OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 27, 2021

 अर्जन्टीनेषु तटाकस्य वर्णः  पाटलः अभवत्। जनाः आशङ्काकुलाः जाताः।

   ट्रेल्यू /अर्जन्टीना> अर्जन्टीनेषु दक्षिणपाट्टगोणिया प्रविश्यस्थः एकः तटाकः पूर्णतया पाटलवर्णमभवत्। एषा काचित् आपत्सूचना इति वैज्ञानिकाः अभिप्रयन्ति। गङ्गाटोपस्य (Prawn नाम मत्स्यविशेषः) विदेशान् प्रति प्रेषणसमये कपूयता अथवा शीर्णता न स्यात् इति उद्दिश्य उपयुज्यते किंचित् रासवस्तु। तस्य प्रभावेण मलिनीकरणमिदम् अभवत् इति वैज्ञानिकाः तथा परिस्थितिसंरक्षण-प्रवर्तकाः च वदन्ति। मत्स्यसंस्करणशालासु उपयुज्यमानस्य सोडियं सल्फैट्ट् नाम लवणस्य सान्निध्येनैव तटाकजलं पाटलायितमिति ऊह्यते। कोर्फो तटाकः तथा प्रदेशे विद्यमाना नि अन्यानि जलस्रोतांसि च  स्वस्य जलप्रवाहेन सम्पुष्टीक्रियते चुबट्ट् नदिना। अनया नद्या द्वारा सर्वत्र मालिन्यस्य प्लावनम् अभवत्। एतदेव अस्य तटाकस्य एतादृश्याः अवस्थायाः कारणत्वेन परिस्थितिसंरक्षकाः वदन्ति।