OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 16, 2020

संयुक्तराष्ट्रसङ्घस्य रक्षासमित्‍यां भारताय स्थिराङ्गत्‍वं दातव्यम् - रष्यदेशः। 
- के.वि.रजीष्

    नवदहली> संयुक्तराष्ट्रसङ्घस्य रक्षासमित्‍यां स्थिराङ्गत्‍वम् आवश्यकम् इति भारतस्य प्रार्थनां प्रति रष्यदेशस्य सहयोगः। ऐक्यराष्ट्रसभाया: रक्षासमित्‍यां भारतस्यापि स्थिराङ्गत्‍वम् आवश्यकम् इति रष्यदेशोऽपि इच्छतीति रष्यदेशस्य विदेशकार्यमन्त्री सेर्जि लेवरोव् अवदत्। नवदहलीमध्ये एकस्मिन् समारोहे भाषमाणः आसीत् सः। ऐक्यराष्ट्रसभाया: रक्षासमितेः विपुलीकरणम् आवश्यकमित्येतत् भारतेन बहोः कालादेव अभ्यर्थ्यमानं वर्तते। भारतेन सह ब्रसील्, जर्मनि, जपान् इत्यादिभिः राष्ट्रैरपि रक्षासमित्याः विपुलीकरणम् अभ्यर्थितं वर्तते। विश्वस्य सर्वेभ्यः भूखण्डेभ्यः अङ्गराष्ट्रेभ्यः च प्रातिनिध्यं निश्चीयमानरीत्‍या रक्षासमित्याः विपुलीकरणम् आवश्यकमिति एतैः राष्ट्रैः अभ्यर्थ्यते। अधुना संयुक्तराष्ट्रसङ्घस्य रक्षासमित्‍यां अमेरिक्क, रष्य, फ्रान्स्, चीनः, ब्रिट्टण् इत्यादिभ्यः राष्ट्रेभ्यः एव स्थिराङ्गत्‍वं वर्तते। एतैः राष्ट्रैः साकं वर्षद्वयकालात्मकतया दश राष्ट्राणाम् आंशिकतया च अङ्गत्‍वं दीयते।