OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 4, 2022

 नमस्या - श्रीमद्भ्यः स्वप्रभानन्दस्वामिपादेभ्यः समादरणम्।


कोट्टयं मण्डले अरुणापुरं श्रीरामकृष्णमठे विख्तातसंस्कृतविद्वद्वरेण्याः पूजनीयस्वप्रभानन्दस्वामिपादाः तेषां शिष्यगणैः समादृताः| नमस्या नाम्ना एवायं कार्यक्रमः समायोजितः| अस्मिन् कार्यक्रमे राज्यसभासदस्यः श्री जोस् के माणि महाभागः आध्यक्ष्यमवहत् | विधानसभासदस्यः श्री माणि सि काप्पन् महोदयः कार्यक्रमस्य उद्घाटनमकरोत्| पूर्वराज्यपालः श्री कुम्मनं राजशेखरन् वर्यः मुख्यातिथिश्चासीत्| मठाध्यक्षः श्रीमत् स्वामि वीतसंगानन्द वर्यः आशंसाभाषणमकरोत्| एवं अनेके सन्यासिवर्याः स्वप्रभानन्दस्वामिनां शिष्याः तद्देशीयाः जनाश्च कार्यक्रमे भागमगृह्णन् |

    केरलेषु वयनाड्तः तिरुवनन्तपुरपर्यन्तं संस्कृतसौरभ्यं प्रसारयन्तो विराजन्ते श्रीमत् स्वप्रभानन्दस्वामिनः| श्रीरामकृष्णसंघस्य वरिष्ठसन्यासिवर्याः वर्तन्ते अयमाचार्यपादाः| भारतीयसंस्कृतेः प्रचाराय प्रसाराय च संस्कृतभाषाध्ययनमत्यन्तापेक्षितमिति अवबुद्ध्यैव स्वामिनः सामान्यजनान् संस्कृतभाषामध्यापयितुं दृढनिश्चयमकुर्वन्| कोट्टयं मण्डले अरुणापुरं देशे स्थितस्य श्रीरामकृष्णमठस्य अध्यक्षरूपेण नियुक्ताः स्वामिनः तत्र देहलीस्थस्य राष्ट्रीयसंस्कृतसंस्थानम् नाम्नः विश्वविद्यालयस्य अधीनतायां श्रीरामकृष्ण-आदर्श-संस्कृतमहाविद्यालयः नामकम् एकं संस्कृतमहाविद्यालयम् आरब्धवन्तः|  तत्र शतशो विद्यार्थिनः स्वामिनामध्यापनकौशलेन संस्कृतभाषायां नौपुण्यमवाप्नुवन्| ते इदानीम् आभारतं संस्कृतक्षेत्रे जाज्वल्यमानाः कर्मनिरताः सन्ति| तद्विहाय केरलाराज्यस्य प्रायः सर्वेषु प्रान्तेषु सञ्चरन्तः स्वामिपादाः सहस्रशः सामान्यजनान्  संस्कृतभाषामध्यापयन्| ततः कोल्कत्तायां बेलूर् देशे स्थिते श्रीरामकृष्णसंघस्य मुख्यालये संस्कृताचार्यरूपेण नियुक्ताः स्वामिनः सन्यासदीक्षां स्वीकर्तुमागच्छतः ब्रह्मचारिणः संस्कृतम् उपनिषदः चाध्यापयन्| स्वामिनः अधुना तिरुवनन्तपुरं मण्डले नेट्टयं देशे स्थिते श्रीरामकृष्णाश्रमे विश्रमजीवितं नयन्ति | तत्रापि आबालवृद्धं जनाः स्वामिनां पार्श्वमेत्य संस्कृतम् उपनिषदः च अधिगच्छन्ति| अनेकान् ग्रन्थान् रचितवन्तः एते आचार्यपादाः इदानीं योगवासिष्ठस्य मलयालभाषायां व्याख्यां रचयन्तः सन्ति |