OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 24, 2022

अरुणाचलात् अप्रत्यक्षः कुमारः चीने सन्दृष्टः। 

नवदिल्ली> अरुणाचलप्रदेशात् अप्रत्यक्षः १७ वयस्कः मिरं टरोण् नामकः सन्दृष्टः इति चीनस्य 'पीपिल् लिबरेषन् आर्मी' [P L A] भारतीयसेनां न्यगादीत्। टरोणं यावच्छीघ्रं भारतमानेतुं पदक्षेपाः प्रारब्धाः इति रक्षामन्त्रालयस्य पि आर् ओ लफ्टनन्ट् केणल् हर्षवर्धन पाण्डेन उक्तम्। 

  अप्पर् सियाङ् जनपदस्थे सिडो ग्रामात् बुधवासरे टारोणः तस्य मित्रं जोणि यायिङः च नियन्त्रणरेखासमीपं वने मृगयार्थं गतौ। टरोणः पि एल् ए सैन्येन अपहृत इति वृत्तान्तः प्रसरितः। नियमानुसृतं अधिगम्य प्रत्यानेतुं भारतेन पि एल् ए सैन्यस्य साहाय्यमभ्यर्थितम्। 

  ततः रविवासरे कुमारः सन्दृष्ट इति चीनेन स्थिरीकृतम्। कुमारमचिरेण भारताय प्रतिदास्यतीति पि एल् ए सैन्येन निगदितम्।