OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 10, 2022

 संस्कृतं हृदयभाषा भवति - डो  के पि सुधीरा। 

केरले राज्यस्तरीयसंस्कृताध्यापिकासंगमः सम्पन्नः। 

कोष़िक्कोट्> संस्कृतभाषा न केवलं भारतस्य सांस्कृतिकभाषा किन्तु जनानां हृदयभाषा भवतीति प्रशस्ता साहित्यकारी विद्यावचस्पतिः के पि सुधीरा अवोचत्। छात्राणां हृदयस्पर्शरूपेण संस्कृतम् अध्यापयितुम् अध्यापिकाः प्रभवाः इत्यपि तया उक्तम्। केरलसंस्कृताध्यापकफेडरेषन् संघटनेन आयोजितं षष्ठं राज्यस्तरीयं संस्कृताध्यापिकासंगमं - मातृकं २०२२ नामकं -  उद्घाटनं कुर्वती भाषमाणा आसीत् सा। 

  कोष़िक्कोट् नगरे सम्पन्ने  सम्मेलने पद्मश्री पुरस्कारलब्धा मीनाक्षी गुरुः समादृता। कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा प्रो के के गीताकुमारी । आकाशवाण्याः कलाकारी गीतादेवी वासुदेवः आशंसां कृतवती। 

   सम्मेलनेSस्मिन् संघटनस्य राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्ष आसीत्।  कार्यदर्शिप्रमुखः सि पि सलनचन्द्रः संघटनासन्देशमकरोत्।के एस् टि एफ् [पि] विभागस्य अध्यक्षः एन् एन् रामः,सि पि शैलजा, के विन्ध्या, के विजयलक्ष्मी, बिन्सी , पि रेवती इत्येते  प्रभाषणमकुर्वन्। सम्मेलनस्य अंशतया शीतल् एस् कुमारेण अवतारिता अष्टपदी अपि आसीत्।