OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 23, 2022

 राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। कैरल्यै ८ पुरस्काराः।

नवदिल्ली> भारतस्य २०२० तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। तमिलभाषातः 'सूररै पोट्र्' नामकं चित्रं श्रेष्ठतमं चलच्चित्रमिति पुरस्काराय चितः। तस्मिन्नेव चलच्चित्रे अतुल्यमभिनयं प्रदर्शितवन्तौ नायिकानायकौ अपर्णा बालमुरलिः, सूर्यः च यथाक्रमं श्रेष्ठतमौ नटीनटौ अभवताम्। अजय देवगण् नामकः बोलिवुड् चलच्चित्रनटः अपि श्रेष्ठतमनटस्य पुरस्काराय सहभाजी जातः। 

  कैरल्यां बहवः प्रतिभाधनाः चलच्चित्रकलाकाराः  अस्मिन्  पुरस्कारनिर्णये बहुमानिताः। 'अय्यप्पनुं कोशियुम्' इति चित्रस्य निदेशकः सच्ची [सच्चिदानन्दः] अस्ति  श्रेष्ठतमः निदेशः। एषः पुरस्कारः तस्मै मरणानन्तर बहुमतिरभवत्। एतस्मिन्नेव चलच्चित्रे गानानि गीतवती नञ्चियम्मा नामिका वनवासिगायिका एव  श्रेष्ठतमा गायिका। कैरल्याः प्रतिभाधनः अभिनेता बिजुमेनोनः अय्यप्पनुं कोशियुम्' इति चित्रेण श्रेष्ठतमः सहाभिनेता जातः। वाणिज्यचलच्चित्रक्षेत्रे ८ पुरस्काराः मलयालभाषायै सम्मानिताः।