OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 14, 2021

 श्रीराम नाम्नि व्योमनिलय:, आध्यात्मिकवनं, क्रूस् सेवा, इत्यादिभिः सह अयोध्याविकासयोजना।

  नवदिल्ली> विश्वस्य प्रथमवेदनगरी इति स्वप्नेन सह अयोध्याविकासयोजना प्रधानमन्त्रिणः नरेन्द्रमोदिनः समक्षं समर्पिता। विश्वोत्तरविमान-निलयं, रेल्याननिस्थानकं, श्रीरामस्य वनवासकालचित्रितं रामायण- आध्यात्मिकवनम् इत्यादिभिः सम्पन्ना अतिविशाला भवति एषा योजना। विमानपत्तनं मर्यादापुरुषोत्तम श्रीरामविमाननिलयं इति नाम्ना भविष्यति। अयोध्यां प्रति यानमार्गाः चतुश्रेणीरूपेण षट्श्रेणीरूपेण च राष्ट्रिय- राजमार्गत्वेन परिवर्तयिष्यति। अयोध्यानगरं परितः पञ्चषष्ठिकिलोमीट्टर् दैर्ध्ययुक्तस्य अयोध्यावलययानमार्गस्य (Ayodhya Ring road) निर्माणदायित्वं भारत-राष्ट्रिय -राजमार्ग-प्राधिकरणेषु (national highway authority of India) निक्षिप्तं भवति। अतिश्रद्धेयं तथा अतिविशिष्टम् इति मात्रं वक्तुं शक्यते सरयूतीरस्थं रामायणआध्यात्मिकवनम्। रामस्मृतिवनम् इति योजनाया नाम दत्तम्। अत्र रामस्य सीतायाः लक्ष्मणस्य च  चतुर्दशसंवत्सरवनवासस्य सचित्राविष्कारः  प्रदर्शशशदष्यति। १२०० एक्कर् विस्तृता वेदनगरीयोजना च अस्मिन् अन्तर्भविष्यति। तत्र आश्रमाः पञ्चनक्षत्रभोजनालयाः च अन्तर्भविष्यन्ति। एवं भारतीयेतिहासविशेषं रामायणं वनरूपेण नूतनपरम्परायाः समक्षं साक्षात्कारमेष्यति ।