OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 20, 2022

केरले विद्यालयेषु वाक्सिनीकरणं समारब्धम्। 

अनन्तपुरी> केरले १५ - १८ वयस्कानां कृते वाक्सिनीकरणाय विद्यालयेषु व्यवस्था आविष्कृता। ह्यः आरभ्य विद्यालयेषु सज्जीकृतेषु वाक्सिनीकरणकेन्द्रेषु कोवाक्सिन् नामकं कोविड्प्रत्यौषधम् दातुमारभत। 

  २००७ तमे ततः पूर्वं वा जनिताः छात्राः वाक्सिनीकरणाय अर्हन्ति। ५००अधिकाः छात्राः यत्र अध्ययनं कुर्वन्ति । तत्तादृशेषु ९६७ विद्यालयेषु एव वाक्सिनीकरणकेन्द्राणि भविष्यन्ति। 

  अन्तर्जालसुविधया सह पञ्जीकरणप्रकोष्ठः, छात्राणां प्रतीक्षाप्रकोष्ठः, निरीक्षणप्रकोष्ठः, वाक्सिनीकरणस्थानमित्यादीनि सज्जीकरिष्यन्ति। 

  सर्वकारस्य चिकित्सकाधिकारिणां नेतृत्वे स्वास्थ्यप्रवर्तकाः एव वाक्सिनीकरणं विधास्यन्ति। आम्बुलन्स् यानमभिव्याप्य वाहनसुविधाः अपि सज्जीकरिष्यन्ति।