयुर्वेदविश्वविद्यालयस्य जामनगरस्य पूर्व कुलपतिना प्रो. मेधावीलालशर्मा वर्येण भणितं यत् आयुर्वेदः इति

भारतीय वैद्यशास्त्रम्।

स्वास्थ्यरक्षणे आयुर्वेदस्य प्राधान्यमभिलक्ष्य आयुर्वेदः अथर्ववेदस्य उपवेदत्वेन प्रथमं भजते। मतमिदं चरकसुश्रुतवाग्भटादिभिः प्रमुखायुर्वेदाचार्यैरेव प्रकाशितम्। व्याख्यानकारः चक्रपाणिरपि एवं वदति

'आयुर्वेदस्य आयुर्वेदत्वमुक्तं भवति, अथर्ववेदैकशेष एव आयुर्वेदः’ इति।

'आयुर्वेद’ - शब्दस्य व्युत्पत्तिं साधयद्भिराचार्यैः प्रकटीकृतम् - आयुरस्मिन् विद्यते, अनेन वा आयुर्विन्दति’ इति। 'भावप्रकाश’ - टीकाकारोपि’आयुर्वेद’ शब्दम् एवं विशदीकरोति -

अनेन पुरुषो यस्माद् आयुर्विन्दति वेत्ति च ।

तस्मान्मुनिवरेरेष ’आयुर्वेद’ इति स्मृतः ॥

आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते। 

अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्।


चरकाचार्यविरचिता ’चरकसंहिता’, सुश्रुताचार्यप्रणीता ’सुश्रुतसंहिता’, वाग्भटग्रथितम् ’अष्टाङ्गहृदयम्’, माधवकरस्य ’माधवनिदानम्’, शार्ङ्गधरस्य 'शार्ङ्गधरपद्धति:’ इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः। चरकसंहितायां ३४१ सस्यजन्यद्रव्याणां, १७७ प्राणिजन्यद्रव्याणां, ६४ खनिजद्रव्याणां च उल्लेखः कृतोऽस्ति। ग्रन्थस्यास्य महत्त्वमभिलक्ष्य अस्य नैकानि व्याख्यानानि रचितानि।चरकसंहितायां 8 स्थानानि सन्ति। मूलत: एषा अग्निवेशेन रचिता संहिता।तत्र चरकमहर्षिणा प्रतिसंस्कार: कृत:। तत: दृढबलनाम्ना अपरेण वैद्येन संपूरणं कृतम्। एवम् अद्य उपलब्धायां चरकसंहितायाम् एषां त्रयाणां कर्तृत्वं विद्यते।

आयुर्वेदानुसारेण आयुः चतुर्विधम् - हितायुः, अहितायुः, सुखायुः, दुःखायुश्चेति।

हिताहितं सुखं दुःखं आयुस्तस्य हिताहितम् ।

मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते ॥ च.सू.३.४१॥

मानसिकशारीरकरोगरहितस्य ज्ञानिनः सुदृढवतः मानवस्य आयुः सुखायुः। एतद्विपरीतं दुःखायुः। अरिषड्वर्गविजितस्य सर्वभूतहिते रतस्य आयुः हितायुः। तद्विरोधे अहितायुः भवति।

आयुश्च शरीरेन्द्रियसत्त्वात्मसंयोगः। इत्थं हि शरीरं तु नानाविध-आधि-व्याधिनाम् आगारमेव। अतः व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य स्वास्थ्थरक्षणं च आयुर्वेदस्य द्वे प्रयोजने।

संगोष्ठ्यां नैके संस्कृतसुधयः सम्मान्याः चोपस्थिताः अभवन्| राजस्थान विद्यापीठस्य संस्कृतविभागाध्यक्षः डा. महेश-आमेटमहोदयः कार्यक्रमममुं समचालयत्| अवसरेऽस्मिन् डा. शक्तिकुमारशर्माणः जीवनवृत्तं, कृतित्वं च विश्वसंस्कृतप्रतिष्ठानस्य चित्तौडप्रान्तस्य महिलाप्रमुखा डा.पङ्कजमरमटमहोदया प्राकाशयत्| संगोष्ठयामस्यां प्रदेशोपाध्यक्षः डा. प्रमोदकुमारवैष्णवः, श्रीप्रदीपभट्टः,श्रीमुकेशशर्मा, श्रीनारायणदीक्षितः, वर्षाजोशीमहोदया, डा. रमेशटांकः,डा. भगवतीशङ्करव्यासः, अन्तिमजैनः, अभिषेकदाधीचः इत्यादयः विद्वांसः प्रतिष्ठिताः च उपस्थिताः आसन्। कार्यक्रमे विश्वसंस्कृतप्रतिष्ठानस्य चितौडप्रान्तस्याध्यक्षः डा. भगवतीशङ्करव्यासमहोदयः अतिथीनां प्रतिभागिनां च धन्यवादमज्ञापयत्| डा. व्यासः अवदत् यत् स्व. डा. शक्तिकुमारशर्माणः विचारवीथिमनुसरन् संस्कृतं मातृभाषां कर्तुं प्रयतितव्यम्|