OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 6, 2022

 प्रमुखः गान्धितत्वानुयायी  गोपिनाथन् नायर् दिवंगतः।

अनन्तपुरी> 'गान्धिमार्ग'श्रृङ्खलायाः अन्तिमवलयस्थेषु  अन्यतमः तथा च केरलस्य शान्तिदूत‌ः इति प्रसिद्धः पि गोपिनाथन् नायर् वर्यः दिवंगत‌ः। अनन्तपुर्यां नेय्याट्टिन्करास्थे निजीयातुरालये मङ्गलवासरे रात्रौ  आसीत् शतवयस्कस्य तस्य अन्त्यः। अन्त्यकर्माणि बुधवासरे सायं सम्पन्नानि। 

  महात्मागान्धिनः जीवन-प्रवर्तनमूल्यैः समाकृष्टः  गोपिनाथन् नायर् वर्यः स्वस्य जीवने कर्मपथे च गान्धितत्वानि स्वायत्तीकृत्य तदनुसारं स्वजीवितमपि आविष्कृतवान्। अत एव पद्मश्रीपुरस्कारेण सः समादृतः। तस्य वियोगे प्रमुखाः सांस्कृतिकनायकाः राजनैतिकवर्याश्च श्रद्धाञ्जलिं समर्पितवन्तः।