OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 8, 2021

 संस्कृतकक्ष्यायाः प्रसारणम् अपि भवतु -छात्रैः प्रार्थना प्रकाशिता।

 (चित्रम् - आलप्पुष़ जनपदात्)
 आलप्पुष़/केरलम्> अन्तर्जालद्वारा-तत्कालीन कक्ष्यायां संस्कृतपाठाः अपि प्रसारणीया इति छात्राः सर्वकारं प्रार्थितवन्तः। प्राथमिककक्ष्याः आरभ्य उच्चतर-कक्ष्यापर्यन्तं अन्यविषयवत् तुल्यप्राधान्येन संस्कृतकक्ष्यायाः प्रसारणमपि आवश्यकम् इति ते उक्तवन्तः। KiteVicters इति शैक्षिकप्रसारण-वाहिनीद्वारा आयोज्यमानासु कक्ष्यासु क्रमानुगतरीत्या संस्कृतकक्ष्या नास्ति। केरलसर्वकारस्य शैक्षिकविभागेन अस्मिन् अध्ययनकार्यक्रमाणां आयोजनं कुर्वन्ति। संस्कृतं प्रति अनादरः भवति तत्रत्यानाम् इति एषां अध्ययनकार्याक्रमाणां प्रसारणतः सुव्यक्तं भवति। अनेन कारणेन बुधवासरे आकेरलं केरलसंस्कृत-अध्यापक-परिषदेन (KSTF) विप्रतिषेधसमराः आयोजिताः। अध्यापकानाम् आशयेन प्रभाविताः छात्राः अपि आकेरलं गृहेषु एव तिष्ठन्तः सन् स्फोरकपत्रे स्वाशयान् विलिख्य कक्ष्यायाः प्रसारणाय प्रार्थितवन्तः अभवन्।